54039: मृदस्तिकन् ================= **Padacheda:** मृदः | S | 5 | 1 | तिकन् | S | 1 | 1 | Sutrartha --------- **'मृद्' शब्दात् स्वार्थे तिकन्-प्रत्ययः भवति ।** मृद् (soil, clay etc) शब्दात् स्वार्थे 'तिकन्' इति प्रत्ययः विधीयते । अस्मिन् प्रत्यये परे शब्दः नित्यम् स्त्रीलिङ्गे एव प्रयुज्यते, अतः प्रक्रियायाम् टाप् इति स्त्रीप्रत्ययः अपि विधीयते । यथा - मृद् इत्येव = मृद् + तिकन् + टाप् [स्त्रीत्वे **अजाद्यतष्टाप्** (4.1.4) इति टाप्] → मृद् + तिक + आ [इत्संज्ञालोपः] → मृद् + तिका [**अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घः ] → मृत् + तिका [**खरि च** (8.4.55) इति दकारस्य चर्त्वे तकारः] → मृत्तिका स्मर्तव्यम् - **समर्थानां प्रथमाद्वा** (4.1.82) इत्यत्र उक्तः महाविभाषा अत्र विधीयते, अतः अयम् 'तिकन्' प्रत्ययः विकल्पेन भवति । पक्षे 'मृद्' शब्दस्य प्रयोगः अपि भवितुमर्हति । विशेषः - वस्तुतः अत्र 'तिकन्' इत्यस्य स्थाने 'तकन्' इत्येव प्रत्ययः स्यात् चेदपि 'मृत्तिका' इति रूपमेव असेत्स्यत् । यथा - मृद् इत्येव = मृद् + तकन् + टाप् ['तकन्' प्रत्ययस्य प्रयोगः । स्त्रीत्वे **अजाद्यतष्टाप्** (4.1.4) इति टाप् ] → मृद् + तक + आ [इत्संज्ञालोपः] → मृद् + तिक + आ [**प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः** (7.3.44) इति तकारोत्तस्य अकारस्य इकारादेशः] → मृत्तिका [सवर्णदीर्घम्, चर्त्वम्] अस्यां स्थितौ 'तिकन्' इति प्रत्यये इकारः किमर्थम् पाठितः अस्ति - इति प्रश्नः उपतिष्ठति । अस्य उत्तरम् व्याख्यानेषु एतादृशं दीयते - *'प्रत्ययस्थात्' इत्येव सिद्धे इकारोच्चारणं प्रक्रियालाघवार्थं , टापो लुक्यपि श्रवणार्थं च* । इत्युक्ते, 'तिकन्' प्रत्ययात् परस्य टाप्-प्रत्ययस्य यदि लोपः जायते, तर्हि **प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः** (7.3.44) इत्यस्य प्रसक्तिः नैव भवति । अस्यां स्थितौ अपि 'मृत्तिका' इत्येव रूपम् भवेत् इति स्पष्टीकर्तुम् प्रत्यये इकारः स्थापितः अस्ति । यथा - पञ्चभिः मृत्तिकाभिः क्रीतः = पञ्च + मृत्तिका + ठक् [**तेन क्रीतम्** (5.1.37) इति ठक्] → पञ्च + मृत्तिका [**अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्** (5.1.28) इति तद्धितप्रत्ययस्य लुक्] → पञ्च + मृत्तिक [तद्धितप्रत्ययस्य लुकि कृते **लुक् तद्धितलुकि** (1.2.49) इति स्त्रीप्रत्ययस्य अपि लुक्] अस्यां स्थितौ 'मृत्तिक' इत्यस्मिन् शब्दे यदि 'तिकन्' इत्यस्य स्थाने 'तकन्' इति प्रत्ययः अभविष्यत्, तर्हि स्त्रीप्रत्ययस्य लुकि कृते **अकृतव्यूहाः पाणिनीयाः** अनया परिभाषया **प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः** (7.3.44) इत्यनेन प्राप्तः इकारादेशः अपि न्यवर्तिष्यत, येन 'पञ्चमृत्तक' इति अनिष्टं रूपमजनिष्यत । एतादृशं मा भूत्, अतः 'तिकन्' इत्येव प्रत्ययः मूलरूपेण अत्र आवश्यकः, येन 'पञ्चमृत्तिक' इति साधु रूपम् सिद्ध्येत् । Vasu English Summary -------------------- The affix तिकन् comes after मृद् (the word retaining its sense). Vasu English Translation ------------------------ The affix तिकन् comes after मृद् (the word retaining its sense). Thus मृत्तिका = मृद् 'mud'. Of course this is also an optional affix not a *nitya* affix like many of the *svarthika* affixes enumerated in (5.4.7). Kashika ------- मृच्छब्दात् स्वार्थे तिकन् प्रत्ययो भवति। विकल्पः सर्वत्रानुवर्तते। मृदेव मृत्तिका॥ Siddhanta Kaumudi ----------------- मृदेव मृत्तिका ॥ Tattvabodhini ------------- **मृदस्तिकन्** - मृदस्तकन् ।प्रत्ययस्था॑दित्येव सिद्धे इकारोच्चारणं प्रक्रियालाघवार्थं , टापो लुक्यपि श्रवणार्थं च । पञ्चभिर्मृत्तिकाभिः क्रीतः पञ्चमृत्तिकः पटः । Padamanjari ----------- 'प्रत्ययस्थात्' इत्येव सिद्धे तिकन हकारोच्चारणम् यत्रापो लुक् क्रियते तदर्थम् - पञ्चभिर्मृतिकाभिः क्रीतः पटः पञ्चमृतिक पटः ॥ Nyaas ----- किमर्थं पुनस्तिकन्? विधीयते, न तकन्नेव विधीयेत, नित्यश्च स्त्रीप्रत्ययोऽयम्, तत्र टापि कृते `प्रत्ययस्थात्? कात्` (7.3.44) इतीत्त्वेनैव सिद्धम्? यत्र तर्हि लुग्भावः क्रियते, तत्र न सिद्ध्येत् - पञ्चभिर्मृत्तिकाभिः क्रीतः पञ्चमृत्तिक इति। तत्र हि `अष्यद्र्धपर्वद्विगोः` (5.1.28) इत्यादिनाऽऽर्हीयस्य ठको लुकि कृते `लुक्? तद्धितलुकि` (1.2.49) इति स्त्रीप्रत्ययस्यापि लुक्। तत्र यदि तकन्? विधीयते, तदा टापोऽभावादिकारो न न श्रूयेत, प्रक्रयागौरवं स्यात्; इकगारस्य शास्त्रान्तरेण विधीयमानत्वात्॥ Prakriyasarvasvam ----------------- स्वार्थे मृत्तिका ॥