54036: तद्युक्तात् कर्मणोऽण्

Padacheda: तद्युक्तात् | S | 5 | 1 |

कर्मणः | S | 5 | 1 |

अण् | S | 1 | 1 |

Sutrartha

व्याहृता (पूर्वप्रकाशिता) या वाक्, तत्प्रकारेण कृतम् कर्म दर्शयितुम् ‘कर्मन्’ शब्दात् स्वार्थे अण् प्रत्ययः भवति ।

वाचो व्याहृतार्थायाम् (5.4.35) इत्यनेन ‘व्याहृता (= पूर्वप्रकाशिता, अन्येन उक्ता) वाक्’ - अस्मिन् सन्दर्भे ‘वाच्’ शब्दात् स्वार्थ ठक्-प्रत्ययः विधीयते, येन ‘वाचिकम्’ इति शब्दः सिद्ध्यति । एतादृशीं वाक् (= वाचिकम्) श्रुत्वा तत्प्रकारेण / तदनुसृत्य यत् कर्म क्रियते, तस्य निर्देशार्थम् वर्तमानसूत्रेण ‘कर्मन्’ शब्दात् स्वार्थे अण् प्रत्ययः भवति । वाचिकेन उक्तं कर्म तत् कार्मणम् । प्रक्रिया इयम् - कर्मन् + अण् [वर्तमानसूत्रेण अण्-प्रत्ययः] → कार्मन् + अ [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → कार्मन [नस्तद्धिते (6.4.144) इति टिलोपे प्राप्ते अन्**(6.4.167) इति प्रकृतिभावः ] → कार्मण [**अट्कुप्वाङ्नुम्व्यवायेऽपि (8.4.2) इति णत्वम् ] यथा - दूतेन उक्तः राज्ञः सन्देशः सः वाचिकः, तच्छ्रुत्वा तदनुसृत्य मन्त्रिणा यत् कर्म कृतम्, तत् कार्मणम् । स्मर्तव्यम् - समर्थानां प्रथमाद्वा (4.1.82) इत्यनेन अत्र प्रत्ययविधानम् विकल्प्यते, अतः ‘कर्मन्’ इत्यस्य शब्दस्य प्रयोगः अपि अस्मिन् विषये भवितुमर्हति । यथा - वाचिकम् श्रुत्वा कृतम् कर्म । अत्र कानिचन वार्त्तिकानि ज्ञेयानि - 1. <!अण्प्रकरणे कुलाल-वरुड-निषाद-कर्मार-चण्डाल-मित्रा-मित्रेभ्यः छन्दस्युपसङ्ख्यानम् !> । इत्युक्ते, वेदेषु कुकाल, वरुड, निषाद, कर्मार, चण्डाल, मित्र तथा अमित्र - एतेभ्यः शब्देभ्यः स्वार्थे अण्-प्रत्ययः कृतः दृश्यते । यथा - क) कुलालः इत्येव कौलालः । ख) निषादः इत्येव नैषादः । ग) कर्मारः एव कार्मारः । घ) चण्डालः इत्येव चाण्डालः । ङ) मित्रः इत्येव मैत्रः । च) अमित्रः इत्येव आमित्रः । 2. <!सान्नाय-आनुजावर-आनुषूक-आष्टुभ-चातुष्प्राश्य-राक्षोघ्न-वैयात-वैकृत-वारिवस्कृत-आग्रायण-आग्रहायण-सान्तपनाः!> । अस्मिन् वार्त्तिके दत्ताः अण्-प्रत्ययान्तशब्दाः भाषायाम् वेदे च प्रयुक्ताः दृश्यन्ते । एतेषामावली इयम् - क) सन्नायम् इत्येव सान्नायम् । ख) अनुजावरः इत्येव आनुजावरः । ग) अनुषूकः इत्येव आनुषूकः । ग) अष्टुभ् इत्येव आष्टुभः । ङ) चतुष्प्राश्यः इत्येव चातुष्प्राश्यः । च) रक्षोहन् इत्येव राक्षोघ्नः । प्रक्रियायाम् षपूर्वहन्धृतराज्ञामणि (6.4.135) इत्यनेन हकारोत्तस्य नकारस्य लोपः, तथा हो हन्तेर्ञ्णिन्नेषु (7.3.54) इत्यनेन हकारस्य कुत्वे घकारं कृत्वा रूपं सिद्ध्यति । छ) वियातः इत्येव वैयातः । ज) वारिवस्कृत् इत्येव वारिवस्कृतः । झ) अग्रायणः इत्येव आग्रायणः । ञ) अग्रहायणः इत्येव आग्रहायणः । ट) सन्तपत्नः इत्येव सान्तपत्नः । एतेषां सर्वेषाम् व्युत्पत्तिः पदमञ्जर्यां दत्ता अस्ति, जिज्ञासुभिः तत्रैव द्रष्टव्यम् ।

