54032: रक्ते

Padacheda: रक्ते | S | 7 | 1 |

Sutrartha

‘रक्त’ अस्मिन् सन्दर्भे लोहितशब्दात् स्वार्थे कन्-प्रत्ययः भवति ।

‘रक्त’ इत्युक्ते वर्णेन लिप्तम् (colored). । यत्र किञ्चन वस्तु मूलरूपेण लोहितवर्णस्य नास्ति परन्तु रक्तेन तस्य वर्णपरिवर्तनं कृत्वा लोहितवर्णः विधीयते, तत्र तादृशस्य वर्णस्य निर्देशार्थम् लोहितशब्दात् स्वार्थे कन्-प्रत्ययः भवति । यथा - लोहितेन रक्तम् कम्बलम् तत् लोहितकम् कम्बलम् । वर्णे चानित्ये (5.4.31) इत्यत्र पाठितम् <!लोहिताल्लिङ्गबाधनं वा वक्तव्यम्!> इति वार्त्तिकमस्य सूत्रस्य विषये अपि प्रयुज्यते । अस्य वार्त्तिकस्य अर्थः अयम् - ‘लोहित’ शब्दात् स्त्रीत्वे वाच्ये वर्णादनुदात्तात्तोपधात्तो नः (4.1.39) इति ‘ङीप्’ प्रत्ययः यदा विधीयते, तदा प्रक्रियायामनेनैव सूत्रेण तकारस्य नकारादेशः भवति, येन ‘लोहिनी’ इति रूपं सिद्ध्यति । परन्तु यत्र ‘लोहित’ शब्दात् ङीप्-प्रत्ययं कृत्वा ततः वर्तमानसूत्रेण स्वार्थे कन्-प्रत्ययः भवति, तत्र तु अयम् नकारादेशः विकल्पेनैव भवति - इति अस्य वार्त्तिकस्य अर्थः । अस्मिन् वार्त्तिके ‘लिङ्ग’ इति शब्दः ‘लिङ्गविशिष्टम् कार्यम्’ अस्मिन् अर्थे प्रयुक्तः अस्ति । ङीप्-प्रत्ययेन सञ्जातं यत् लिङ्गविशिष्टम् कार्यम् (= तकारस्य नकारादेशः), तत् कन्-प्रत्यये परे विकल्पेन बाध्यते - इति आशयः । यथा - लोहित + ङीप् + कन् + टाप् [‘लोहित’ शब्दात् स्त्रीत्वे विवक्षिते वर्णादनुदात्तात्तोपधात्तो नः (4.1.39) इति ‘ङीप्’ प्रत्ययः । ततः स्वार्थे कन्-प्रत्ययः, तस्मात् च स्त्रीत्वे विवक्षिते अजाद्यतष्टाप् (4.1.4) इति टाप्-प्रत्ययः] → लोहिती / लोहिनी + क + आ [<!लोहिताल्लिङ्गबाधनं वा वक्तव्यम्!> इति वार्त्तिकेन वैकल्पिकः नकारादेशः] → लोहिति / लोहिनि + क + आ [केऽणः (7.4.13) इति ह्रस्वादेशः] → लोहितिका / लोहिनिका [ [अकः सवर्णे दीर्घः (6.1.101) इति सवर्णदीर्घः] यथा - लोहितवर्णेन रक्ता सा लोहितिका लोहिनिका वा शाटिका । पक्षे (कन्-प्रत्ययस्य अभावपक्षे) - लोहिनी शाटिका । स्मर्तव्यम् - समर्थानां प्रथमाद्वा (4.1.82) इत्यनया महाविभाषया अत्र प्रत्ययः विकल्प्यते, अतः ‘लोहितं कम्बलम्’ इति प्रयोगः अपि साधु ।

Vasu English Summary

The affix कन् comes after the word लोहित meaning a substance dyed red.

Vasu English Translation

The affix कन् comes after the word लोहित meaning a substance dyed red. As लोहितकः कम्बलः or पटः ॥ Similarly लोहितिका or लोहिनिका शाटी ॥

Kashika

लाक्षादिना रक्ते यो लोहितशब्दः, तस्मात् कन् प्रत्ययो भवति। लोहितकः कम्बलः। लोहितकः पटः। लिङ्गबाधनं वेत्येव। लोहितिका, लोहिनिका शाटी॥

Siddhanta Kaumudi

लाक्षादिना रक्ते यो लोहितशब्दस्तस्मात्कन्स्यात् ॥<!लिङ्गबाधनं वा इत्येव !> (वार्तिकम्) ॥ लोहितिका लोहिनिका शाटी ॥

Balamanorama

रक्ते - रक्ते । लाक्षादिना रक्ते पटादौ लौहित्यस्य यावद्द्रव्यमवस्थानेन नित्यतया पूर्वेणाऽप्राप्तौ वचनम् ।

Tattvabodhini

रक्ते - लिङ्गबाधनं वेति । लोहितादित्युपलक्षणम् । एतिका एनिकेत्यादेरपि सङ्ग्रह्रत्वात् ।सुबन्तात्तद्धिताः॑इति पक्षस्यनिरवकाशत्वमपवादत्व॑मिति पक्षस्य च मुख्यत्वात्तदाश्रयणे तुवर्णादनुदात्ता॑दित्यास्यानन्तरमेव कनः प्रवृत्तेः कन्प्रतद्ययस्य पुंल्लिङ्गे सावकाशतया निरवकाशत्वाऽभावाच्च वार्तिकमिदं न कर्तव्यम् । अतएव ङ्याब्ग्रहणं व्यर्थमिति, स्वाम्पीति रूपं प्रबलमिति च मनोरमादावुक्तमिति दिक् ।

Padamanjari

यत्र द्रव्यान्तरसम्पर्केअण लौहित्यं तथाधीयते तथा यावदाश्रयमवतिष्ठते, तत्रानित्यत्वाभावात्पूर्वेण न प्राप्नोतीत्ययमारम्भः। नन्वेवमपि रञ्जनात् प्राक् सत्येव पदादावाश्रये लौहित्यस्यावस्थानाभावादस्त्येवानित्यता, न कारणावस्थायामेव रञ्जनात्? तदेतदेव वचनं ज्ञापकम् - पूर्वत्रायावद्द्रव्यभावित्वमनित्यत्वम्, न पुनराद्यन्तभाव इति। तादृशस्य त्वनित्यत्वस्य ग्रहणो तैजसानां परमाणूनां यल्लौहित्यं तद्व्यतिरिक्तस्य सर्वस्यैव लोहित्यस्य नित्यत्वादिदं वचनमनर्थलं स्यात् ॥

Nyaas

लाक्षादिना रक्ते इति। ननु च लाक्षादिना य आधीयते लोहितो वर्णः, तस्यानित्यत्वात्? पूर्वसूत्रेणैव सिद्धम्? यदा हि ते योगविशेषेण तथाविधं स्थैर्यमुत्पद्यते; यतः स्वाश्रयं न जहाति तदा नित्यत्वान्न प्राप्नोति, तदर्थमिदमुच्यते॥

Prakriyasarvasvam

लाक्षादिना रक्ते वाच्ये लोहितात्कन् । लोहितकः पटः । प्राग्वल्लोहिनिका, लोहितिका वा शाटी ॥