54082: प्रतेरुरसः सप्तमीस्थात्

Padacheda: प्रतेः | S | 5 | 1 |

उरसः | S | 5 | 1 |

सप्तमीस्थात् | S | 5 | 1 |

Sutrartha

‘प्रति’ इत्यनेन सह ‘उरसि’ इति सप्तम्यन्तस्य पदस्य समासे जाते तस्मात् ‘अच्’ इति समासान्तप्रत्ययः भवति ।

यस्मिन् समासे ‘प्रति’ इति शब्दः पूर्वपदरूपेण, तथा च सप्तम्यर्थे प्रयुक्तः ‘उरस्’ इति शब्दः उत्तरपदरूपेण विद्यते, तस्मात् समासात् ‘अच्’ इति समासान्तप्रत्ययः भवति । यथा - उरसि वर्तते इति [अव्ययं विभक्तिसमीप… (2.1.6) इति अव्ययीभावसमासः] → प्रति + उरस् + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः] → प्रत्युरस [इको यणचि (6.1.77) इति यणादेशः] उरसि वर्तते तत् प्रत्युरसम् । यत्र ‘उरस्’ शब्दः सप्तम्यर्थे न प्रयुज्यते, तत्र वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - प्रतिगतमुरः प्रत्युरः ।

Vasu English Summary

The affix अच् comes after the word उरस् when it follows the word प्रति in a compound and has the sense of the Locative.

Vasu English Translation

The affix अच् comes after the word उरस् when it follows the word प्रति in a compound and has the sense of the Locative. Thus प्रत्युरसम् = उरसि वर्त्तते ॥ This is an Avyayibhava compound, the indeclinable having the force of a vibhakti (2.1.6).

Why do we say “when having the sense of the locative?” Observe प्रत्युरः = प्रतिगतमुरः ॥

Kashika

प्रतेः परो य उरःशब्दस्तदन्तात् समासादच् प्रत्ययो भवति, स चेदुरःशब्दः सप्तमीस्थो भवति। सप्तम्यर्थे वर्तत इत्यर्थः। उरसि वर्तते। विभक्त्यर्थे अव्ययम्० (२.१.६) इति समासः। प्रत्युरसम्। सप्तमीस्थादिति किम् ? प्रतिगतमुरः प्रत्युरः॥

Siddhanta Kaumudi

उरसि इति प्रत्युरसम् । विभक्त्यर्थेऽव्ययीभावः ॥

Padamanjari

सप्तम्यर्थे वर्तत इति। न ह्यन्यदुरःशब्दस्य सप्तमीस्थत्वं नामेति भावः ॥

Nyaas

सप्तमीस्थात् इति। सप्तम्यां तिष्ठतीति सप्तमीस्थः, सुपि स्थः (3.2.4) इति कप्रत्ययः। यश्च सप्तम्यर्थे वर्तते, एवं सप्तमीस्थो भवतीत्याह - सप्तम्यर्थे वर्तते इति। प्रतिगतमुरः प्रत्युरः इति। अत्यादयः क्रान्ताद्यर्थे द्वितीयया (वा। 91) इति समासः॥

Prakriyasarvasvam

प्रतेः परात् सप्तम्यर्थवृत्तेरुरसोष्टच् स्यात् । प्रत्युरसम् । विभक्त्यर्थे समासः ॥

Sutra Prayogas

  • प्रत्युरसं (किरातार्जुनीयम्): प्रतेरुरसः सप्तमीस्थात् इति समासान्तः।

  • प्रत्युरसं (शिशुपालवधम्): प्रतेरुरसः सप्तमीस्थात् इति समासान्तोऽच्प्रत्ययः।