54025: पादार्घाभ्यां च¶
Padacheda: पाद-अर्घाभ्याम् | S | 5 | 2 |
च | S | 0 | 0 |
Sutrartha¶
‘पाद’ तथा ‘अर्घ’ शब्दाभ्याम् ‘तदर्थम्’ अस्मिन् अर्थे यत्-प्रत्ययः भवति ।
‘पाद’ (feet) तथा ‘अर्घ’ (= स्वागतार्थे प्रयुक्तः गन्धोदकसमुदायः) एताभ्याम् शब्दाभ्याम् चतुर्थीसमर्थाभ्याम् प्रथमार्थे ‘यत्’ प्रत्ययः भवति । यथा - 1. पादार्थम् इदम् = पाद्यमुदकम् । प्रक्रिया इयम् - पाद + यत् → पाद् + यत् [यस्येति च (6.4.148) इति अकारलोपः । → पाद्य [यस्येति च (6.4.148) इत्यनेन कृतः अकारलोपः आभीय-असिद्धत्वात् पादः पत् (6.4.130) इत्यनेन न दृश्यते, अतः अत्र पाद्-इत्यस्य पद्-आदेशः न भवति । तथा च, अचः परस्मिन् पूर्वविधौ (1.1.57) इत्यनेन लुप्त-अकारस्य विधानमपि भवति, अतः असिद्धत्वस्य चिन्तनं विना अप्यत्र पादः पत् (6.4.130) इत्यस्य प्रसक्तिः न विद्यते ।] 2. अर्घार्थम् इदम् = अर्घ्यमुदकम् । प्रक्रिया इयम् - अर्घ + यत् → अर्घ् + यत् [यस्येति च (6.4.148) इति अकारलोपः । → अर्घ्य ‘पाद्य’ तथा ‘अर्घ्य’ द्वौ अपि शब्दौ पूजाकार्ये जलस्य निर्देशार्थम् प्रयुज्येते । तत् जलम् यत् पादप्रोक्षणार्थम् प्रयुज्यते, ‘पाद्यम्’ नाम्ना ज्ञायते । तत् जलम् यत् गन्धोदकमिश्रितमस्ति, स्वागतार्थं च प्रयुज्यते, ‘अर्घ्य’ नाम्ना ज्ञायते । विशेषः - 1. अस्मिन् सूत्रे ‘च’ इति निर्दिष्टः अस्ति । अयम् चकारः ‘अनुक्तसमुच्चायार्थः’ अस्तीति काशिकाकारः वदति । इत्युक्ते, अन्येषां शब्दानां विषये अपि ‘तदर्थम्’ अस्मिन् अर्थे वर्तमानसूत्रेण यत्-प्रत्ययः कृतः दृश्यते । यथा, ‘छन्दसे इदम् छन्दस्यम्’ - आदयः । 2. यद्यपि इदम् सूत्रम् स्वार्थिकप्रकरणे विद्यते, तथाप्यत्र प्रत्ययः स्वार्थे न विधीयते, अपितु चतुर्थीसमर्थात् ‘इदम्’ अस्मिन् अर्थे विधीयते इति ज्ञातव्यम् । अत्र कानिचन वार्त्तिकानि ज्ञेयानि - 1. <!वसु-अपस्-ओक-कवि-क्षेम-उदक-वर्चस्-निष्केवल-उक्थ-जन-पूर्व- नव-सूर-मर्त-यविष्ठेभ्यः छन्दसि स्वार्थे यत्प्रत्ययो वक्तव्यः!> । एतेभ्यः शब्देभ्यः वेदेषु स्वार्थे यत्-प्रत्ययः कृतः दृश्यते इत्याशयः । यथा - क) वसु एव वसव्यः । ऋग्वेदे 4.55.8 इत्यत्र - अ॒ग्निरी॑शे वस॒व्य॑स्या॒ग्निर्म॒हः सौभ॑गस्य । ख) अपः एव अपस्यः । शुक्लयजुर्वेदे 10.7 इत्यत्र - एता अनाधृष्टा अपस्यो वसानाः । । ग) ओकः एव ओक्यः । ऋग्वेदे 3.42.8 इत्यत्र - तुभ्येदि॑न्द्र॒ स्व ओ॒क्ये॒३॒॑ सोमं॑ चोदामि पी॒तये॑ । घ) कविः एव कव्यः । पञ्चविंशब्राह्मणे 1.4 इत्यत्र - कव्योऽसि कव्यवाहनः । ङ) क्षेमः एव क्षेम्यः । तैत्तिरीयसंहितायाम् 5.2.1.7 इत्यत्र - क्षेम्यमध्यवस्यति । च) उदकम् एव उदक्यम् । मनुस्मृतौ - नोदक्ययाभिभाषेत यज्ञं गच्छेन्न चावृतः । छ) वर्चः एव वर्चस्यम् । कृष्णयजुर्वेदे एकाग्निकाण्डे 2.7 - आयुष्यम् वर्चस्यम् सुवीर्यम् । ज) निष्केवलम् एव निष्केवल्यम् । शाङ्खायनसूत्रेषु 11.4.9 इत्यत्र - आ याह्यर्वाङिति निष्केवल्यम् । झ) उक्थः एव उक्थ्यम् । ऋग्वेदे 8.66.2 - दाता जरित्र उक्थ्यम् । ञ) जनः एव जन्यः । जैमिनीयब्राह्मणे 2.182 - जन्यं ताभिः । ट) पूर्वः एव पूर्व्यः । अथर्ववेदे 19.34.6 - पूर्व्या विदुः । ठ) नवम् एव नव्यम् । ऋग्वेदे 1.109.2 - स्तोमं॑ जनयामि॒ नव्य॑म् । ड) सूरः एव सूर्यः । ऋग्वेदे 1.23.17 - अ॒मूर्या उप॒ सूर्ये॒ याभि॑र्वा॒ सूर्य॑: स॒ह । ढ) मर्तः एव मर्त्यः । ऋग्वेदे 1.19.2 - न॒हि दे॒वो न मर्त्यो॑ म॒हस्तव॒ क्रतुं॑ प॒रः । ण) यविष्ठः एव यविष्ठ्यः । ऋग्वेदे 1.36.6 - त्वे इद॑ग्ने सु॒भगे॑ यविष्ठ्य॒ विश्व॒मा हू॑यते ह॒विः । 2. <!आमुष्यायण-आमुष्यपुत्रिका-इत्युपसङ्ख्यानम्!> । इत्युक्ते, ‘अमुष्य’ इत्यस्मिन्नेव अर्थे ‘आमुष्यायण’ इति शब्दः, तथा च ‘अमुष्यपुत्र’ इत्यस्मिन्नेव अर्थे ‘आमुष्यपुत्रिका’ अयम् शब्दः वेदेषु प्रयुक्तः दृश्यते । 3. <!समशब्दात् आवतु-प्रत्ययो वक्तव्यः!> । ‘सम’ शब्दात् स्वार्थे ‘आवतु’ प्रत्ययः भवति । सम इत्येव समावत् । 4. <!नवस्य नू-आदेशः, त्नप्-तनप्-खाः च प्रत्ययाः !> । ‘नव’ शब्दात् स्वार्थे ‘त्नप्’, ‘तनप्’ तथा ‘ख’ प्रत्ययाः भवन्ति, तथा च प्रक्रियायाम् नव-शब्दस्य ‘नू’ इति आदेशः भवति । नवम् इत्येव नूत्नम्, नूतनम्, नवीनम् च । 5. <!नश्च पुराणे प्रात्!> । ‘पुराण’ अस्मिन् अर्थे ‘प्र’ शब्दात् ‘त्नप्’, ‘तनप्’, ‘ख’ तथा ‘न’ एते प्रत्ययाः भवन्ति । पुराणम् इत्येव प्रत्नम्, प्रतनम्, प्रीणम्, प्रणम् । 6. <!भागरूपनामभ्यो धेयः प्रत्ययो वक्तव्यः!> । भाग, रूप, नाम - एतेभ्यः शब्देभ्यः स्वार्थे ‘धेय’ प्रत्ययः भवति । भागः इत्येव भागधेयः । रूपम् इत्येव रूपधेयम् । नाम इत्येव नामधेयम् । 7. <!मित्रात् छन्दसि!> । ‘मित्र’ शब्दात् वेदेषु स्वार्थे ‘धेय’ प्रत्ययः कृतः दृश्यते । मित्रम् एव मित्रधेयम् । 8. <!आग्नीध्रसाधारणाद् अञ्!> । ‘आग्धीध्र’ तथा ‘साधारण’ एताभ्याम् शब्दाभ्याम् स्वार्थे अञ्-प्रत्ययः कृतः दृश्यते । आग्नीध्रम् इत्येव आग्नीध्रम् । साधारणम् इत्येव साधारणम् । स्त्रीत्वे टिड्ढाणञ्… (4.1.15) इति ङीप् - आग्रीध्री, साधारणी । 