54081: अन्ववतप्ताद्रहसः ======================= **Padacheda:** अनु्-अव-तप्तात् | S | 5 | 1 | रहसः | S | 5 | 1 | Sutrartha --------- **यस्मिन् समासे पूर्वपदम् 'अनु', 'अव' उत 'तप्त' एतेषु किञ्चन अस्ति, उत्तरपदम् च 'रहस्' इति शब्दः वर्तते, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति ।** 'अनु', 'अव' तथा 'तप्त' एते शब्दाः यस्मिन् समासे पूर्वपदरूपेण विद्यन्ते, तथा च 'रहस्' (= अप्रकाश / secrecy / mystery) इति शब्दः उत्तरपदरूपेण विधीयते, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति । यथा - 1. अनुगतं रहः [**कुगतिप्रादयः** (2.2.18) इति तत्पुरुषसमासः] → अनु + रहस् + अच् [वर्तमानसूत्रेण अच्-प्रत्ययः] → अनुरहस अत्र 'अनुगतम् रहसा' / 'अनुगतं रहः यस्मिन् सः' एतादृशानि भिन्नानि विग्रहवाक्यानि अपि भवितुमर्हन्ति । 2. अवहीनम् रहः [ **कुगतिप्रादयः** (2.2.18) इति तत्पुरुषसमासः] → अव+ रहस् + अच् [वर्तमानसूत्रेण अच्-प्रत्ययः] → अवरहस अत्र 'अवहीनम् रहसा' / 'अवहीनं रहः यस्मिन् सः' एतादृशानि भिन्नानि विग्रहवाक्यानि अपि भवितुमर्हन्ति । 3. तप्तं च तद् रहः च् [**विशेषणम् विशेष्येण बहुलम्** (2.1.57) इति कर्मधारयसमासः] → तप्त + रहस् + अच् [वर्तमानसूत्रेण अच्-प्रत्ययः] → तप्तरहस Vasu English Summary -------------------- The affix अच् comes after the word रहस् when it follows 1. अनु 2. अव and 3. तप्त in a compound. Vasu English Translation ------------------------ The affix अच् comes after the word रहस् when it follows 1. अनु 2. अव and 3. तप्त in a compound. Thus अनुरहसम्, अवरहसम्, तप्तरहसम् ॥ Kashika ------- अनु अव तप्त इत्येतेभ्यः परो यो रहश्शब्दस्तदन्तात् समासादच् प्रत्ययो भवति। अनुरहसम्। अवरहसम्। तप्तरहसम्॥ Siddhanta Kaumudi ----------------- अनुरहसम् । अवरहसम् । तप्तरहसम् ॥ Balamanorama ------------ **अन्ववतप्ताद्रहसः** - अन्ववतप्ताद्रहसः । अनु अव तप्त एतेषां समाहारद्वन्द्वः । एभ्यः परो यो रहश्शब्दस्तस्मादच्स्यादित्यर्थः । रहः-अप्रकाशप्रदेशः । अनुरहसमिति । अनुगतं रह इति विग्रहः । अवरहसमिति । अवहीनं रह इति । विग्रहः । उभयत्र प्रादिसमासः । तप्तरहसमिति । तप्तं रह इति विग्रहः । प्रतेरुरसः । सप्तम्यर्थे द्योतकतया वर्तत इति सप्तमीस्थम् । सप्तम्यर्थद्योतकात् प्रतेः परो य उरश्शब्दस्तस्मादच् स्यादित्यर्थः । उरसीति । अनेन यदुच्यते तदेव प्रत्युरसमित्यनेनोच्यत इत्यर्थः । सप्तम्यर्थद्योतकः प्रतिः । तस्य विभक्त्यर्थे विद्यमानस्यअव्ययं विभक्ती॑त्यादिनाऽव्ययीभाव इति भावः । Tattvabodhini ------------- **अन्ववतप्ताद्रहसः** - अन्वव । इहरहः ॑इत्यप्रकाशमुच्यते ।अनुगतमवहीनं च रहः॑इति प्रादिसमासः,अनुगतं रहोऽस्मिन्नि॑त्यादिबहुव्रीहिर्वा । प्तरहसमिति ।तप्तं च तद्रहश्चे॑ति विग्रहः । परेणानधिगम्यमित्यर्थः । इत्यतः प्रागिति ।प्राग्बहुव्रीहिग्रहणं कर्तव्य॑मिति वार्तिकोक्तेरिति भावः । Padamanjari ----------- रहःशब्दोऽयमप्रकाशे वर्तते। अनुगतं रह इति। प्रादिसमासः, अनुगतं रहोऽस्मिन्निति बहुव्रीहिर्वा। एवमवहीनं रहः, अवहीनं रहोऽस्मिन्नति अवरहसम्। तप्तं च तद्रहश्च तप्तरहस॥। अत्यन्तं रह इत्यर्थः ॥ Nyaas ----- `अनुरहसम्` इति। रहःशब्दोऽयमप्रकाशे वर्तते। अनुगतं रहसः, अनुगतं रह इति वा प्रादिसमासः। अनुगतं रहोऽस्मिन्निति बहुव्रीहिर्वा। `अवरहसम्` इति। अवहीनं रहसाऽवहीनं रह इति वा प्रादिसमासः। अवहीनं वा रहोऽस्मिन्निति बहुव्रीहिः। तप्तञ्च तद्रहश्चेति `तप्तरहसम्` विशेषणसमासः। यदुत्पन्नं रहो लोते न केनचिदवगम्यते, तत्? तप्तरहसमित्युच्यते। तपतमिव तप्तम्, यथैव ह्रग्निना तप्तं न केनचिदवगम्यते, तथेदमिति॥ Prakriyasarvasvam ----------------- अनुरहसम् । सप्तम्यर्थे वीप्सायां वाव्ययीभावः । प्रादिसमासेऽपि । रहोऽनुप्राप्तोऽनुरहसो नरः । अनुगतं रहोऽस्मिन्निति देशोऽपि । अवरहसमीषद्रहः । अवहीनं रहोऽस्मिन्निति वा । अत्यन्तं रहस्तप्तरहसमिति हरः ॥ Sutra Prayogas -------------- * **अनुरहसम्** (शिशुपालवधम्): `अन्ववतप्ताद्रहसः` इत्यव्ययीभावः समासान्तः।