54031: वर्णे चानित्ये ===================== **Padacheda:** वर्णे | S | 7 | 1 | च | S | 0 | 0 | अनित्ये | S | 7 | 1 | Sutrartha --------- **'लोहित'शब्दात् 'अनित्यः वर्णः' अस्मिन् सन्दर्भे स्वार्थे कन्-प्रत्ययः भवति ।** 'लोहित' (= red)) इति वर्णस्य नाम । यदि कस्यचन पदार्थस्य वर्णः मूलरूपेण लोहितः नास्ति, परन्तु प्रकृतिवशात् सः पदार्थः कञ्चित् समयम् यावत् लोहितवर्णस्य भासते, तर्हि तादृशस्य पदार्थस्य वर्णस्य निर्देशार्थम् 'लोहित' शब्दात् स्वार्थे कन्-प्रत्ययः भवति । अनित्यः लोहितः वर्णः स एव लोहितकः । An entity that is not always red in color, but turns red for some time is described by the word लोहितक । यथा - 1. लोहितकः पुरुषः । reddish person (e.g. due to anger). 2. लोहितकम् व्योम । reddish sky (e.g. at the time of sunset). यत्र वस्तुनः वर्णः नित्यम् लोहितः अस्ति, तत्र तु वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - लोहितम् रुधिरम् । अत्र एकम् वार्त्तिकं ज्ञेयम् - । अस्य वार्त्तिकस्य अर्थः अयम् - 'लोहित' शब्दात् स्त्रीत्वे वाच्ये **वर्णादनुदात्तात्तोपधात्तो नः** (4.1.39) इति 'ङीप्' प्रत्ययः यदा विधीयते, तदा प्रक्रियायामनेनैव सूत्रेण तकारस्य नकारादेशः भवति, येन 'लोहिनी' इति रूपं सिद्ध्यति । परन्तु यत्र 'लोहित' शब्दात् ङीप्-प्रत्ययं कृत्वा ततः वर्तमानसूत्रेण स्वार्थे कन्-प्रत्ययः भवति, तत्र तु अयम् नकारादेशः विकल्पेनैव भवति - इति अस्य वार्त्तिकस्य अर्थः । अस्मिन् वार्त्तिके 'लिङ्ग' इति शब्दः 'लिङ्गविशिष्टम् कार्यम्' अस्मिन् अर्थे प्रयुक्तः अस्ति । ङीप्-प्रत्ययेन सञ्जातं यत् लिङ्गविशिष्टम् कार्यम् (= तकारस्य नकारादेशः), तत् कन्-प्रत्यये परे विकल्पेन बाध्यते - इति आशयः । यथा - लोहित + ङीप् + कन् + टाप् ['लोहित' शब्दात् स्त्रीत्वे विवक्षिते **वर्णादनुदात्तात्तोपधात्तो नः** (4.1.39) इति 'ङीप्' प्रत्ययः । ततः स्वार्थे कन्-प्रत्ययः, तस्मात् च स्त्रीत्वे विवक्षिते **अजाद्यतष्टाप्** (4.1.4) इति टाप्-प्रत्ययः] → लोहिती / लोहिनी + क + आ [ इति वार्त्तिकेन वैकल्पिकः नकारादेशः] → लोहिति / लोहिनि + क + आ [**केऽणः** (7.4.13) इति ह्रस्वादेशः] → लोहितिका / लोहिनिका [ [**अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घः] यथा - सीता कोपेन लोहितिका लोहिनिता वा अभवत् । पक्षे (कन्-प्रत्ययस्य अनुपस्थितौ) - सीता कोपेन लोहिनी अभवत् । विशेषः - 'लोहितक' इति शब्दात् टाप्-प्रत्ययः क्रियते चेत् तु 'लोहितिका' इत्येव