9. <!अयवस-मरुद्भ्यां छन्दसि अञ्-वक्तव्यः!> । ‘अयवस’ तथा ‘मरुत्’ एताभ्यां शब्दाभ्यां वेदेषु स्वार्थे अञ्-प्रत्ययः कृतः दृश्यते । अयवसः इत्येव अयवस्यः । मरुत् इत्येव मरुत्यः । एतैः सर्वेः वार्त्तिकैः विकल्पेन प्रत्ययविधानम् भवति, यतः सर्वत्र समर्थानां प्रथमाद्वा (4.1.82) इत्यस्याः महाविभाषायाः अधिकारः अस्ति ।
Vasu English Summary¶
The affix यत् (यं) comes after the words 1. पाद and 2. अर्घ being in the Dative -4th Case in construction when the meaning is ‘for the purpose of that’.
Vasu English Translation¶
The affix यत् (यं) comes after the words 1. पाद and 2. अर्घ being in the Dative -4th Case in construction when the meaning is ‘for the purpose of that’. The word तादर्थ्य is understood here also. Thus पादार्थमुदकं = पाद्यम् “water, meant for washing the feet”. So also अर्घ्यम् ॥ The accent of these words is governed by (6.1.213), the udatta being on the first syllable.
The च in the sutra implies the inclusion of words other than पाद and अर्घ, not mentioned here. The affix यत् applies to other words also, as एष वै सप्तदशाक्षरश्छन्दस्यः प्रजापतिः । So also वसु, अयस्, ओक, कवि, क्षेम, उदक, वर्चस्, निष्केवल, उक्थ, जन, पूर्व, नव, सूर, मर्त, यविष्ठ ॥ These words take यत् in the Vedas. Thus वसव्यः, अयस्यः, ओक्यः, कव्यः, क्षेम्यः, उदक्यः, वर्चस्यः, निष्केवल्यम्, उक्थ्यः, जन्यः, पूर्व्यः, नव्यः, सूर्यः, मर्त्यः and यविष्ठ्यः in अग्निरीशेवसव्यस्य । अयस्यो वसानाः (द्वितीयाबहुवचनस्यालुक् । अपो वसाना इत्यर्थः) स्वओक्ये । कव्योरी । क्षेम्यस्य वस्यति । वायुर्वर्चस्यः ॥ निष्केवल्यं शंसति । उक्थ्यं शंसति । जन्यंताभिः । पूर्व्या दिशः । स्तोमैर्जनयामि नव्यम् । सूर्यः । मर्त्यः । यविष्ठ्यः ॥ So also the words आमुष्यायण् and आमुष्यपुत्रिका ॥
Vart:- The affix आवतु comes after the word सम; as समावत् वसति, समावद् गृह्णाति ॥
Vart:- नू is the substitute of नव, and the affixes त्नप्, तनप् and ख are added to it; as, नूत्नम्, नूतनम्, नवीनम् ॥
Vart:- To the word प्र meaning ‘old’, the affix म is added as well as the affixes त्म, तम and ख e.g. प्रणम्, and प्रत्नम्, प्रतनम् and प्रीणम् ॥
