54041: वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छन्दसि ============================================= **Padacheda:** वृक-ज्येष्ठाभ्याम् | S | 5 | 2 | तिल्-तातिलौ | S | 1 | 2 | च | S | 0 | 0 | छन्दसि | S | 7 | 1 | Sutrartha --------- **प्रशंसायाम् गम्यमानायाम् वेदेषु 'वृक' तथा 'ज्येष्ठ' शब्दाभ्याम् यथासङ्ख्यम् 'तिल्' तथा 'तातिल्' प्रत्ययः कृतः दृश्यते ।** प्रशंसायाम् गम्यमानायाम् वेदेषु 'वृक' (wolf) शब्दात् 'तिल्' प्रत्ययः तथा च 'ज्येष्ठ'शब्दात् 'तातिल्' प्रत्ययः प्रयुक्तः दृश्यते । यथा - 1. प्रशस्तः वृकः = वृकतिः । यथा - ऋग्वेदे 4.41.4 - यो नो॑ दु॒रेवो॑ वृ॒कति॑र्द॒भीति॒स्तस्मि॑न्मिमाथाम॒भिभू॒त्योज॑: । 2. प्रशस्तः ज्येष्ठः = ज्येष्ठतातिः । यथा - ऋग्वेदे 5.41.1 - तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्ये॒ष्ठता॑तिं बर्हि॒षदं॑ स्व॒र्विद॑म् । Vasu English Summary -------------------- In the छन्दस् (Vedas) the affixes तिल् and तातिल् come after 1. वृक and 2. ज्येष्ठ when excellence is denoted. Vasu English Translation ------------------------ In the छन्दस् (Vedas) the affixes तिल् and तातिल् come after 1. वृक and 2. ज्येष्ठ when excellence is denoted. The word प्रशंसायाम् is to be read into this *sutra*. This also debars रूपप् (5.3.66). Thus वृकतिः or वृकतातिः, as, योनो मरुतो वृकतातिमर्त्यः (*Rig*. *Veda* 11.34. 9). Similarly ज्येष्ठतातिः ॥ Kashika ------- प्रशंसायामित्येव। वृकज्येष्ठाभ्यां प्रशंसोपाधिकेऽर्थे वर्तमानाभ्यां यथासंख्यं तिल्तातिलौ प्रत्ययौ भवतश्छन्दसि विषये। रूपपोऽपवादौ। वृ॒कतिः॑ (ऋ० ४.४१.४)। ज्ये॒ष्ठता॑तिः (ऋ० ५.४४.१)॥ Siddhanta Kaumudi ----------------- स्वार्थे । यो नों दुरेवो वृकतिः (यो नों॑ दु॒रेवो॑ वृ॒कतिः) । ज्येष्ठतातिं बहिर्षदम् (ज्ये॒ष्ठता॑तिं बर्हि॒षद॑म्) ॥