54060: समयाच्च यापनायाम् ======================== **Padacheda:** समयात् | S | 5 | 1 | च | S | 0 | 0 | यापनायाम् | S | 7 | 1 | Sutrartha --------- **'समय' शब्दात् कृ-धातोः योगे यापनायाम् गम्यमानायाम् स्वार्थे डाच्-प्रत्ययः भवति ।** 'यापना' (= विलम्बनम्, कालक्षेप, delay) अस्मिन् सन्दर्भे 'कृ' धातोः योगे 'समय' शब्दात् स्वार्थे डाच्-प्रत्ययः भवति । यथा - समयम् यापयति इत्येव = समय + डाच् + कृ → समया करोति । प्रक्रिया इयम् - समय + डाच् → समय + आ [इत्संज्ञालोपः] → समय् + आ [**टेः** (6.4.143) इति टिलोपः] → समया स्मर्तव्यम् - 1. 'यापनायाम्' इति निर्देशात् अत्र विग्रहवाक्ये 'यापयति' इति शब्दः प्रयुज्यते । 2. डाच्-प्रत्ययान्तशब्दानाम् **ऊर्यादिच्विडाचश्च** (1.4.61) इत्यनेन 'निपात' तथा 'गति'द्वे अपि संज्ञे भवतः । अस्य प्रयोजनानि एतानि - अ) निपातसंज्ञायाः कारणात् **स्वरादिनिपातमव्ययम्** (1.1.37) इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः 'अव्यय'संज्ञकाः अपि सन्ति । आ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा 'गतिसंज्ञा'कारणात् **कुगतिप्रादयः** (2.2.18) इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - समयाकृत्य / समयाकृतः - आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषामुच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र 'समया करोति' एतादृशम् शब्दद्वयमेव लेखनीयम् । इ) गतिसंज्ञकाः शब्दाः **ते प्राग्धातोः** (1.4.80) इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः 'समया करोति' इत्येव वक्तव्यम्, न हि 'करोति समया' इति । 3. इदम् सूत्रम् **समर्थानाम् प्रथमात् वा** (4.1.82) अस्मिन् सूत्रे निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, अतः अनेन सूत्रेण उक्तः 'डाच्' प्रत्ययः विकल्पेनैव विधीयते । इत्युक्ते, पक्षे वाक्यस्य अपि प्रयोगः भवति । यथा - 'समयम् यापयति' इति । Vasu English Summary -------------------- The affix डाच् comes after the word समय when कृ 'to make' follows, when the sense is that of 'neglecting'. Vasu English Translation ------------------------ The affix डाच् comes after the word समय when कृ 'to make' follows, when the sense is that of 'neglecting'. The word कृ is understood here also. The *anuvritti* of कृष ceases. The getting of leisure from the duties is called समय or 'time; the neglect or loss of such time is meant by the word यापना ॥ Thus समया करोति = कालक्षेपं करोति (अद्य मे पारवश्यं, श्वः परश्वो वास्य समय इत्येवं यो बहुषु दिवसेषु अतिवर्त्तते, स एवमुच्यते) 'who procrastinates'. Why do we say when the sense is that "neglecting"? Observe समयं करोति "he makes time". Kashika ------- कृञ इत्येव। कृषाविति निवृत्तम्। कर्तव्यस्यावसरप्राप्तिः समयः, तस्यातिक्रमणं यापना। समयशब्दाद् यापनायां गम्यमानायां डाच् प्रत्ययो भवति कृञो योगे। समयाकरोति। समयं यापयति, कालक्षेपं करोतीत्यर्थः। यापनायामिति किम् ? समयं करोति॥ Siddhanta Kaumudi ----------------- कृषाविति निवृत्तम् । कृञो योगे डाच् स्यात् । समयाकरोति । कालं यापयतीत्यर्थः ॥ Balamanorama ------------ **समयाच्च यापनायाम्** - समयाच्च । कृषाविति निवृत्तम् । समयशब्दाद्यापनायां गम्यमानायां डाजित्यर्थः । समयाकरोतीति । करोतिरिह यापनायामित्याह — यापयतीति.अतिक्रान्तं करोतीत्यर्थः ।अद्येदं कर्तव्य॑मित्युक्ते विघ्नं कञ्चिदापाद्य कालक्षेपं करोतीति यावत् । Tattvabodhini ------------- **समयाच्च यापनायाम्** - समाच्च । कालं यापयतीत्यर्थ इति ।कर्तव्यस्याऽवसरप्राप्तिः समयस्तस्यातिक्रमणं यापना॑इति वृत्तिग्रन्थमुपादाय हरदत्तत आह — — ॒अद्य मे पारवस्यं, आः परआओ वा अस्य समय इत्येव बहुषु दिवसेषु य आह स एवमुच्यते॑इति । Padamanjari ----------- समयाकरोतीति। ठद्य मे पारवाश्यं श्वः परश्वो वास्य समयःऽ इत्येवं यो बहुषु दिवसेषु अतिवर्तते स एवमुत्यते। समयं करोतीति। समयःउनियमः, सङ्गमो वा - समयनं समय इति ॥ Prakriyasarvasvam ----------------- अद्यानवसर इत्युक्त्वा समयं गमयति समयाकरोति ॥