Vart:- The affix धेय is added to the words भाग, रूप and नाम, e.g. भागधेयम्, रूपधेयम्, नामधेयम् ॥ This affix comes after मित्र in the Vedas, as, मित्रधेयं यतस्व ॥
Vart:- The affix अञ् comes after आग्नीध्र and साधारण, as, आग्नीध्रम्, साधारणम् ॥ The feminine is formed by ङीप् as आग्नीध्रा, साधारणी ॥ All these are illustrations of the option allowed by (4.1.82), so that sometimes these affixes do not apply, as अग्नीध्रा शाला, साधारणा भूः ॥
Vart:- In the Chhandas, अञ् comes after अयवस and मरुत्, आयवसं and मारुतं in आयवसे रमन्ते, मारुतं शर्द्धः ॥
Kashika¶
तादर्थ्य इत्येव। पादार्घशब्दाभ्यां चतुर्थीसमर्थाभ्यां तादर्थ्येऽभिधेये यत् प्रत्ययो भवति। पादार्थमुदकं पाद्यम्। अर्घ्यम्। अनुक्तसमुच्चयार्थश्चकारः। यथादर्शनमन्यत्रापि प्रत्ययो भवति। ए॒ष वै छ॑न्द॒स्यः॑ प्॒रजाप॑तिः॒ (तै०सं० १.६.११.४)। वसु, अपस्, ओक, कवि, क्षेम, उदक, वर्चस्, निष्केवल, उक्थ, जन, पूर्व, नव, सूर, मर्त, यविष्ठ इत्येतेभ्यः छन्दसि स्वार्थे यत् प्रत्ययो भवति। अ॒ग्निरी॑शे वस॒व्य॑स्य (ऋ० ४.५५.८)। अप॒३स्यो॒ व॑सा॒नाः (मै०सं० २.६.८)। द्वितीयाबहुवचनस्यालुक् । अपो वसाना इत्यर्थः। स्व ओ॒क्ये॑ (ऋ०१.९१.१३)। क॒व्योऽसि कव्य॒वा॑हनः॒ (मै०सं० १.२.१२) क्षे॒म्यम॒ध्यव॑स्यति (तै०सं०५.२.१.७)। वायुर्वर्चस्यः। निष्केवल्यं (काठ०सं० २८.१०) शंसन्ति। उक्थ्यं शंसति। जन्यं ताभिः। पू॒र्व्या वि॑दुः (शौ०सं० १९.३४.६)। स्तोमं॑ जनयामि॒ नव्य॑म् (ऋ० १.१०९.२)। सूर्यः॑ (ऋ० १.२३.१७)। मर्त्यः॑ — (ऋ० १.१९.२)। य॒वि॒ष्ठ्यः॑ (ऋ० १.३६.६)॥ आमुष्यायणामुष्यपुत्रिकेत्युपसंख्यानम् (द्र० — शौ० सं० १०.५.३६)॥ समशब्दादावतुप्रत्ययो वक्तव्यः॥ स॒मा॑व॒द्वसति॒ (मै०सं० २.२.७)॥ नवस्य नू आदेशस्त्नप्तनप्खाश्च प्रत्ययाः॥ नूत्नम्। नूतनम्। नवीनम्॥ नश्च पुराणे प्रात्॥ पुराणे वर्तमानात् प्रशब्दाद् नः प्रत्ययो भवति, चकारात् त्नप्तनप्खाश्च। प्रणम्। प्॒रत्नम् (ऋ० १.३६.४)। प्रतनम्। प्रीणम्॥ भागरूपनामभ्यो धेयः प्रत्ययो वक्तव्यः॥ भागधेयम्। रूपधेयम्। नामधेयम्॥ मित्राच्छन्दसि॥ मित्र॒धेये॑ यतस्व (तै०सं० ४.१.७.२)॥ आग्नीध्रसाधारणादञ्॥ आग्नी॑ध्रम् (तै०सं० ३.१.६.१)। साधा॑रणम् (तै०सं० २.६.१.६)। स्त्रियां ङीप् — आग्नीध्री। सा॑धार॒णी (ऋ०१.१६७.४)। वाप्रकरणाच्च विकल्पन्त एतान्युपसंख्यानानि, तेन यथाप्राप्तमपि भवति। आग्नीध्रा शाला। साधारणा भूरिति॥ अयवसमरुद्भ्यां छन्दस्यञ् वक्तव्यः॥ आय॑वसे रमन्ते (तै०सं० ५.२.८.३)। मारु॑तं॒ शर्धः॒ (ऋ०१.१०६.१)॥
