54065: शूलात् पाके

Padacheda: शूलात् | S | 5 | 1 |

पाके | S | 7 | 1 |

Sutrartha

कृ-धातोः योगे प्रयुक्तात् ‘शूल’ शब्दात् पाकस्य निर्देशार्थम् डाच्-प्रत्ययः भवति ।

कृ-धातोः योगे प्रयुक्तात् ‘शूल’ ( spear / an instrument with a pointed tip) अस्मात् शब्दात् पाकस्य निर्देशार्थम् ‘डाच्’ प्रत्ययः भवति । यथा - शूलं करोति मांसम् (शूले मांसं पचति / cooks meat in a pointed vessel) इत्येव = शूला करोति । प्रक्रिया इयम् - शूल + डाच् → शूल् + आ [टेः (6.4.143) इति टिलोपः] → शूला विशेषः - 1. डाच्-प्रत्ययान्तशब्दानाम् ऊर्यादिच्विडाचश्च (1.4.61) इत्यनेन ‘निपात’ तथा ‘गति’द्वे अपि संज्ञे भवतः । अस्य प्रयोजनानि एतानि - अ) निपातसंज्ञायाः कारणात् स्वरादिनिपातमव्ययम् (1.1.37) इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः ‘अव्यय’संज्ञकाः अपि सन्ति । आ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा ‘गतिसंज्ञा’कारणात् कुगतिप्रादयः (2.2.18) इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - ‘शूलाकृतः’, ‘शूलाकृत्य’ - आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषामुच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र ‘शूला करोति’ एतादृशम् शब्दद्वयमेव लेखनीयम् । इ) गतिसंज्ञकाः शब्दाः ते प्राग्धातोः (1.4.80) इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः ‘शूला करोति’ इत्येव वक्तव्यम्, न हि ‘करोति शूला’ इति । 2. इदम् सूत्रम् समर्थानाम् प्रथमात् वा (4.1.82) अस्मिन् सूत्रे निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, अतः अनेन सूत्रेण उक्तः ‘डाच्’ प्रत्ययः विकल्पेनैव विधीयते । इत्युक्ते, पक्षे वाक्यस्य अपि प्रयोगः भवति । यथा - ‘शूलं करोति मांसम्’ इति । अत्र ‘शूलं करोति’ इति शब्दः ‘शूले पचति’ इत्यस्मिन् अर्थे ग्रहीतव्यः ।

Vasu English Summary

The affix डाच् comes after the word शूल followed by कृ ‘to make’ when the sense is that of roasting.

Vasu English Translation

The affix डाच् comes after the word शूल followed by कृ ‘to make’ when the sense is that of roasting. Thus शूले पचति = शूला करोति मांसम् “he roasts the meat on a spit”. Why do we say “when meaning to roast” ? Observe शूलं करोति कदन्नम् “the bad food causes colic”.

Kashika

कृञ इत्येव। शूलशब्दात् पाकविषये डाच् प्रत्ययो भवति कृञो योगे। शूले पचति, शूलाकरोति मांसम्। पाक इति किम् ? शूलं करोति कदन्नम्॥

Siddhanta Kaumudi

शूलाकरोति मांसम् । शूलेन पचतीत्यर्थः ॥

Balamanorama

शूलात् पाके - शूलात्पाके ।डा॑जिति शेषः । शूलाकरोतीति । अत्र करोतिः पाके वर्तते । तदाह — शूलेन पचतीत्यर्थ इति ।

Tattvabodhini

शूलात् पाके - शूलात्पाके । पाके किम् । शूलं करोति कदन्नं । शूलमुदररोगः । सत्यादशपथे । सत्सु साधु सत्यम् ।तत्र साधु॑रिति प्राग्घितीयत्वाद्यति प्राप्ते अतएव निपातनाद्यः । अन्तोदात्तोऽयम् ।सत्येनोत्तभिता भूनिः॑ऋतं च सत्यं चे॑त्यत्र तथा दर्शनात् । सत्याकरोतीति । भाण्डं — — रत्नादिद्रव्यजातम् । क्रेतव्यमिति ।मयैवैतद्ग्राह्र॑मिति बुद्द्या परीक्षादिना, सत्यङ्कारद्रव्यप्रदानेन च दृढं करोतीत्यर्थः । तथ्यमिति । तथैव तथ्यम् ।पादार्घाभ्यां च॑इति चकारस्यानुक्तसमुच्चयार्थत्वात्स्वार्थे यत् ।

Padamanjari

शूलं करोति कदन्नमिति। शूलमूदरतोदः, कुत्सितमन्नं कदन्नम् ॥

Nyaas

शूलाकरोति मांसम् इति। पचतीत्यर्थः॥

Prakriyasarvasvam

शूले पचति, शूलाकरोति मांसम् ।।