54064: दुःखात् प्रातिलोम्ये

Padacheda: दुःखात् | S | 5 | 1 |

प्रातिलोम्ये | S | 7 | 1 |

Sutrartha

कृ-धातोः योगे प्रयुक्तात् ‘दुःख’शब्दात् प्रातिलोम्ये गम्यमाने डाच्-प्रत्ययः भवति ।

‘प्रातिलोम्य’ इत्युक्ते प्रतिकूल-वर्तनम् । ‘कृ’ धातोः योगे प्रयुक्ताभ्याम् ‘दुःख’ शब्दात् आनुलोम्ये गम्यमाने ‘डाच्’ प्रत्ययः स्वार्थे विधीयते । यथा - गुरुम् प्रति दुःखपूर्वकं (= प्रतिकूलम् इत्याशयः) वर्तनं करोति = दुःखा करोति । प्रक्रिया एतादृशी - दुःख + डाच् → दुःख् + आ [टेः (6.4.143) इति टिलोपः] → दुःखा विशेषः - 1. डाच्-प्रत्ययान्तशब्दानाम् ऊर्यादिच्विडाचश्च (1.4.61) इत्यनेन ‘निपात’ तथा ‘गति’द्वे अपि संज्ञे भवतः । अस्य प्रयोजनानि एतानि - अ) निपातसंज्ञायाः कारणात् स्वरादिनिपातमव्ययम् (1.1.37) इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः ‘अव्यय’संज्ञकाः अपि सन्ति । आ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा ‘गतिसंज्ञा’कारणात् कुगतिप्रादयः (2.2.18) इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - ‘दुःखाकृत्य’ / ‘दुःखाकृतः’ आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषामुच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र ‘दुःखा करोति’ एतादृशम् शब्दद्वयमेव लेखनीयम् । इ) गतिसंज्ञकाः शब्दाः ते प्राग्धातोः (1.4.80) इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः ‘दुःखा करोति’ इत्येव वक्तव्यम्, न हि ‘करोति दुःखा’ इति । 2. इदम् सूत्रम् समर्थानाम् प्रथमात् वा (4.1.82) अस्मिन् सूत्रे निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, अतः अनेन सूत्रेण उक्तः ‘डाच्’ प्रत्ययः विकल्पेनैव विधीयते । इत्युक्ते, पक्षे वाक्यस्य अपि प्रयोगः भवति । यथा - ‘दुःखम् वर्तनम् करोति’ इति ।

Vasu English Summary

The affix डाच् comes after the word दुःख followed by कृ ‘to make’ when the sense is that of roasting.

Vasu English Translation

The affix डाच् comes after the word दुःख followed by कृ ‘to make’ when the sense is that of roasting. The verb कृ is understood and pratilomya means ‘to oppose’ or “to act against another’s wishes”, “to pain the heart of one’s master &c”. As दुःखा करोति भृत्यः “the servant pains the master”.

Why do we say “when meaning to go against the grain”? Observe दुःखं करोति कदन्नम् ॥

Kashika

कृञ इत्येव। दुःखशब्दात् प्रातिपदिकात् प्रातिलोम्ये गम्यमाने डाच् प्रत्ययो भवति कृञो योगे। प्रातिलोम्यं प्रतिकूलता। स्वाम्यादेश्चित्तपीडनम्। दुःखाकरोति भृत्यः। प्रातिलोम्य इति किम्? दुःखं करोति कदन्नम्॥

Siddhanta Kaumudi

दुःखाकरोति स्वामिनम् । पीडयतीत्यर्थः ॥

Balamanorama

दुःखात् प्रातिलोम्ये - दुःखात् ।डा॑जिति शेषः । आराध्यप्रतिकूलाचरणं प्रातिलोम्यम् । अन्यत्पूर्ववत् ।

Padamanjari

चितपीडनमिति। स्वाम्यादेर्यदनिष्टस्याचरणेन इष्टस्याकरणेन वा चितस्य पीडनं तत्प्रातिलोम्यम् ॥

Nyaas

स्वाम्यादेश्चित्तपीडनम् इति। स्वाम्यादेरनभिमतानुष्ठानेनाभिमताननुष्ठानेन वा चित्तस्य पीडनं दुःखम्=प्रातिलोम्यम्। तदपि प्राणिधर्म एव॥

Prakriyasarvasvam

दुःखाकरोति स्वामिनम् ।।

Sutra Prayogas

  • दुःखाकरोति (शिशुपालवधम्): दुःखात्प्रातिलोम्ये इति डाच्प्रत्ययः।