54062: निष्कुलान्निष्कोषणे

Padacheda: निष्कुलात् | S | 5 | 1 |

निष्कोषणे | S | 7 | 1 |

Sutrartha

‘कृ’ धातोः योगे प्रयुक्तात् ‘निष्कुल’ शब्दात् निष्कोषणे गम्यमाने डाच्-प्रत्ययः स्वार्थे विधीयते ।

‘निष्कोषणम्’ इत्युक्ते ‘अन्तरवयवानाम् बहिः निष्कासनम्’ (To pull the internal organs out by killing someone) । अस्याः क्रियायाः निर्देशार्थम् ‘निष्कुलम्’ इति शब्दः अपि प्रयुज्यते । अयमेव शब्दः यदा ‘कृ’ धातोः योगेन प्रयुज्यते, तदा तस्मात् वर्तमानसूत्रेण ‘डाच्’ प्रत्ययः भवति । यथा - निष्कुलम् करोति इत्येव = निष्कुला करोति ।प्रक्रिया इयम् - निष्कुल + डाच् → निष्कुल + आ [इत्संज्ञालोपः] → निष्कुल् + आ [टेः (6.4.143) इति टिलोपः[ → निष्कुला । ‘निष्कुल’ शब्दः यत्र अन्येषु अर्थेषु प्रयुज्यते (यथा - कुलस्य नाशः इति) तत्र तु वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - ‘महाभारतयुद्धेन कौरवाः निष्कुलाः कृताः’ - इत्यत्र वर्तमानसूत्रस्य प्रयोगः नैव क्रियते । विशेषः - 1. डाच्-प्रत्ययान्तशब्दानाम् ऊर्यादिच्विडाचश्च (1.4.61) इत्यनेन ‘निपात’ तथा ‘गति’द्वे अपि संज्ञे भवतः । अस्य प्रयोजनानि एतानि - अ) निपातसंज्ञायाः कारणात् स्वरादिनिपातमव्ययम् (1.1.37) इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः ‘अव्यय’संज्ञकाः अपि सन्ति । आ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा ‘गतिसंज्ञा’कारणात् कुगतिप्रादयः (2.2.18) इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - ‘निष्कुलाकृतः, निष्कुलाकृत्य - आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषामुच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र ‘निष्कुला करोति’ एतादृशम् शब्दद्वयमेव लेखनीयम् । इ) गतिसंज्ञकाः शब्दाः ते प्राग्धातोः (1.4.80) इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः ‘निष्कुला करोतिः इत्येव वक्तव्यम्, न हि ‘निष्कुलम् करोति’ इति । 2. इदम् सूत्रम् समर्थानाम् प्रथमात् वा (4.1.82) अस्मिन् सूत्रे निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, अतः अनेन सूत्रेण उक्तः ‘डाच्’ प्रत्ययः विकल्पेनैव विधीयते । इत्युक्ते, पक्षे वाक्यस्य अपि प्रयोगः भवति । यथा - ‘निष्कुलं करोति ‘ इति ।

Vasu English Summary

The affix डाच् comes after the word निष्कुल followed by the verb कृ ‘to make’ when the sense is ‘to disembowel’.

Vasu English Translation

The affix डाच् comes after the word निष्कुल followed by the verb कृ ‘to make’ when the sense is ‘to disembowel’. The verb कृ should be read into the sutra. The word निष्कोषण means to bring the inner organs out, or to eviscerate. Thus निष्कुल करोति पशून् “he disembowels or guts the animals”. निष्कुला करोति दाडिमम् “he takes out the kernel or seeds of the pomegranite”. Why do we say “when meaning to disembowel or take out the kernel”? Observe निष्कुलान् करोति शत्रून् “he makes the enemies family-less”.

Kashika

कृञ इत्येव। निष्कुलशब्दाद् निष्कोषणे वर्तमानात् कृञो योगे डाच् प्रत्ययो भवति। निष्कोषणमन्तरवयवानां बहिर्निष्कासनम्। निष्कुलाकरोति पशून्। निष्कुष्णातीत्यर्थः। निष्कोषण इति किम्? निष्कुलान् करोति शत्रून्॥

Siddhanta Kaumudi

निष्कुलाकरोति दाडिमम् । निर्गतं कुलमन्तरवयवानां समूहो यस्मादिति बहुव्रीहेर्डाच् ॥

Balamanorama

निष्कुलान्निष्कोषणे - निष्कुलान्निष्कोषणे ।डा॑जिति शेषः । निष्कोषणम् — अन्तर्गतावयवानां बहिःकरणम् । निष्कुलाकरोति दाडिममिति । निर्गतं कुलं यस्मादिति बहुव्रीहिः । कुलशब्दश्च अन्तरवयवसमूहे वर्तते । तदाह — निर्गतमित्यादि ।

Tattvabodhini

निष्कुलान्निष्कोषणे - निष्कुलात् । निष्कोषणमन्तरवयवानां बहिर्निष्कासनम् । निष्कोषणे किम् । निष्कुलं करोति शत्रुम् ।

Padamanjari

निष्कुलाकरोतीति। निष्कोशितं कुलमन्तरवयवानामस्मादिति बहुव्रीहौ डाच् ॥

Nyaas

निकुष्लान्? करोति इति। निर्दिष्टं कुलं यस्येति स निष्कुलः। कुलशब्दोऽत्र बन्धुषु वर्तते॥ आराध्यचित्तानुवर्तनम् इति। स्वाम्यादेरनभिमतानुष्ठानेनाभिमताननुष्ठानेन वा चित्तस्य पीडनं दुःखम्=प्रातिलोम्यम्। तदपि प्राणिधर्म एव॥

Prakriyasarvasvam

अन्तरवयवानां बहिष्कृतिर्निष्कोषणं, तस्मिन्नर्थे निष्कुलाडाच् । निष्कुला- करोति फलम् ।।