54031: वर्णे चानित्ये

Padacheda: वर्णे | S | 7 | 1 |

च | S | 0 | 0 |

अनित्ये | S | 7 | 1 |

Sutrartha

‘लोहित’शब्दात् ‘अनित्यः वर्णः’ अस्मिन् सन्दर्भे स्वार्थे कन्-प्रत्ययः भवति ।

‘लोहित’ (= red)) इति वर्णस्य नाम । यदि कस्यचन पदार्थस्य वर्णः मूलरूपेण लोहितः नास्ति, परन्तु प्रकृतिवशात् सः पदार्थः कञ्चित् समयम् यावत् लोहितवर्णस्य भासते, तर्हि तादृशस्य पदार्थस्य वर्णस्य निर्देशार्थम् ‘लोहित’ शब्दात् स्वार्थे कन्-प्रत्ययः भवति । अनित्यः लोहितः वर्णः स एव लोहितकः । An entity that is not always red in color, but turns red for some time is described by the word लोहितक । यथा - 1. लोहितकः पुरुषः । reddish person (e.g. due to anger). 2. लोहितकम् व्योम । reddish sky (e.g. at the time of sunset). यत्र वस्तुनः वर्णः नित्यम् लोहितः अस्ति, तत्र तु वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - लोहितम् रुधिरम् । अत्र एकम् वार्त्तिकं ज्ञेयम् - <!लोहिताल्लिङ्गबाधनं वा वक्तव्यम्!> । अस्य वार्त्तिकस्य अर्थः अयम् - ‘लोहित’ शब्दात् स्त्रीत्वे वाच्ये वर्णादनुदात्तात्तोपधात्तो नः (4.1.39) इति ‘ङीप्’ प्रत्ययः यदा विधीयते, तदा प्रक्रियायामनेनैव सूत्रेण तकारस्य नकारादेशः भवति, येन ‘लोहिनी’ इति रूपं सिद्ध्यति । परन्तु यत्र ‘लोहित’ शब्दात् ङीप्-प्रत्ययं कृत्वा ततः वर्तमानसूत्रेण स्वार्थे कन्-प्रत्ययः भवति, तत्र तु अयम् नकारादेशः विकल्पेनैव भवति - इति अस्य वार्त्तिकस्य अर्थः । अस्मिन् वार्त्तिके ‘लिङ्ग’ इति शब्दः ‘लिङ्गविशिष्टम् कार्यम्’ अस्मिन् अर्थे प्रयुक्तः अस्ति । ङीप्-प्रत्ययेन सञ्जातं यत् लिङ्गविशिष्टम् कार्यम् (= तकारस्य नकारादेशः), तत् कन्-प्रत्यये परे विकल्पेन बाध्यते - इति आशयः । यथा - लोहित + ङीप् + कन् + टाप् [‘लोहित’ शब्दात् स्त्रीत्वे विवक्षिते वर्णादनुदात्तात्तोपधात्तो नः (4.1.39) इति ‘ङीप्’ प्रत्ययः । ततः स्वार्थे कन्-प्रत्ययः, तस्मात् च स्त्रीत्वे विवक्षिते अजाद्यतष्टाप् (4.1.4) इति टाप्-प्रत्ययः] → लोहिती / लोहिनी + क + आ [<!लोहिताल्लिङ्गबाधनं वा वक्तव्यम्!> इति वार्त्तिकेन वैकल्पिकः नकारादेशः] → लोहिति / लोहिनि + क + आ [केऽणः (7.4.13) इति ह्रस्वादेशः] → लोहितिका / लोहिनिका [ [अकः सवर्णे दीर्घः (6.1.101) इति सवर्णदीर्घः] यथा - सीता कोपेन लोहितिका लोहिनिता वा अभवत् । पक्षे (कन्-प्रत्ययस्य अनुपस्थितौ) - सीता कोपेन लोहिनी अभवत् । विशेषः - ‘लोहितक’ इति शब्दात् टाप्-प्रत्ययः क्रियते चेत् तु ‘लोहितिका’ इत्येव रूपम् भवति । तत्र अस्य वार्त्तिकस्य प्रसक्तिः न विद्यते । स्मर्तव्यम् - समर्थानां प्रथमाद्वा (4.1.82) इत्यनया महाविभाषया अत्र प्रत्ययः विकल्प्यते, अतः ‘लोहितः पुरुषः’ इति प्रयोगः अपि साधु ।

Vasu English Summary

The affix कन् comes after लोहित when it means color which is not permanent.

