54066: सत्यादशपथे¶
Padacheda: सत्यात् | S | 5 | 1 |
अशपथे | S | 7 | 1 |
Sutrartha¶
‘कृ’ धातोः योगे प्रयुक्तात् ‘सत्य’ शब्दात् ‘शपथ’ एतम् सन्दर्भं विहाय अन्येषु सन्दर्भेषु ‘डाच्’ इति प्रत्ययः स्वार्थे विधीयते ।
‘कृ’ धातोः योगे प्रयुक्तः यः ‘सत्य’ शब्दः, तस्मात् स्वार्थे डाच्-प्रत्ययः विधीयते । कृ-धातोः योगे ‘सत्य’ शब्दः कदा प्रयुज्यते ? यदा कश्चन मनुष्यः कञ्चित् निश्चयमुक्त्वा, तादृशम् प्रत्यक्षरूपेण करोति (brings his words / thought into reality) तदा तस्य निर्दशः ‘सत्यम् करोति’ इति उच्यते । यथा, ‘अहम् एतत् भाण्डम् क्रेष्यामि’ इति उक्त्वा कश्चन वणिक् तादृशम् भाण्डम् क्रेष्यति, तदा ‘वणिक् भाण्डम् सत्यम् करोति (Really purchases the pot)’ इति उच्यते । अस्यैव निर्देशार्थम् ‘सत्य’ शब्दात् डाच्-प्रत्ययः भवति । यथा - वणिक् भाण्डम् सत्या करोति । प्रक्रिया इयम् - सत्य + डाच् → सत्य् + आ [टेः (6.4.143) इति टिलोपः] → सत्या यत्र सत्य शब्दः ‘शपथ’ अस्मिन् सन्दर्भे प्रयुज्यते - यथा ‘विप्रः शपथे सत्यं करोति’’ (A brahmin takes an oath of speaking the truth) तत्र तु अस्य सूत्रस्य प्रयोगः न भवति - इति स्पष्टीकर्तुमस्मिन् सूत्रे ‘अशपथे’ इतो ग्रहीतमस्ति । विशेषः 1. डाच्-प्रत्ययान्तशब्दानाम् ऊर्यादिच्विडाचश्च (1.4.61) इत्यनेन ‘निपात’ तथा ‘गति’द्वे अपि संज्ञे भवतः । अस्य प्रयोजनानि एतानि - अ) निपातसंज्ञायाः कारणात् स्वरादिनिपातमव्ययम् (1.1.37) इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः ‘अव्यय’संज्ञकाः अपि सन्ति । आ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा ‘गतिसंज्ञा’कारणात् कुगतिप्रादयः (2.2.18) इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - ‘सत्याकृत्य’, ‘सत्याकृतः’ आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषामुच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र ‘सत्या करोति’ एतादृशम् शब्दद्वयमेव लेखनीयम् । इ) गतिसंज्ञकाः शब्दाः ते प्राग्धातोः (1.4.80) इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः ‘सत्या करोति’ इत्येव वक्तव्यम्, न हि ‘करोति सत्या’ इति । 2. इदम् सूत्रम् समर्थानाम् प्रथमात् वा (4.1.82) अस्मिन् सूत्रे निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, अतः अनेन सूत्रेण उक्तः ‘डाच्’ प्रत्ययः विकल्पेनैव विधीयते । इत्युक्ते, पक्षे वाक्यस्य अपि प्रयोगः भवति । यथा - ‘वणिग् भाण्डम् सत्यं करोति’ इति ।
Vasu English Summary¶
The affix डाच् comes after the word सत्य followed by कृ ‘to make’ when not meaning ‘to swear’.
Vasu English Translation¶
The affix डाच् comes after the word सत्य followed by कृ ‘to make’ when not meaning ‘to swear’. The word सत्य means ‘truth’ as opposed to ‘falsehood’. Sometimes it means to swear, as in the sentence “सत्येन शापयेद् विप्रम्” ॥ This latter sense is prohibited. Thus सत्या करोति वनिक् भाण्डम् “the merchant concludes the bargain of the goods i. e. he settles that he will purchase these wares”. Why do we say ‘when not meaning to swear’? Observe सत्यं करोति ब्राह्मणः “the Brahmana swears”.
Kashika¶
कृञ इत्येव। सत्यशब्दादशपथे डाच् प्रत्ययो भवति कृञो योगे। सत्यशब्दोऽनृतप्रतिपक्षवचनः। क्वचित् तु शपथे च वर्तते — सत्येन शापयेद् विप्रम् (मनु०८.११३) इति, तस्यायं प्रतिषेधः। सत्याकरोति वणिक् भाण्डम्। मयैतत् क्रेतव्यमिति तथ्यं करोति। अशपथ इति किम् ? सत्यं करोति ब्राह्मणः॥
Siddhanta Kaumudi¶
सत्याकरोति भाण्डं वणिक् । क्रेतव्यमिति तथ्यं करोतीत्यर्थः । शपथे तु सत्यं करोति विप्रः ॥
Balamanorama¶
सत्यादशपथे - सत्यादशपथे ।डा॑जिति शेषः । सत्याकरोति भाण्डमिति । रत्नादिद्रव्यजातमित्यर्थः । सत्यशब्दोऽत्र तथ्ये वर्तते ।सत्यं तथ्यमृतं सम्य॑गित्यमरः । क्रेत्वयमितीति ।एतावतैव मूल्येनेदं क्रयणार्हं नातोऽधिकमूल्येने॑त्येवं यथाभूतार्थं वदतीत्यर्थः । सत्यंकरोति विप्र इति । शपथं करोतीत्यर्थः ।
Padamanjari¶
सत्सु साधु सत्यम्, प्राग्घितीये यति प्राप्तेऽस्मादेव निपातनाद्यः अन्तोदातो हि सत्यशब्दः - सत्येनोतभिता भूमिः, ऋतं च सत्यं चेति। शपेरथः शपथः, भाण्डमुरत्नादिद्रव्यजातम्। तथ्यमिति। तथैवौतथ्यम्,’पादार्घाभ्यां च’ इति चकारस्यानुक्तसमुच्चयार्थत्वात्स्वार्थे यत् ॥
Prakriyasarvasvam¶
शपथादन्यार्थे सत्याद् डाच् । सत्याकरोति भाण्डं वणिक् । क्रेतव्यतायाः सत्यत्वार्थं मूल्यांशदानेन भाण्डमावर्जयतीत्यर्थः । सत्याकरोति सत्यं वदतीत्येवार्थ इति सुभद्राहरणे । शपथे तु सत्यं करोति विप्रः ।।