54035: वाचो व्याहृतार्थायाम्

Padacheda: वाचः | S | 5 | 3 |

व्याहृता-अर्थायाम् | S | 7 | 1 |

Sutrartha

‘व्याहृता (पूर्वप्रकाशिता)’ अस्मिन् अर्थे वाच् शब्दात् स्वार्थे ठक्-प्रत्ययः भवति ।

‘व्याहृता’ इत्युक्ते ‘पूर्वप्रकाशिता’ / ‘अन्येन उक्ता’ । यः सन्देशः केनचितम् पूर्वमेव कथितः अस्ति, तादृशः सन्देशः ‘व्याहृतः सन्देशः’ नाम्ना ज्ञायते । एतादृशस्य सन्देशस्य निर्देशार्थम् ‘वाच्’ शब्दात् स्वार्थे ‘ठक्’ प्रत्ययः भवति । प्रक्रिया इयम् - पूर्वमुक्ता वाक् = वाच् + ठक् → वाच् + इक [ठस्येकः (7.3.50) इति इक्-आदेशः] → वाचिक यथा - दूतः मन्त्रिणः वाचिकम् कथयति । अत्र मन्त्रिणा उक्ता वाक् दूतेन पुनः कथ्यते, अतः तस्य वाचः निर्देशः ‘वाचिकम्’ इत्यनेन क्रियते । राजा वाचिकम् श्रुणोति । स्त्रीत्वे विवक्षिते टिड्ढाणञ्… (4.1.15) इत्यनेन ङीप्-प्रत्यये कृते ‘वाचिकी’ इति शब्दः सिद्ध्यति । यथा - जनाः वाचिकीम् गीताम् पठन्ति । यदि ‘व्याहृता’ इति अर्थः नापेक्षते, तर्हि वर्तमानसूत्रस्य प्रयोगः नैव भवति । यथा - देवदत्तस्य मधुरा वाक् । स्मर्तव्यम् - समर्थानां प्रथमाद्वा (4.1.82) इत्यनेन अत्र प्रत्ययविधानम् विकल्प्यते, अतः ‘वाक्’ इत्यस्य शब्दस्य प्रयोगः अपि अस्मिन् विषये भवितुमर्हति । यथा - दूतः मन्त्रिणः वाचम् कथयति ।

Vasu English Summary

The affix ठक् comes after वाच् when it means the purport of the message spoken by another.

Vasu English Translation

The affix ठक् comes after वाच् when it means the purport of the message spoken by another. The word व्याहृत means ‘declared, expressed’. That which was spoken formerly by another, and which is carried by a third party as a ‘tiding’ or ‘news’, is called व्याहृतार्थ ॥ Thus वाचिकं कथयति ‘he relates the verbal message’. वाचिकं ऋद्धे ॥ Some say it applies to written message also.

Why do we say “when it means a verbal message ?” Observe, मधुरा वाक् देवदत्तस्य ‘the speech of Devadatta is sweet’.

Kashika

व्याहृतः प्रकाशितोऽर्थो यस्यास्तस्यां वाचि वर्तमानाद् वाच्शब्दात् स्वार्थे ठक् प्रत्ययो भवति। पूर्वमन्येनोक्तार्थत्वात् संदेशवाग् व्याहृतार्थेत्युच्यते। वाचिकं कथयति। वाचिकं श्रद्दधे। व्याहृतार्थायामिति किम् ? मधुरा वाक् देवदत्तस्य॥

Siddhanta Kaumudi

संदिष्टार्थायां वाचि विद्यमानाद्वाक्शब्दात्स्वार्थे ठक् स्यात् । संदेशवाग् वाचिकं स्यात् ॥

Tattvabodhini

वाचो व्याहृतार्थायाम् - वाचो व्याह्मता । व्याह्मतार्थायां किम् । मधुरा वाग्देवदत्तस्य ।

Padamanjari

व्याहृत इति। उक्त इत्यर्थः। अन्येनेति। संदेष्ट्रा। तेन हि पूर्वमुक्तस्तस्यार्थः संदेशहरं प्रति। सन्देशवागिति। सन्देशरूपा वाक् सन्देशवाक्, सन्दिश्यते इति सन्देशः, तस्य वाक् संदेशवाक् यया संदिष्टोऽर्थोऽभिधीयते। अपर आह - लेख्यादिनावधारितेऽर्थे प्रवर्तमाना वाक् व्याहृतार्थेति। ठतिवर्तन्ते च स्वार्थिकाः प्रकृतितो लिङ्गवचनानिऽ इति नपुंसकत्वम् ॥

Nyaas

व्याह्मतः इति। उक्त इत्यर्थः। अन्येन इति। सन्देष्ट्रा। न हि पूर्वं सा वाक्? संदिष्टा। तेन हि पूर्वं सन्दिशता सन्देशवाक्? भवति। यया सन्दिष्टोऽर्थोऽभिधीयते, सा च सन्देशवागुच्यते॥

Prakriyasarvasvam

अस्यां वाचि वाच्यायां वाचः स्वार्थे ठक् । राज्ञा दूतं प्रत्युक्तार्थत्वात् सन्देशवाग्वाचिकम् । लेखादिना सूचितार्थत्वात् सन्देशशेषो वाचिकमित्यन्ये ॥

Sutra Prayogas

  • वाचिकम् (शिशुपालवधम्): वाचो व्याहृतार्थायाम् इति ठक्।