Vasu English Translation

The affix कन् comes after लोहित when it means color which is not permanent. Thus लोहितकः कोपेन “red with anger”. लोहितकः पीडनेन ॥

Why do we say “not permanent” Observe लोहितो गौः “a red cow”. लोहितं रुधिरम् “the red blood”.

Vart:- The derivative of लोहित may not take the gender of the primitive, as लोहितिका or लोहिनिका कोपेन ॥

Kashika

अनित्ये वर्णे वर्तमानात् लोहितशब्दात् स्वार्थे कन् प्रत्ययो भवति। लोहितकः कोपेन। लोहितकः पीडनेन। अनित्य इति किम् ? लोहितो गौः। लोहितं रुधिरम्॥ लोहिताल्लिङ्गबाधनं वा वक्तव्यम्॥ लोहितिका कोपेन, लोहिनिका कोपेन॥

Siddhanta Kaumudi

लोहितकः कोपेन । लोहिताल्लिङ्गबाधनं वा ॥ लोहितिका लोहिनिका कोपेन ॥

Balamanorama

वर्णे चानित्ये - वर्णे चाऽनित्ये । अनित्ये वर्णे विद्यमानाल्लोहितशब्दात्स्वार्थे कन्स्यादित्यर्थः । अमण्यर्थमिदम् । लोहितकः कोपेनेति ।देवदत्तादि॑रिति शेषः । कोपनिमित्तकं देवदत्तादेर्वौहित्यमनित्यमेव, कोपाऽभावे तदभावात् । यद्यपि माणिक्यमणिलौहित्यमपि अनित्यमेव, माणिक्ये नष्टे तन्नाशात्, तथापि आश्रयद्रव्यस्य उत्पत्तिप्रभृति नाशपर्यन्तं यो वर्णो वर्तते, स वर्णो नित्य इत्यभिमतमिति न दोषः । स्यादेतत् ।लोहितिकालोहितिका वा कोपेन॑ति स्त्रियां रूपद्वयमिध्यते । तत्र लोहितशब्दात्वर्णादनुदात्ता॑दिति नत्वसन्नियोगशिष्टं ङीपं परत्वात्स्यार्थिकतया अन्तरङ्गत्वाच्च बाधित्वा कनि कृते सति नत्वसन्नियोगशिष्टङीपो न प्रसक्तिः, कोपधत्वेन तोपधत्वाऽभावात् । ततश्च लोहितकशब्दात् ‘अजाद्यतः’ इति टापिप्रत्ययस्था॑दिति इत्त्वे लोहितिकेत्येव स्यान्नतु तत्र लोहिनिकेति । अत आह — लोहिताल्लिङ्गबाधनं वेति । वार्तिकमिदम् । लोहितशब्दात्परस्य स्त्रीलिङ्गबोधकप्रत्ययस्य कना बाधो वा स्यादित्यर्थः । असति तु कना ङीपो बाधे लोहिनीशब्दात्परस्य स्त्रीलिङ्गबोधकप्रत्ययस्य कना बाधो वा स्यादित्यर्थः । असति तु कना ङीपो बाधे लोहिताशब्दात्कनि ‘केऽणः’ इति ह्रस्वे कन्नन्ताट्टपि लोहिनिकेति सिध्यति । सति तु कना ङीपो बाधे लोहिताशब्दात्कनि ‘केऽणः’ इत#इ ह्रस्वे टापि लोहितिकेति भवति । ननुङ्याप् प्रातिपदिका॑दित्यत्र लिङ्गविशिष्टपरिभाषयैव सिद्धे ङ्याब्ग्रहणं ङ्याबन्तादेव तद्धिता भवन्ति, नतु ङ्याब्भ्यां प्रागित्येवमर्थमित्युक्तम् । एवंच ङीपः प्राक् कनः प्रसक्तेरेवाऽभावादिदं वार्तिकं व्यर्थमिति चेत्, अत एव वार्तिकाल्लिङ्गात्स्वार्थिकतद्धितेषु ङ्याब्ग्रहणं न संबध्यते । न चसुबन्तात्तद्धितोत्पत्ति॑रिति सिद्धान्तात् ‘कुत्सिते’ इति सूत्रस्थभाष्यरीत्या स्वार्थद्रव्यलिङ्गसङ्ख्याकारककुत्सादिप्रयुक्तकार्याणां क्रमिकतया ङ्याबन्तादेव सुपि ततः कनि रूपसिद्धेर्वचमिदं व्यर्थमिति वाच्यम्, कारककुत्सादिप्रयुक्तकार्याणां क्रमिकतया ङ्याबन्तादेव सुपि ततः कनि रूपसिद्धेर्वचनमिदं व्यर्थमिति वाच्यम्, अत एव स्वार्थिकतद्धितानां प्रातिपदिकादेव प्रवृत्तिविज्ञानादित्यन्यत्र विस्तरः ।

