54063: सुखप्रियादानुलोम्ये¶
Padacheda: सुख-प्रियात् | S | 5 | 1 |
आनुलोम्ये | S | 7 | 1 |
Sutrartha¶
‘कृ’ धातोः योगे विद्यमानात् ‘सुख’ तथा ‘प्रिय’ शब्दात् आनुलोम्ये गम्यमाने डाच्-प्रत्ययः स्वार्थे विधीयते ।
‘आनुलोम्य’ इत्युक्ते अनुकूल-वर्तनम् । ‘कृ’ धातोः योगे प्रयुक्ताभ्याम् ‘सुख’ तथा ‘प्रिय’ एताभ्यां शब्दाभ्यामानुलोम्ये गम्यमाने (= अनुकुलम् वर्तनम् इति सन्दर्भे) ‘डाच्’ प्रत्ययः स्वार्थे विधीयते । यथा - 1. गुरुम् प्रति सुखपूर्वकं (= अनुकूलम् इत्याशयः) वर्तनं करोति = सुखा करोति । 2. पितॄन् प्रति प्रियपूर्वकं (= अनुकूलम् इत्याशयः) वर्तनं करोति = प्रिया करोति । प्रक्रिया एतादृशी - सुख / प्रिय + डाच् → सुख् / प्रिय् + आ [टेः (6.4.143) इति टिलोपः] → सुखा / प्रिया अन्येषु सन्दर्भेषु अयम् प्रत्ययः न कर्त्तव्यः । यथा - ‘सुखम् प्राप्नोति / सुखेन खादति / प्रियम् पश्यति’ - इत्यत्र प्रत्ययः न भवति । विशेषः - 1. डाच्-प्रत्ययान्तशब्दानाम् ऊर्यादिच्विडाचश्च (1.4.61) इत्यनेन ‘निपात’ तथा ‘गति’द्वे अपि संज्ञे भवतः । अस्य प्रयोजनानि एतानि - अ) निपातसंज्ञायाः कारणात् स्वरादिनिपातमव्ययम् (1.1.37) इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः ‘अव्यय’संज्ञकाः अपि सन्ति । आ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा ‘गतिसंज्ञा’कारणात् कुगतिप्रादयः (2.2.18) इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - ‘सुखाकृत्य’ / ‘सुखाकृतः’ आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषामुच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र ‘सुखा करोति’ एतादृशम् शब्दद्वयमेव लेखनीयम् । इ) गतिसंज्ञकाः शब्दाः ते प्राग्धातोः (1.4.80) इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः ‘सुखा करोति’ इत्येव वक्तव्यम्, न हि ‘करोति सुखा’ इति । 2. इदम् सूत्रम् समर्थानाम् प्रथमात् वा (4.1.82) अस्मिन् सूत्रे निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, अतः अनेन सूत्रेण उक्तः ‘डाच्’ प्रत्ययः विकल्पेनैव विधीयते । इत्युक्ते, पक्षे वाक्यस्य अपि प्रयोगः भवति । यथा - ‘सुखम् वर्तनम् करोति’ इति ।
Vasu English Summary¶
The affix डाच् comes after the words 1. सुख and 2. प्रिय followed by कृ ‘to make’ when the meaning is (‘to concede’, ‘gratify’) ‘to go with the grain’.
Vasu English Translation¶
The affix डाच् comes after the words 1. सुख and 2. प्रिय followed by कृ ‘to make’ when the meaning is (‘to concede’, ‘gratify’) ‘to go with the grain’. The word आनुलोम्य means ‘agreeability’, ‘to conform to the wishes of the object of adoration’. Thus सुखा करोति, प्रिया करोति स्वामिन् = स्वाम्यादेर्श्चित्तमाराधयति “tries to please the heart of the master &c”. This affix comes when, while doing a pleasant or agreeable thing, the idea is to please another by such an act. Otherwise observe: सुखं करोति or प्रियं करोति औषधपानम् “the drinking of medicines gives pleasure &c”.
Kashika¶
सुखप्रियशब्दाभ्यामानुलोम्ये वर्तमानाभ्यां कृञो योगे डाच् प्रत्ययो भवति। आनुलोम्यमनुकूलता, आराध्यचित्तानुवर्तनम्। सुखाकरोति। प्रियाकरोति। स्वाम्यादेश्चित्तमाराधयतीत्यर्थः। सुखं प्रियं वा कुर्वन्नप्यानुलोम्येऽवस्थित एवमुच्यते। आनुलोम्य इति किम् ? सुखं करोति, प्रियं करोत्यौषधपानम्॥
Siddhanta Kaumudi¶
सुखाकरोति । प्रियाकरोति गुरुम् । अनुकूलाचरणेनानन्दयतीत्यर्थः ॥
Balamanorama¶
सुखप्रियादानुलोम्ये - सुखप्रियादानुलोम्ये । सुखशब्दात्प्रियशब्दाच्च आनुलोम्ये गम्ये डाच् स्यादित्यर्थः । आराध्यगुर्वादिचित्तानुवर्तमानुलोम्यम् । सुखाकरोति प्रियाकरोति गुरुमिति । चित्तानुवर्तनेन गुरु॑ सुखसंपन्नं प्रयसंपन्नं च करोतीत्यर्थः । तदाह — अनुकूलेति ।
Prakriyasarvasvam¶
सुखाकरोति स्वामिनम् । प्रियाकरोति । चित्तमनुवर्तयतीत्यर्थः । सुखाभवती- त्यादि, भ्वस्तियोगेऽप्याह शङ्करः । अनुकूलो भवतीत्यर्थः ॥
Sutra Prayogas¶
प्रिया-कर्तुं (भट्टिकाव्यम्): सुखप्रियादानुलोम्ये इति डाच्।
सुखाभव (भट्टिकाव्यम्): सुखप्रियादानुलोम्ये इति कृभ्वस्तियोगे डाच्।