54039: मृदस्तिकन्

Padacheda: मृदः | S | 5 | 1 |

तिकन् | S | 1 | 1 |

Sutrartha

‘मृद्’ शब्दात् स्वार्थे तिकन्-प्रत्ययः भवति ।

मृद् (soil, clay etc) शब्दात् स्वार्थे ‘तिकन्’ इति प्रत्ययः विधीयते । अस्मिन् प्रत्यये परे शब्दः नित्यम् स्त्रीलिङ्गे एव प्रयुज्यते, अतः प्रक्रियायाम् टाप् इति स्त्रीप्रत्ययः अपि विधीयते । यथा - मृद् इत्येव = मृद् + तिकन् + टाप् [स्त्रीत्वे अजाद्यतष्टाप् (4.1.4) इति टाप्] → मृद् + तिक + आ [इत्संज्ञालोपः] → मृद् + तिका [अकः सवर्णे दीर्घः (6.1.101) इति सवर्णदीर्घः ] → मृत् + तिका [खरि च (8.4.55) इति दकारस्य चर्त्वे तकारः] → मृत्तिका स्मर्तव्यम् - समर्थानां प्रथमाद्वा (4.1.82) इत्यत्र उक्तः महाविभाषा अत्र विधीयते, अतः अयम् ‘तिकन्’ प्रत्ययः विकल्पेन भवति । पक्षे ‘मृद्’ शब्दस्य प्रयोगः अपि भवितुमर्हति । विशेषः - वस्तुतः अत्र ‘तिकन्’ इत्यस्य स्थाने ‘तकन्’ इत्येव प्रत्ययः स्यात् चेदपि ‘मृत्तिका’ इति रूपमेव असेत्स्यत् । यथा - मृद् इत्येव = मृद् + तकन् + टाप् [‘तकन्’ प्रत्ययस्य प्रयोगः । स्त्रीत्वे अजाद्यतष्टाप् (4.1.4) इति टाप् ] → मृद् + तक + आ [इत्संज्ञालोपः] → मृद् + तिक + आ [प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः (7.3.44) इति तकारोत्तस्य अकारस्य इकारादेशः] → मृत्तिका [सवर्णदीर्घम्, चर्त्वम्] अस्यां स्थितौ ‘तिकन्’ इति प्रत्यये इकारः किमर्थम् पाठितः अस्ति - इति प्रश्नः उपतिष्ठति । अस्य उत्तरम् व्याख्यानेषु एतादृशं दीयते - ‘प्रत्ययस्थात्’ इत्येव सिद्धे इकारोच्चारणं प्रक्रियालाघवार्थं , टापो लुक्यपि श्रवणार्थं च । इत्युक्ते, ‘तिकन्’ प्रत्ययात् परस्य टाप्-प्रत्ययस्य यदि लोपः जायते, तर्हि प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः (7.3.44) इत्यस्य प्रसक्तिः नैव भवति । अस्यां स्थितौ अपि ‘मृत्तिका’ इत्येव रूपम् भवेत् इति स्पष्टीकर्तुम् प्रत्यये इकारः स्थापितः अस्ति । यथा - पञ्चभिः मृत्तिकाभिः क्रीतः = पञ्च + मृत्तिका + ठक् [तेन क्रीतम् (5.1.37) इति ठक्] → पञ्च + मृत्तिका [अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् (5.1.28) इति तद्धितप्रत्ययस्य लुक्] → पञ्च + मृत्तिक [तद्धितप्रत्ययस्य लुकि कृते लुक् तद्धितलुकि (1.2.49) इति स्त्रीप्रत्ययस्य अपि लुक्] अस्यां स्थितौ ‘मृत्तिक’ इत्यस्मिन् शब्दे यदि ‘तिकन्’ इत्यस्य स्थाने ‘तकन्’ इति प्रत्ययः अभविष्यत्, तर्हि स्त्रीप्रत्ययस्य लुकि कृते अकृतव्यूहाः पाणिनीयाः अनया परिभाषया प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः (7.3.44) इत्यनेन प्राप्तः इकारादेशः अपि न्यवर्तिष्यत, येन ‘पञ्चमृत्तक’ इति अनिष्टं रूपमजनिष्यत । एतादृशं मा भूत्, अतः ‘तिकन्’ इत्येव प्रत्ययः मूलरूपेण अत्र आवश्यकः, येन ‘पञ्चमृत्तिक’ इति साधु रूपम् सिद्ध्येत् ।

Vasu English Summary

The affix तिकन् comes after मृद् (the word retaining its sense).

Vasu English Translation

The affix तिकन् comes after मृद् (the word retaining its sense). Thus मृत्तिका = मृद् ‘mud’. Of course this is also an optional affix not a nitya affix like many of the svarthika affixes enumerated in (5.4.7).

Kashika

मृच्छब्दात् स्वार्थे तिकन् प्रत्ययो भवति। विकल्पः सर्वत्रानुवर्तते। मृदेव मृत्तिका॥

Siddhanta Kaumudi

मृदेव मृत्तिका ॥

Tattvabodhini

मृदस्तिकन् - मृदस्तकन् ।प्रत्ययस्था॑दित्येव सिद्धे इकारोच्चारणं प्रक्रियालाघवार्थं , टापो लुक्यपि श्रवणार्थं च । पञ्चभिर्मृत्तिकाभिः क्रीतः पञ्चमृत्तिकः पटः ।

Padamanjari

‘प्रत्ययस्थात्’ इत्येव सिद्धे तिकन हकारोच्चारणम् यत्रापो लुक् क्रियते तदर्थम् - पञ्चभिर्मृतिकाभिः क्रीतः पटः पञ्चमृतिक पटः ॥

Nyaas

किमर्थं पुनस्तिकन्? विधीयते, न तकन्नेव विधीयेत, नित्यश्च स्त्रीप्रत्ययोऽयम्, तत्र टापि कृते प्रत्ययस्थात्? कात् (7.3.44) इतीत्त्वेनैव सिद्धम्? यत्र तर्हि लुग्भावः क्रियते, तत्र न सिद्ध्येत् - पञ्चभिर्मृत्तिकाभिः क्रीतः पञ्चमृत्तिक इति। तत्र हि अष्यद्र्धपर्वद्विगोः (5.1.28) इत्यादिनाऽऽर्हीयस्य ठको लुकि कृते लुक्? तद्धितलुकि (1.2.49) इति स्त्रीप्रत्ययस्यापि लुक्। तत्र यदि तकन्? विधीयते, तदा टापोऽभावादिकारो न न श्रूयेत, प्रक्रयागौरवं स्यात्; इकगारस्य शास्त्रान्तरेण विधीयमानत्वात्॥

Prakriyasarvasvam

स्वार्थे मृत्तिका ॥