रूपम् भवति । तत्र अस्य वार्त्तिकस्य प्रसक्तिः न विद्यते । स्मर्तव्यम् - **समर्थानां प्रथमाद्वा** (4.1.82) इत्यनया महाविभाषया अत्र प्रत्ययः विकल्प्यते, अतः 'लोहितः पुरुषः' इति प्रयोगः अपि साधु । Vasu English Summary -------------------- The affix कन् comes after लोहित when it means color which is not permanent. Vasu English Translation ------------------------ The affix कन् comes after लोहित when it means color which is not permanent. Thus लोहितकः कोपेन "red with anger". लोहितकः पीडनेन ॥ Why do we say "not permanent" Observe लोहितो गौः "a red cow". लोहितं रुधिरम् "the red blood". Vart:- The derivative of लोहित may not take the gender of the primitive, as लोहितिका or लोहिनिका कोपेन ॥ Kashika ------- अनित्ये वर्णे वर्तमानात् लोहितशब्दात् स्वार्थे कन् प्रत्ययो भवति। लोहितकः कोपेन। लोहितकः पीडनेन। अनित्य इति किम् ? लोहितो गौः। लोहितं रुधिरम्॥ लोहिताल्लिङ्गबाधनं वा वक्तव्यम्॥ लोहितिका कोपेन, लोहिनिका कोपेन॥ Siddhanta Kaumudi ----------------- लोहितकः कोपेन । लोहिताल्लिङ्गबाधनं वा ॥ लोहितिका लोहिनिका कोपेन ॥ Balamanorama ------------ **वर्णे चानित्ये** - वर्णे चाऽनित्ये । अनित्ये वर्णे विद्यमानाल्लोहितशब्दात्स्वार्थे कन्स्यादित्यर्थः । अमण्यर्थमिदम् । लोहितकः कोपेनेति ।देवदत्तादि॑रिति शेषः । कोपनिमित्तकं देवदत्तादेर्वौहित्यमनित्यमेव, कोपाऽभावे तदभावात् । यद्यपि माणिक्यमणिलौहित्यमपि अनित्यमेव, माणिक्ये नष्टे तन्नाशात्, तथापि आश्रयद्रव्यस्य उत्पत्तिप्रभृति नाशपर्यन्तं यो वर्णो वर्तते, स वर्णो नित्य इत्यभिमतमिति न दोषः । स्यादेतत् ।लोहितिकालोहितिका वा कोपेन॑ति स्त्रियां रूपद्वयमिध्यते । तत्र लोहितशब्दात्वर्णादनुदात्ता॑दिति नत्वसन्नियोगशिष्टं ङीपं परत्वात्स्यार्थिकतया अन्तरङ्गत्वाच्च बाधित्वा कनि कृते सति नत्वसन्नियोगशिष्टङीपो न प्रसक्तिः, कोपधत्वेन तोपधत्वाऽभावात् । ततश्च लोहितकशब्दात् 'अजाद्यतः' इति टापिप्रत्ययस्था॑दिति इत्त्वे लोहितिकेत्येव स्यान्नतु तत्र लोहिनिकेति । अत आह — लोहिताल्लिङ्गबाधनं वेति । वार्तिकमिदम् । लोहितशब्दात्परस्य स्त्रीलिङ्गबोधकप्रत्ययस्य कना बाधो वा स्यादित्यर्थः । असति तु कना ङीपो बाधे लोहिनीशब्दात्परस्य स्त्रीलिङ्गबोधकप्रत्ययस्य कना बाधो वा स्यादित्यर्थः । असति तु कना ङीपो बाधे लोहिताशब्दात्कनि 'केऽणः' इति ह्रस्वे कन्नन्ताट्टपि लोहिनिकेति सिध्यति । सति तु कना ङीपो बाधे