54034: विनयादिभ्यष्ठक्¶
Padacheda: विनयादिभ्यः | S | 5 | 3 |
ठक् | S | 1 | 1 |
Sutrartha¶
विनयादिगणस्य शब्देभ्यः स्वार्थे ‘ठक्’ प्रत्ययः भवति ।
विनयादिगणस्य शब्देभ्यः स्वार्थे ‘ठक्’ प्रत्ययः भवति । विनयादिगणः अयम् - विनय, समय, उपायाद् ह्रस्वत्वं च (गणसूत्रम्), सङ्गति, कथञ्चित्, अकस्मात्, समयाचार, उपचार, समाचार, व्यवहार, सम्प्रदान, समुत्कर्ष, समूह, विशेष, अत्यय । उदाहरणानि - 1. विनयः इत्येव = विनय + ठक् → विनय + इक [ठस्येकः (7.3.50) इति इक्-आदेशः] → वैनय + इक [किति च (7.2.118) इति आदिवृद्धिः] → वैनय् + इक [यस्येति च (6.4.148) इति अकारलोपः] → वैनयिक 2. समयः इत्येव सामयिकः । 3. सङ्गतिः इत्येव साङ्गतिकः । 4. कथञ्चित् इत्येव = कथञ्चित् + ठक् [ठस्येकः (7.3.50) इति इक्-आदेशः] → कथञ्चित् + क [इसुसुक्तान्तात् कः (7.3.51) इति ‘क्’ आदेशः] → काथञ्चित् + क [किति च (7.2.118) इति आदिवृद्धिः] → काथञ्चित्क 5. अकस्मात् इत्येव अाकस्मात्क 6. समूहः इत्येव सामूहिकः । स्मर्तव्यम् - समर्थानां प्रथमाद्वा (4.1.82) इत्यनया महाविभाषया अत्र प्रत्ययः विकल्प्यते, अतः ‘विनयादिगणस्य शब्दाः तादृशाः अपि प्रयोक्तुम् शक्यन्ते ।
Vasu English Summary¶
The affix ठक् comes without changing the sense after the word विनय etc.
Vasu English Translation¶
The affix ठक् comes without changing the sense after the word विनय etc. Thus वैनयिकः = विनयः, सामयिकः ॥ The आ of उपाय is shortened, as, औपयिकः ॥ The word अकस्मात् should be read as अकस्माद् in order to apply इक् and not क, as, आकस्मिकः ॥ The टि is elided, because it is an Avyaya. See (6.4.49). The affix is optional by (4.1.82).
1 विनय, 2 समय, 3 उपायो, (उपायाद्) हृस्वत्वं च (औपयिक), 4 संप्रति, 5 संमति, 6 कथंचित्, 7 अकस्मात्, 8 समाचार, 9 उपचार, 10 समयाचार, 11 व्यवहार, 12 संप्रदान, 13 समुत्कर्ष, 14 समूह, 15 विशेष, 16 अत्यय, 17 अस्थि, 18 कण्डु.
Kashika¶
विनय इत्येवमादिभ्यः स्वार्थे ठक् प्रत्ययो भवति। विनय एव वैनयिकः। सामयिकः। औपयिकः। विभाषाग्रहणेन विकल्प्यते प्रत्ययः॥ विनय। समय। उपायाद् ध्रस्वत्वं च (ग०सू० १५७)। संगति। कथंचित्। अकस्मात्। समयाचार। उपचार। समाचार। व्यवहार। संप्रदान। समुत्कर्ष। समूह। विशेष। अत्यय। विनयादिः॥
Siddhanta Kaumudi¶
विनय एव वैनयिकः । सामयिकः ॥ (गणसूत्रम् -) उपायो ह्रस्वत्वं च ॥ औपयिकः ॥
Balamanorama¶
विनयादिभ्यष्ठक् - विनयादिभ्यः । उपायाद्ध्रस्वत्वं चेति । गणसूत्रमिदम् । उपायशब्दात्स्वार्थे । ठक्, प्रकृतेदर्दीर्घस्य ह्रस्वत्वं चेत्यर्थः । ह्रस्वस्य ह्रस्वविधौ वैयथ्र्याद्दीर्घस्येति गम्यते । वाचो व्याह्मतार्थायाम् ।इदमस्य वक्तव्य॑मिति दूतं प्रति योऽर्थ उच्यते स व्याह्मतः,व्याह्मतोऽर्थो यस्या इति विग्रहः । तदाह — संदिष्टार्थायामिति ।
Tattvabodhini¶
विनयादिभ्यष्ठक् - उपाय इति । उपायशब्दष्ठकं लभते ह्रस्वत्वं चेत्यर्थः । अकस्माच्छब्दोऽत्र पठते स तु दान्तो न तु तान्तः । तेन कादेशो न ।अव्ययाना भमात्रे टिलोपः॑ । आकस्मिकम् ।
Padamanjari¶
उपायाद् ह्रस्वत्वं चेति। उपायशब्दष्ठकमुत्पादयति, ह्रस्वत्वं चापद्यते। स च ह्रस्व आकारस्यैव भवति; अन्यस्याचः स्वत एव ह्रस्वत्वात्। अकस्मादित्यत्र पठ।ल्ते, तद्दकारान्तम्, तेन’हसुसुक्तान्तात्कः’ इति कादेशो न भवति - आकस्मिकः, अव्ययत्वाट्टिलोपः ॥
Nyaas¶
उपायाध्यस्वत्वञ्च इति। उपायशब्दठकमुत्पादयति, ह्रस्वत्वञ्च प्रतिपद्यते - औपयिकः॥
Prakriyasarvasvam¶
एभ्यः स्वार्थे ठक् । ‘विनयसमयाकस्मात्कथञ्चिदत्ययविशेषव्यवहारोपचारेभ्यः (स० ५-४-३६) । विनय एव वैनयिकः । सामयिकः । दान्तत्वान्न क्त्त्वम् । आकस्मिकमहेतुकम् । तान्तत्वात्कत्वम् । काथञ्चित्कं कृच्छ्ररूपम् । आत्ययिकः । वैशेषिकः । व्यावहारिकः । औपचारिकः । ‘समो गत्युहाचारोत्कर्षपरायप्रदानेभ्यः’ (स० ५-४-३७) । साङ्गतिकं, सामूहिकं, सामाचारिकं, सामुत्कर्षिकं, साम्परायिकं, साम्प्रदानिकम् । ‘उपायाद्ध्रस्वश्च’ (स० ५-४-३८) । औपयिकम् । एकान्तो नियत: स एव विनयादित्वादैकान्तिक इति हरः । सम्प्रत्येव साम्प्रतिकमिति च । पदातिरेव पादातिक इति च स्वामी । विषय एव वैषयिक इति शृङ्गारे । मौक्तिकमिति विनयादिपाठादिति वामनः । मुक्तासमूहे तु हारादावचित्तत्वात् ठकि स्यात् ॥
Sutra Prayogas¶
आलानिकं (रघुवंशम्): विनयादिभ्यष्ठक् इति स्वार्थे ठक्।