Vasu English Summary

The affix अण् comes after the word कर्मन् ‘occupation’ when it occurs in connection therewith (i.e. when it is the result of an oral message or commission).

Vasu English Translation

The affix अण् comes after the word कर्मन् ‘occupation’ when it occurs in connection therewith (i.e. when it is the result of an oral message or commission). Thus कार्मणम् = कर्म ‘an occupation of a commision agent (?)’. i. e. when an act is done in pursuance to or on hearing of a verbal message or commission.

Vart:- The words कुलाल, वरुड, निषाद, कर्मार, चण्डाल, मित्र and अमित्र take the affix अण् in the Vedas. As कौलालः, = कुलालः, so also वारुडः, नैषादः, कार्मारः, चाण्डालः, मैत्रः, आमित्रः ॥

The following words formed by अण् without change of sense, occur in the Vedic and the secular literature:- सान्नाय्यः, आनुजावरः, (अनुजादवरः), आनुषूकः (अनुगता सुरेतम्) आनुष्टुभः, चातुष्प्राश्यः, (चतुर्भिः प्राश्यं = ब्रह्मौदनं) राक्षोघ्नाः, (रक्षांसि हन्यन्तेऽनेन) वैयातः, वैकृतः, वारिवस्कृतः, (वरिवः परिचर्या तत् करोति) आग्रायणः, आग्राहायणः, सान्तपनः ॥

Bhashya

तद्युक्तात्कर्मणोऽण् (2312) (अणोऽधिकरणम्) (तत्पदार्थप्रकाशकभाष्यम्) तदित्यनेन किं प्रतिनिर्दिश्यते? वागेव। यदेव वाचा व्याह्रियते तत्कर्मणा क्रियते॥ (5915 उपसंख्यानवार्तिकम्॥ 1 ॥) - अण्प्रकरणे कुलालवरुडनिषादचण्डालामित्रेभ्यच्छन्दसि - (भाष्यम्) अण्प्रकरणे कुलालवरुडनिषादचण्डालामित्रेभ्यश्छन्दस्युपसंख्यानं कर्तव्यम्। कौलालः। वारुडः। नैषादः। चाण्डालः। आमित्रः॥ (5916 उपसंख्यानवार्तिकम्॥ 2 ॥) - भागरूपनामभ्यो धेयः - (भाष्यम्) भागरूपनामभ्यो धेयो वक्तव्यः। भागधेयम्। रूपधेयम्। नामधेयम्॥ (5917 उपसंख्यानवार्तिकम्॥ 3 ॥) - मित्राच्छन्दसि - (भाष्यम्) मित्राच्छन्दसि धेयो वक्तव्यः। मित्रधेये यतस्व॥ (5918 उपसंख्यानवार्तिकम्॥ 4 ॥) - अणमित्राच्च - (भाष्यम्) अणमित्राच्चेति वक्तव्यम्। मैत्रः। आमित्रः॥ (सान्नाय्यादीनां निपातनभाष्यम्) सान्नाय्यानुजावरानुषूकचातुष्प्राश्यराक्षोघ्नवैयातवैकृतवारिवस्कृताग्रायणाग्रहायणसान्तपनानि निपात्यन्ते। सांनाय्यम्। आनुजावरः। आनुषूकः। चातुष्प्राश्यः। राक्षोघ्नः। वैयातः। वैकृतः। वारिवस्कृतः। आग्रायणः। आग्रहायणः। सान्तपनः॥ (5919 उपसंख्यानवार्तिकम्॥ 5 ॥) - आग्नीध्रसाधारणादञ्ञ् - (भाष्यम्) आग्नीध्रसाधारणादञ्ञ् वक्तव्यः। आग्नीध्रम्, साधारणम्॥ (5920 उपसंख्यानवार्तिकम् ॥ 6 ॥) - अयवसमरुद्भ्यां छन्दसि - (भाष्यम्) अयवसमरुद्भ्यां छन्दस्यञ्ञ्वक्तव्यः। आयवसे वर्धन्ते। मारुतं शर्धः॥ (5921 उपसंख्यानवार्तिकम्॥ 7 ॥) - नवसूरमर्तयविष्ठेभ्यो यत् - (भाष्यम्) नवसूरमर्तयविष्ठेभ्यो यद्वक्तव्यः। नव्यः। सूर्यः। र्मत्यः। यविष्ठ्यः॥ (5922 उपसंख्यानवार्तिकम्॥ 8 ॥) - क्षेमाद्यः - (भाष्यम्) क्षेमाद्यो वक्तव्यः। क्षेम्यस्तिष्ठन् प्रतरणः सुवीरः॥