लोहिताशब्दात्कनि 'केऽणः' इत#इ ह्रस्वे टापि लोहितिकेति भवति । ननुङ्याप् प्रातिपदिका॑दित्यत्र लिङ्गविशिष्टपरिभाषयैव सिद्धे ङ्याब्ग्रहणं ङ्याबन्तादेव तद्धिता भवन्ति, नतु ङ्याब्भ्यां प्रागित्येवमर्थमित्युक्तम् । एवंच ङीपः प्राक् कनः प्रसक्तेरेवाऽभावादिदं वार्तिकं व्यर्थमिति चेत्, अत एव वार्तिकाल्लिङ्गात्स्वार्थिकतद्धितेषु ङ्याब्ग्रहणं न संबध्यते । न चसुबन्तात्तद्धितोत्पत्ति॑रिति सिद्धान्तात् 'कुत्सिते' इति सूत्रस्थभाष्यरीत्या स्वार्थद्रव्यलिङ्गसङ्ख्याकारककुत्सादिप्रयुक्तकार्याणां क्रमिकतया ङ्याबन्तादेव सुपि ततः कनि रूपसिद्धेर्वचमिदं व्यर्थमिति वाच्यम्, कारककुत्सादिप्रयुक्तकार्याणां क्रमिकतया ङ्याबन्तादेव सुपि ततः कनि रूपसिद्धेर्वचनमिदं व्यर्थमिति वाच्यम्, अत एव स्वार्थिकतद्धितानां प्रातिपदिकादेव प्रवृत्तिविज्ञानादित्यन्यत्र विस्तरः । Tattvabodhini ------------- **वर्णे चानित्ये** - वर्णे चाऽनित्ये । अनित्ये किम् । लहितं रुधिरम् । लोहिता लाक्षा । अनित्यत्वमिह स्वसमानाधिकरणध्वंसप्रतियोगित्वाम् । अतएवरक्ते॑इत्युत्तरसूत्रं सार्थकम् । लाक्षादिना रक्ते लौहित्यस्य यावदाश्रयमवस्थानेन नित्यतया पूर्वेणाऽसिद्धेः ।लोहिताल्लिङ्गबाधनं वा । लोहितक इथि । कोपेन लोहितो यः परुषस्तस्मिन्नेव क्षणादूध्र्वं कोपशान्तौ लौहित्यं नश्यतीति भवत्यत्राऽनित्यो वर्णः ।प्रातिपदिकात्तद्धिताः॑इति पक्षस्यप्रतिपदविधानमात्रेणाऽपवादत्वे॑मिति पक्षस्य चाश्रयणेवर्णादनुदात्ता॑दित्यतः प्रागेव कनि कृते लोहितिकेति रूपं न स्यादित्याशङ्कायामाह - । Padamanjari ----------- सत्येवाश्रये यल्लौहित्यमपगच्छति तदनित्यम्। लोहितकः कोपेनेति। कोपे सति भवति कोपागगमे च सत्येवाश्रये निवर्तत इत्यनित्यमेतत् लौहित्यम्। लोहितो गौरिति। यावदाश्रयभावित्वादयं नित्यो वर्णः। लोहितै रुधिरमिति। विषादिदूषितं रुधिरं कदाचित्कृष्णमपि भवतीति विशेषणम्। वर्णग्रहणं किम् ? अनित्यत्वं विशेषणं यथा विज्ञायेत्, अन्यथा लोहितशब्दो वर्णप्रवृत्तिनिमितमुपादाय यत्र द्रव्ये पर्यवस्यति, तत्रापि विशेषणं सम्भाव्येत। तत्र को दोषः? इह च स्यात् - लोहितो गौरिति। इह च न स्यात् - लोहितकाः पार्थिवाः परमाणवोऽग्निसंयोगेनेति। तथा वर्णनिरपेक्षो रुधिराख्ये द्रव्ये लोहितशब्दस्यस्यापि ग्रहणं स्यात्, अनित्यग्रहणमिदानीं किमर्थं स्यात्! ननु सर्वमेव रुधिरमनित्यं यत्सत्येवाश्रये कादाचित्कम्, यथा - स्त्रीणामार्तवम्, तस्य ग्रहणार्थं स्यात्, तस्माद्वर्णग्रहणम्। लोहिताल्लिङ्गबाधनं वा इति। ङ्याप्सूत्र एतद्व्याख्यातम् ॥