54081: अन्ववतप्ताद्रहसः¶
Padacheda: अनु्-अव-तप्तात् | S | 5 | 1 |
रहसः | S | 5 | 1 |
Sutrartha¶
यस्मिन् समासे पूर्वपदम् ‘अनु’, ‘अव’ उत ‘तप्त’ एतेषु किञ्चन अस्ति, उत्तरपदम् च ‘रहस्’ इति शब्दः वर्तते, तस्मात् ‘अच्’ इति समासान्तप्रत्ययः भवति ।
‘अनु’, ‘अव’ तथा ‘तप्त’ एते शब्दाः यस्मिन् समासे पूर्वपदरूपेण विद्यन्ते, तथा च ‘रहस्’ (= अप्रकाश / secrecy / mystery) इति शब्दः उत्तरपदरूपेण विधीयते, तस्मात् ‘अच्’ इति समासान्तप्रत्ययः भवति । यथा - 1. अनुगतं रहः [कुगतिप्रादयः (2.2.18) इति तत्पुरुषसमासः] → अनु + रहस् + अच् [वर्तमानसूत्रेण अच्-प्रत्ययः] → अनुरहस अत्र ‘अनुगतम् रहसा’ / ‘अनुगतं रहः यस्मिन् सः’ एतादृशानि भिन्नानि विग्रहवाक्यानि अपि भवितुमर्हन्ति । 2. अवहीनम् रहः [ कुगतिप्रादयः (2.2.18) इति तत्पुरुषसमासः] → अव+ रहस् + अच् [वर्तमानसूत्रेण अच्-प्रत्ययः] → अवरहस अत्र ‘अवहीनम् रहसा’ / ‘अवहीनं रहः यस्मिन् सः’ एतादृशानि भिन्नानि विग्रहवाक्यानि अपि भवितुमर्हन्ति । 3. तप्तं च तद् रहः च् [विशेषणम् विशेष्येण बहुलम् (2.1.57) इति कर्मधारयसमासः] → तप्त + रहस् + अच् [वर्तमानसूत्रेण अच्-प्रत्ययः] → तप्तरहस
Vasu English Summary¶
The affix अच् comes after the word रहस् when it follows 1. अनु 2. अव and 3. तप्त in a compound.
Vasu English Translation¶
The affix अच् comes after the word रहस् when it follows 1. अनु 2. अव and 3. तप्त in a compound. Thus अनुरहसम्, अवरहसम्, तप्तरहसम् ॥
Kashika¶
अनु अव तप्त इत्येतेभ्यः परो यो रहश्शब्दस्तदन्तात् समासादच् प्रत्ययो भवति। अनुरहसम्। अवरहसम्। तप्तरहसम्॥
Siddhanta Kaumudi¶
अनुरहसम् । अवरहसम् । तप्तरहसम् ॥
Balamanorama¶
अन्ववतप्ताद्रहसः - अन्ववतप्ताद्रहसः । अनु अव तप्त एतेषां समाहारद्वन्द्वः । एभ्यः परो यो रहश्शब्दस्तस्मादच्स्यादित्यर्थः । रहः-अप्रकाशप्रदेशः । अनुरहसमिति । अनुगतं रह इति विग्रहः । अवरहसमिति । अवहीनं रह इति । विग्रहः । उभयत्र प्रादिसमासः । तप्तरहसमिति । तप्तं रह इति विग्रहः । प्रतेरुरसः । सप्तम्यर्थे द्योतकतया वर्तत इति सप्तमीस्थम् । सप्तम्यर्थद्योतकात् प्रतेः परो य उरश्शब्दस्तस्मादच् स्यादित्यर्थः । उरसीति । अनेन यदुच्यते तदेव प्रत्युरसमित्यनेनोच्यत इत्यर्थः । सप्तम्यर्थद्योतकः प्रतिः । तस्य विभक्त्यर्थे विद्यमानस्यअव्ययं विभक्ती॑त्यादिनाऽव्ययीभाव इति भावः ।
Tattvabodhini¶
अन्ववतप्ताद्रहसः - अन्वव । इहरहः ॑इत्यप्रकाशमुच्यते ।अनुगतमवहीनं च रहः॑इति प्रादिसमासः,अनुगतं रहोऽस्मिन्नि॑त्यादिबहुव्रीहिर्वा । प्तरहसमिति ।तप्तं च तद्रहश्चे॑ति विग्रहः । परेणानधिगम्यमित्यर्थः । इत्यतः प्रागिति ।प्राग्बहुव्रीहिग्रहणं कर्तव्य॑मिति वार्तिकोक्तेरिति भावः ।
Padamanjari¶
रहःशब्दोऽयमप्रकाशे वर्तते। अनुगतं रह इति। प्रादिसमासः, अनुगतं रहोऽस्मिन्निति बहुव्रीहिर्वा। एवमवहीनं रहः, अवहीनं रहोऽस्मिन्नति अवरहसम्। तप्तं च तद्रहश्च तप्तरहस॥। अत्यन्तं रह इत्यर्थः ॥
Nyaas¶
अनुरहसम् इति। रहःशब्दोऽयमप्रकाशे वर्तते। अनुगतं रहसः, अनुगतं रह इति वा प्रादिसमासः। अनुगतं रहोऽस्मिन्निति बहुव्रीहिर्वा। अवरहसम् इति। अवहीनं रहसाऽवहीनं रह इति वा प्रादिसमासः। अवहीनं वा रहोऽस्मिन्निति बहुव्रीहिः। तप्तञ्च तद्रहश्चेति तप्तरहसम् विशेषणसमासः। यदुत्पन्नं रहो लोते न केनचिदवगम्यते, तत्? तप्तरहसमित्युच्यते। तपतमिव तप्तम्, यथैव ह्रग्निना तप्तं न केनचिदवगम्यते, तथेदमिति॥
Prakriyasarvasvam¶
अनुरहसम् । सप्तम्यर्थे वीप्सायां वाव्ययीभावः । प्रादिसमासेऽपि । रहोऽनुप्राप्तोऽनुरहसो नरः । अनुगतं रहोऽस्मिन्निति देशोऽपि । अवरहसमीषद्रहः । अवहीनं रहोऽस्मिन्निति वा । अत्यन्तं रहस्तप्तरहसमिति हरः ॥
Sutra Prayogas¶
अनुरहसम् (शिशुपालवधम्): अन्ववतप्ताद्रहसः इत्यव्ययीभावः समासान्तः।