Kashika

व्याहृतार्थया वाचा यत् कर्म युक्तम्, तदभिधायिनः कर्मशब्दात् स्वार्थेऽण् प्रत्ययो भवति। कर्मैव कार्मणम्। वाचिकं श्रुत्वा तथैव यत् कर्म क्रियते तत् कार्मणमित्युच्यते॥ अण्प्रकरणे कुलालवरुडनिषादकर्मारचण्डालमित्रामित्रेभ्यश्छन्दस्युपसंख्यानम्॥ कुलाल एव कौला॒लः (मा०सं० ३०.७)। वारु॒डः। नैषा॒दः (मा०सं० ३०.८)। का॒र्मा॒रः (ऋ० ९.११२.२)। चाण्डा॒लः (मा०सं०३०.२१)। म॒ैत्रः (मा०सं० ३९.५)। आमि॒त्रः (ऋ०६.२८.३)। सान्नाय्यानुजावरानुषूकाष्टुभचातुष्प्राश्यराक्षोघ्नवैयातवैकृत — वारिवस्कृताग्रायणाग्रहायणसान्तपनाः। एतेऽणन्ताः स्वार्थिकाश्छन्दसि भाषायां चेष्यन्ते। सांना॒य्यम् (तै०सं० २.५.३.७)। आनुजाव॒रः (तै०सं० २.३.४.२)। आनुषू॒कः (तै०सं० २.३.४.४)। आष्टुभः । चातुष्प्रा॒श्यः (काठ०सं० ८.१०)। राक्षो॒घ्नम् (तै०सं० ५.१.१०.२)। वैयातः। वैकृतः। वारिवस्कृ॒तः (तै०सं० ४.५.२.२)। आग्राय॒णः॑ (मै०सं० २.७.१९)। आग्रहायणः। सान्तप॒नः (मा०सं० १७.८५)॥

Siddhanta Kaumudi

कर्मैव कार्मणम् । वाचिकं श्रुत्वा क्रियमाणं कर्मेत्यर्थः ॥

Padamanjari

कर्मशब्दादिति। एतेन’कर्मणः’ इति स्वरूपग्रहणम्, नेप्सिततमादेरिति दर्शयति। एतच्च व्याख्यानाल्लभ्यते। कार्मणमिति। ठन्ऽ इति प्रकृतिभावः। तथैवेति। यथैव व्याहृतार्थया वाचा प्रतिपादितम्-एवमेतत्वया कर्तव्यमिति, तथैवेत्यर्थः। अण्प्रकरण इति। प्रज्ञादिष्वपाठः - एतेषां भाषायामण्मा भूदिति। सान्नाय्येत्यादि। सान्नाय्यादयः शब्दाः प्रज्ञादिषु द्रष्टव्या इत्यर्थः। अन्तोदातार्थं चेह सान्नाप्यशब्दस्य ग्रहणम्, रूपं तु’पाय्यसान्नाय्य’ इति निपातनादेव सिद्धम्। आनुजावर इति। अनुजादवर इत्यस्मादेव निपातनात्पञ्जमीसमासः, ततोऽण्। आनुषूक इति। सूतिः सूः, सम्पदादित्वात् क्विप्, अनुगता सूरेतमिति बहुव्रीहिः, कप्,’पूर्वपदात्’ इति षत्वम्। चातुष्प्राश्यमिति। चतुर्भिः प्राश्यमिति’कर्तृकरणे कृता बहुलम्’ इति समासः, ततोऽण्। आधाने व्रीह्यएदनस्येदमभिधानम्। ठिदुदुपधस्यऽ इति षत्वम्। राक्षोघ्नमिति। रक्षांसि हन्यन्तेऽनेनेति धञर्थे कः। वियातविकृतशब्दाभ्यामण्-वैयातः, वैकृतः। वरिवःउपरिचर्या, तत्करोति वरिवस्कृत्, क्विप्, ठतः कृकमिऽ इति सत्वम्, वरिस्कृदेव वारिवस्कृतःउपरिचारकः। अग्रमयनमस्य, अग्रे हायनमस्येतिक बहुव्रीहिभ्यामण् - आग्रायणं कर्म। नानिष्ट्वाग्रायणेनाहिताग्निर्नवस्याश्नीगदिति। आग्रहायणी, अणन्तान् ङीप्। सन्प्यतेऽनेनेति सन्तपनः, सन्तपन एव सान्तपनःउकृच्छ्रः ॥

