54086: तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः ========================================= **Padacheda:** तत्पुरुषस्य | S | 6 | 1 | अङ्गुलेः | S | 6 | 1 | सङ्ख्या-अव्ययादेः | S | 6 | 1 | Sutrartha --------- **यस्मिन् तत्पुरुषसमासे पूर्वपदम् सङ्ख्यावाचकशब्दः उत अव्ययवाचकः शब्दः अस्ति, उत्तरपदम् च 'अङ्गुलि' इति शब्दः विद्यते, तस्मात् 'अच्' इति समासान्तप्रत्ययः विधीयते ।** यस्मिन् तत्पुरुषसमासे पूर्वपदरूपेण कश्चन सङ्ख्यावाचकः शब्दः अव्ययवाचकः वा शब्दः विद्यते, उत्तरपदरूपेण च 'अङ्गुलि' इति शब्दः विद्यते, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति । यथा - 1. द्वे अङ्गुली प्रमाणमस्य [**तद्धितार्थोत्तरपदसमाहारे च** (2.1.51) इति तत्पुरुषसमासः] → द्वि + अङ्गुलि + मात्रच् [**प्रमाणे द्वयसज्दघ्नञ्मात्रचः** (5.2.37) इत्यनेन 'प्रमाणमस्य' इत्यस्मिन् अर्थे मात्रच् प्रत्ययः भवति । अत्र विधानसामर्थ्यात् केवलम् मात्रच्-प्रत्ययः एव भवति, अन्यौ प्रत्ययौ न भवतः । ] → द्वि + अङ्गुलि [**प्रमाणे द्वयसज्दघ्नञ्मात्रचः** (5.2.37) इत्यत्र पाठितेन इति वार्त्तिकेन मात्रच्-प्रत्ययस्य लुक् विधीयते ।] → द्वि + अङ्गुलि+ अच् [वर्तमानसूत्रेण समासान्तः अच्-प्रत्ययः] → द्व्यङ्गुलि + अ [**इको यणचि** (6.1.77) इति यणादेशः] → द्व्यङ्गुल् + अ [**यस्येति च** (6.4.148) इति इकारलोपः] → द्व्यङ्गुल द्वे अङ्गुली प्रमाणमस्य द्व्यङ्गुलः स्तम्भः । एवमेव - त्रयः अङ्गुलयः प्रमाणमस्य सः त्र्यङ्गुलः । दश अङ्गुलयः प्रमाणमस्य सः दशाङ्गुलः । 2. निर्गतमङ्गुलिभ्यः इति [ इति वार्त्तिकेन तत्पुरुषसमासः] → निर् + अङ्गुलि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः] → निरङ्गुल् + अच् [**यस्येति च** (6.4.148) इति इकारलोपः] → निरङ्गुल अङ्गुलिभ्यः निर्गतम् तत् निरङ्गुलम् । एवमेव - अतिगता अङ्गुलिः तत् अत्यङ्गुलम् । स्मर्तव्यम् - अस्य सूत्रस्य प्रसक्तिः केवलम् तत्पुरुषसमासस्य विषये एव विद्यते । अतः - द्वे अङ्गुुली अस्य / पञ्च अङ्गुलयः यस्य / अतिगताः अङ्गुल्यः यस्य'- इत्यत्र अच्-प्रत्ययः न भवति, अपितु केवलम् पूर्वपद-उत्तरपदयोः मेलनेनैव समासः जायते । यथा - द्वे अङ्गुली अस्य सः द्व्यङ्गुलिः । Vasu English Summary -------------------- The affix अच् comes after a तत्-पुरुष समास ending in the word अङ्गुलि when a numeral or an indeclinable precedes it. Vasu English Translation ------------------------ The affix अच् comes after a तत्-पुरुष समास ending in the word अङ्गुलि when a numeral or an indeclinable precedes it. Thus द्वे अंगुलो प्रमाणमस्य = द्व्यंगुलम्, त्र्यंगुलम् ॥ This compounding takes place by (2.1.51). This is a *Tadhitartha* compound, the *taddhita* affix मात्रच् being elided by the *Vartika* प्रमाणे लो द्विगोर्नित्यम् "there is always the elision of the affix मात्रच् denoting measure when a *Dvigu* compound is formed". See (5.2.37) *Vart*.)). So also when an Indeclinable precedes it: as निर्गामंगुलिभ्यो = निरंगुलम्, अत्यंगुलिः पुरुषः ॥ Why do we say when a *Tatpurusha* compound? Observe पंचांगुलिः, अत्यंगुलिः पुरुषः ॥ The word "*Tatpurusha*" is understood in all the subsequent *sutras* up to (5.4.106). Kashika ------- अङ्गुलिशब्दान्तस्य तत्पुरुषस्य संख्यादेरव्ययादेश्चाच् प्रत्ययो भवति। द्वे अङ्गुली प्रमाणमस्य द्व्यङ्गुलम्। त्र्यङ्गुलम्। **तद्धितार्थो०** (२.१.५१) इति समासः। **प्रमाणे लो द्विगोर्नित्यम्** (वा०५.२.३७) इति मात्रचो लोपः। अव्ययादेः — निर्गतमङ्गुलिभ्यो निरङ्गुलम्। अत्यङ्गुलम्। तत्पुरुषस्येति किम् ? पञ्चाङ्गुलिः। अत्यङ्गुलिः पुरुषः। तत्पुरुषाधिकारश्च **द्वन्द्वाच्चुदषहान्ताद्०** (५.४.१०६) इति यावत्॥ Siddhanta Kaumudi ----------------- संख्याव्ययादेरङ्गुल्यन्तस्य तत्पुरुषस्य समासान्तोऽच् स्यात् । द्वे अङ्गुली प्रमाणमस्य द्व्यङ्गुलं दारु । निर्गतमङ्गुलिभ्यो निरङ्गुलम् ॥ Laghu Siddhanta Kaumudi ----------------------- संख्याव्ययादेरङ्गुल्यन्तस्य समासान्तोऽच् स्यात्। द्वे अङ्गुली प्रमाणमस्य द्व्यङ्गुलम्। निर्गतमङ्गुल्यो निरङ्गुलम्॥ Tattvabodhini ------------- **तत्पुरुषस्याङ्गुलेः संख्याऽव्ययादेः** - तत्पुरुषस्येति । अलोन्त्यविधिं बाधित्वाप्रत्ययः॑परश्चे॑ति परत्वात्तत्पुरुषस्याऽङ्गुले॑रिति तु समासान्तापेक्षया अवयवषष्ठीत्याहुः । व्द्यङ्गुलमिति ।तद्धितार्थ॑इति समासः ।द्विगोर्नित्य॑मिति मात्रचो लोप इति वृत्तिकृत् । मनोरमायां तु द्वयसचो लुगिति स्थितम् ।अहग्र्रहणं द्वन्द्वर्थम् । द्वन्द्वार्थमिति ।अह्नो रात्रि॑रिति षष्ठीतत्पुरुषस्याऽसम्भवादिति भावः । नन्वहःशब्दस्याऽहस्तुल्यतायां, रात्रिशब्दस्य वा रात्रितुल्यतायां गौणत्वसम्भवादहश्चासौ रात्रिश्चेति कर्मधारयोऽस्त्विति चेन्न । मुक्यसम्भवे गौणग्रहणाऽयोगात् ।हेमन्तशिशिरावहोरात्रे चे॑त्यत्र द्वन्द्वे समासान्तदर्शनाच्च । अहोरात्र इति ।जातिरप्रणिना॑मित्येकवद्भावः ।स नपुंसक॑मित्येतद्बाधित्वा परत्वात्रात्राह्नाहाः॑इति पुस्त्वम् । एतेनैकवद्भावात् क्लीबतेति प्राचो ग्रन्थः परास्तः ।मासेन स्यादहोरत्रः॑ इत्यादिग्रन्थविरोधाच्च । सर्वरात्र इथि ।पूर्वकालैके॑ति समासः । पूर्वरात्र इति ।पूर्वापराधरोत्तर॑मित्येकदेशिसमासः । यदा तु रात्रिशब्दस्यैकदेसे लक्षणां स्वीकृत्य कर्मधारयोऽभ्युपगम्यते तदा पूर्वरात्रिरित्येव भवति । द्विरात्रमिति ।सङ्ख्यापूर्वं रात्रं क्लीब॑मिति वक्ष्यते । अह्नष्टखोरेव ।नस्त्द्धिते॑इत्येव सिद्धे नियमार्थमिदम् । एवकारस्त्वह्न एव टखयोरिति विपरीतनियमशङ्कानिरासार्थः ।आत्माध्वनौ खे॑इति प्रकृतिभावविधानेन तन्निरासे प्रतिपत्तिगौरवं स्यादिति भावः । टखोरेवेति किम् । अह्ना निर्बृत्तमाह्निकम् ।काला॑दित्यधिकारेतेन निर्वृत्त॑मिति ठञ् । टिलोपाऽभावात्अल्लोपोऽनः॑इत्यकारलोपः । Padamanjari ----------- अङ्गुलिशब्दान्तस्येत्यादि। सर्वत्र समासान्तसम्बन्धे षष्ठी ॥ Nyaas ----- `मात्रचो लोपः` इति। `प्रमाणे द्वयसच्` (5.2.37) इत्यादिना विहितस्य। `निरङ्गुलम्` इति। निरध्वमित्यनेन तुल्यमेतत्। `अत्यङ्गुलम्` इति। एतदप्यत्यध्वमित्यनेन तुल्यम्। `पञ्चाङ्गुलिः` इति बहुव्रीहिः॥ Praudhamanorama --------------- तत्पुरुषस्याङ्गुलेः ॥ समासाऽन्ताऽपेक्षयाऽत्रयवषष्ठी । **द्व्यङ्गुलमिति ।** ‘द्विगोर्नित्यमि’ति द्वयसचो लुक् । Prakriyasarvasvam ----------------- सङ्ख्याव्ययोदरङ्गुल्यन्तस्य तत्पुरुषस्याच् प्रत्ययः स्यात् । यस्य—' (६-४- १४८) इति लोपः । द्वयोरङ्गुल्योस्समाहारो द्व्यङ्गुलम् । अयं सङ्ख्यापूर्वत्वाद् द्विगुसंज्ञः ।।