54067: मद्रात् परिवापणे

Padacheda: मद्रात् | S | 5 | 1 |

परिवापणे | S | 7 | 1 |

Sutrartha

कृ-धातोः योगे विद्यमानात् ‘मद्र’ शब्दात् ‘परिवापण’ अस्मिन् सन्दर्भे स्वार्थे डाच्-प्रत्ययः भवति ।

‘परिवापणम्’ (= मुण्डनम्, removing all the hairs from the head) इत्यस्मिन् सन्दर्भे प्रयुक्तः यः ‘मद्र’ (= मङ्गलम्, भद्रम्, auspicious ) शब्दः , सः यदा ‘कृ’ धातोः योगे प्रयुज्यते तदा तस्मात् स्वार्थे डाच्-प्रत्ययः भवति । यथा - मद्रम् परिवापणम् करोति इत्येव = मद्रा करोति । प्रक्रिया इयम् - मद्र + डाच् → मद्र् + आ [टेः (6.4.143) इति टिलोपः] → मद्रा यत्र ‘मुण्डनम्’ इति अर्थः न विद्यते, तत्र वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - मद्रम् कार्यम् करोति । अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - <!भद्राच्चेति वक्तव्यम्!> । ‘भद्र’ शब्दात् अपि अस्मिन्नेव विषये डाच्-प्रत्ययः भवति इत्यर्थः । यथा - भद्रम् परिवापणम् करोति इत्येव = भद्राकरोति (माङ्गल्यार्थम् मुण्डनं करोति इत्याशयः) । ज्ञातव्यम् - 1. डाच्-प्रत्ययान्तशब्दानाम् ऊर्यादिच्विडाचश्च (1.4.61) इत्यनेन ‘निपात’ तथा ‘गति’द्वे अपि संज्ञे भवतः । अस्य प्रयोजनानि एतानि - अ) निपातसंज्ञायाः कारणात् स्वरादिनिपातमव्ययम् (1.1.37) इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः ‘अव्यय’संज्ञकाः अपि सन्ति । आ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा ‘गतिसंज्ञा’कारणात् कुगतिप्रादयः (2.2.18) इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - ‘मद्राकृत्य’, ‘मद्राकृतः’ - आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषामुच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र ‘मद्रा करोति’ एतादृशम् शब्दद्वयमेव लेखनीयम् । इ) गतिसंज्ञकाः शब्दाः ते प्राग्धातोः (1.4.80) इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः ‘मद्रा करोति’ इत्येव वक्तव्यम्, न हि ‘करोति मद्रा’ इति । 2. इदम् सूत्रम् समर्थानाम् प्रथमात् वा (4.1.82) अस्मिन् सूत्रे निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, अतः अनेन सूत्रेण उक्तः ‘डाच्’ प्रत्ययः विकल्पेनैव विधीयते । इत्युक्ते, पक्षे वाक्यस्य अपि प्रयोगः भवति । यथा - ‘मद्रम् करोति’ इति ।

Vasu English Summary

The affix डाच् comes after the word मद्र followed by कृ ‘to make’ in the sense of ‘to shave’.

Vasu English Translation

The affix डाच् comes after the word मद्र followed by कृ ‘to make’ in the sense of ‘to shave’. The word परिवापण means ‘to shave’ ‘to raze’. The word मद्र means ‘auspicious’. Thus मङ्गलं मुण्डनं करोति = मद्रा करोति ॥

Vart:- So also after the word भद्रा; as भद्रा करोति नापितं कुमारं “the barber shaves the hair of the boy on the auspicious occasion”.

Why do we say when meaning ‘to shave’. Observe मद्रं or भद्रं करोति ॥

Bhashya

मद्रात् परिवापणे (2344) (उपसंख्यानभाष्यम्) भद्राच्चेति वक्तव्यम्। भद्राकरोति॥

Kashika

कृञ इत्येव। मद्रशब्दात् परिवापणे डाच् प्रत्ययो भवति कृञो योगे। परिवापणं मुण्डनम्। मद्रशब्दो मङ्गलार्थः। मङ्गलं मुण्डनं करोति, मद्राकरोति ॥ भद्राच्चेति वक्तव्यम्॥ भद्राकरोति नापितः कुमारम्। परिवापण इति किम् ? भद्रं करोति॥

Siddhanta Kaumudi

मद्रशब्दो मङ्गलार्थः । परिवापणं मुण्डनम् । मद्राकरोति । माङ्गल्यमुण्डनेन संस्करोतीत्यर्थः ॥<!भद्राच्चेति वक्तव्यम् !> (वार्तिकम्) ॥ भद्राकरोति । अर्थः प्राग्वत् । परिवापणे किम् । मद्रं करोति । भद्रं करोति ॥

Balamanorama

मद्रात् परिवापणे - मद्रात्परिवापणे ।डा॑जिचि शेषः । मङ्गलार्थ इति । मङ्गलपर्याय इत्यर्थः । परिवापणंमुण्डनमिति । ‘केशान्वपते’ इत्यादौ तथा दर्शनादिति भावः । माङ्गल्यमुण्डनेनेति । चौलेनेत्यर्थः । मद्रं करोप्ति भद्रं करोतीति । क्षेमं करोतीत्यर्थः । अत्र परिवापणाऽप्रतीतेर्न डाजिति भावः । **** इति बालमनोरमायाम् तद्धितप्रक्रिया । ****अथ तद्धितेषु रक्ताद्यर्थकाः । — — — — — — — — -

Tattvabodhini

मद्रात् परिवापणे - परिवापणमिति । कर्मव्यापारमात्रवाचिनो वपेर्हेतुमण्णिचि ल्युडिति हरदत्त्#H । कर्मव्यापारः -फलं, तस्य कर्मनिष्ठत्वात् । तथा च फलमात्रवाचिन इत्यर्थः फलित इत्याहुः । माङ्गल्यमुण्डनेनेति । चौलदीक्षादौ ।भद्राच्चेति वक्तव्यम् । भद्राच्चेति । भद्रादित्यर्थग्रहणमिति व्याख्याने तु मङ्गलादिभ्योऽपि स्यादिति बोध्यम् ।इति तत्वबोधिन्यां तद्धितप्रक्रिया ।अथ तनादयः ।

Nyaas

मद्राकरोति इति। मङ्गलपूर्वं मुण्डनं करोतीत्यर्थः। भद्राच्चेति वक्तव्यम् इति। भद्रशब्दाच्च डाज्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - समयाच्च यापनायाम् (5.4.60) इत्यतश्चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः, तेन भद्रादपि भविष्यतीति॥

Prakriyasarvasvam

अस्माद्वापनेऽर्थे डाच् । मद्राकरोति शिशुम् । ‘भद्राच्च वाच्यम् (वा०) । भद्राकरोति । चौलादौ मङ्गल्यमुण्डनं करोतीत्यर्थः । <karika>तसिलाद्याः पाशपः प्राक् डाच्पर्यन्ताः शसादयः । वतिर्नानाञ्थामामुञ्च कृत्वोर्थस्तद्धितेऽव्ययम् ।। ३७० ।। इतःपरं समासान्ताः सन्ति केचन तद्धिताः । तेषां सत्तत्समासेषु वर्णनैव लघीयसी ।। ३७१ ।।</karika>

Vartika

भद्राच्चेति वक्तव्यम् ।