Nyaas

कर्मशब्दात् इति। एतेन कर्मण इति स्वरूपस्य ग्रहणम्, नेप्सिततमस्येति दर्शयति। ननु च कर्मशब्दस्य संज्ञाशब्दत्वादीप्सिततमस्यैव ग्रहणं युक्तम्, न स्वरूपस्येति? नैतदस्ति; इह हि स्थानान्तात् (5.4.10) इत्यादेः सूत्रादितिकरणोऽनुवर्तते, तेनायमर्थो लभ्यते - ततश्चेद्विवक्षा भवतीति। कर्मशब्दाच्च प्रत्ययोत्पत्तौ लोके विवक्षा भवति, नेप्सिततमात्। न हि तत उत्पन्नेनाणा व्याह्मतार्थवाचा युक्तं कर्म शक्यते द्योतयितुम्, कर्मशब्दात्तूत्पन्नेन शक्यते। तस्मात्? स्वरूपस्यैव ग्रहणं युक्तम्। कार्मणम् इति। अन् (6.4.16) इति प्रकृतिभावः। तथैव इति। यथैव व्याह्मतार्थया वाचा प्रतिपादितम् - एवं कर्तव्यमिति, तेनैव प्रकारेणेत्यर्थः। अण्प्रकरणे इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेवं प्रतिपादनम् - प्रज्ञादेराकृतिगणत्वात्? कुलालादयस्तत्रैव द्रष्टष्याः। तेन प्रज्ञादिभ्यश्च (5.4.38) इत्यण्? भविष्यतीति। यद्येवम्, भाषायामपि स्यात्? नैष दोषः; विभाषा बहोः (5.4.20) इत्यादिसूत्राद्विभाषेत्यनुवर्तते, सा च व्यवस्थितविभाषा छन्दस्येव भविष्यति, न भाषायामिति। सान्नाय [सान्नय्य-काशिका, पदमञ्जरी च] इत्यादि। सान्नायानुजावरानुषूकानुष्टुभचातुष्प्राश्यराक्षोध्ववैयातवैकृतवारिवस्कृताग्रायणाग्रहायणसान्तपनाश्छन्दसि भाषायाञ्चेष्यन्ते। तस्मात्सान्नायादयः। एषां प्रकृतयः प्रज्ञादिष्वेव द्रष्टव्याः। अत्र चाग्रायणाग्रहायण - इत्यत्रेकारान्ताभ्यामाग्रायण्यग्रहायणीशब्दाभ्यामन्यत्राकारान्तेभ्योऽनुजावरादिभ्यः प्रत्ययः। सान्नाय्यशब्दस्य चेहान्तोदात्तार्थ ग्रहणम्। रूपं तु पाय्यसान्नाय्य (3.1.129) इति निपातनादेव सिद्धम्॥ष

Prakriyasarvasvam

सन्देशवाग्बोधितं यत् कर्मास्मात्स्वार्थिकोऽण् भवेत् । <karika>नृपस्य वाचिकं श्रुत्वा कार्मणं सचिवोऽकरोत् ॥ ३६७ ॥</karika> तदुक्तमेव कर्माकरोदित्यर्थः । तच्च नृपवशीकरणमूलं भवतीति लक्षणया वशीकरण- मूलं कर्म कार्मणमुच्यते ॥

Vartika

अण्प्रकरणे कुलालवरुडनिषादचण्डालामित्रेभ्यच्छन्दसि ।

Sutra Prayogas

  • कार्मणत्वम् (शिशुपालवधम्): तद्युक्तात् कर्मणोऽण् इति अण्-प्रत्ययः।