Tattvabodhini

वर्णे चानित्ये - वर्णे चाऽनित्ये । अनित्ये किम् । लहितं रुधिरम् । लोहिता लाक्षा । अनित्यत्वमिह स्वसमानाधिकरणध्वंसप्रतियोगित्वाम् । अतएवरक्ते॑इत्युत्तरसूत्रं सार्थकम् । लाक्षादिना रक्ते लौहित्यस्य यावदाश्रयमवस्थानेन नित्यतया पूर्वेणाऽसिद्धेः ।लोहिताल्लिङ्गबाधनं वा । लोहितक इथि । कोपेन लोहितो यः परुषस्तस्मिन्नेव क्षणादूध्र्वं कोपशान्तौ लौहित्यं नश्यतीति भवत्यत्राऽनित्यो वर्णः ।प्रातिपदिकात्तद्धिताः॑इति पक्षस्यप्रतिपदविधानमात्रेणाऽपवादत्वे॑मिति पक्षस्य चाश्रयणेवर्णादनुदात्ता॑दित्यतः प्रागेव कनि कृते लोहितिकेति रूपं न स्यादित्याशङ्कायामाह - ।

Padamanjari

सत्येवाश्रये यल्लौहित्यमपगच्छति तदनित्यम्। लोहितकः कोपेनेति। कोपे सति भवति कोपागगमे च सत्येवाश्रये निवर्तत इत्यनित्यमेतत् लौहित्यम्। लोहितो गौरिति। यावदाश्रयभावित्वादयं नित्यो वर्णः। लोहितै रुधिरमिति। विषादिदूषितं रुधिरं कदाचित्कृष्णमपि भवतीति विशेषणम्। वर्णग्रहणं किम् ? अनित्यत्वं विशेषणं यथा विज्ञायेत्, अन्यथा लोहितशब्दो वर्णप्रवृत्तिनिमितमुपादाय यत्र द्रव्ये पर्यवस्यति, तत्रापि विशेषणं सम्भाव्येत। तत्र को दोषः? इह च स्यात् - लोहितो गौरिति। इह च न स्यात् - लोहितकाः पार्थिवाः परमाणवोऽग्निसंयोगेनेति। तथा वर्णनिरपेक्षो रुधिराख्ये द्रव्ये लोहितशब्दस्यस्यापि ग्रहणं स्यात्, अनित्यग्रहणमिदानीं किमर्थं स्यात्! ननु सर्वमेव रुधिरमनित्यं यत्सत्येवाश्रये कादाचित्कम्, यथा - स्त्रीणामार्तवम्, तस्य ग्रहणार्थं स्यात्, तस्माद्वर्णग्रहणम्। लोहिताल्लिङ्गबाधनं वा इति। ङ्याप्सूत्र एतद्व्याख्यातम् ॥