Siddhanta Kaumudi¶
पादार्थमुदकं पाद्यम् । अर्घ्यम् ।<!नवस्य नू आदेशः त्नप्तनप् खाश्च प्रत्यया वक्तव्याः !> (वार्तिकम्) ॥ नूत्नम् । नूतनम् । नवीनम् ।<!नश्च पुराणे प्रात् पुराणार्थे वर्तमानात्प्रशब्दान्नो वक्तव्यः !> (वार्तिकम्) ॥ चात्पूर्वोक्ताः । प्रणम् । प्रत्नम् । प्रतनम् । प्रीणम् ।<!भागरूपनामभ्यो धेयः !> (वार्तिकम्) ॥ भागधेयम् । रूपधेयम् । नामधेयम् ।<!आग्नीध्रसाधारणादञ् !> (वार्तिकम्) । आग्नीध्रम् । साधारणम् । स्त्रियां ङीप् । आग्नीध्री । साधारणी ॥
Balamanorama¶
पादार्घाभ्यां च - पादार्धाभ्यां च ।तादर्थ्ये य॑दिति शेषः । अध्र्यमिति । अर्धार्थमुदकमिति विग्रहः । अर्ध — पूजा ।मूल्ये पूजाविधावर्धः॑ इत्यमरः । नवस्येति । वार्तिकमिदम् । एते प्रत्यया अत्यन्तस्वार्थिकाः । नवीनमिति । नवशब्दात्खप्रत्यये, तस्य ईनादेशे प्रकृतेर्नूभावे, ओर्गुणः, अवादेशः । नश्च पुराणे प्रादिति । वार्तिकमिदम् । चात्पूर्वोक्ता इति । त्नप्, तनप्, ख इत्यर्थः । प्रीणमिति । खे रूपम् । भागरूपेति । वार्तिकमिदम् । आग्नीध्रेति । वार्तिकमिदम् । आग्नीध्रमिति । अग्नीधः शरणम् — आग्नीध्रम् । ततः स्वार्थे अञि आग्नीध्रमेव । अनेकं प्रत्यविशिष्टसम्बन्धं साधारणमुच्यते । ततः स्वार्थे अञि साधारणमित्येव । अञ्विधेः प्रयोजनमाह — स्त्रिया ङीबिति ।
Tattvabodhini¶
पादार्घाभ्यां च - अध्र्यमिति ।मूल्ये पूजाविधावर्घः॑ इत्यमरः । पूर्वोक्ता इति । त्नप्तनप्खप्रत्यया इत्यर्थः ।आग्नीध्रसाधारणादञ् । आग्नीध्रमिति ।अग्नीधः शरणे रण् भं चे॑ति शैषिकेषु व्युत्पादितं, तच्चान्तोदात्तम्, ततः स्वार्थेऽनेनाऽञ् । आद्युदात्तत्वं फलम् । फलन्तारमप्याह — — स्त्रियामिति । आग्नीध्रीति.सालेति विशेष्यम् । समानं धारणमस्याः साधारणी । अनेकं प्रत्यविशिष्टसम्बन्धो भूम्यादिः । पृषोदरादित्वात्वात्समानस्य सभावः । विभाषाप्रकरणादञभावे टाप् । आग्नीध्रा शाला । साधारणा भूमिः । नन्वञभावपक्षे समानस्य सधारण इत्येव स्यान्न त्वत्रादिवृद्धिरिति चेत् । अत्राहुः -॒साधारणाद॑ञित्यतएव निपातनात्, समानस्य साभावविधानाद्वा इष्टसिद्धिरिति ।
Padamanjari¶
गन्धोदकादिसमुदायोऽर्घः, तदर्थभुदकादिउअर्घ्यम्। च्छन्दस्य इति। यथा गायत्र्यादिवृतं च्छन्दःशब्दोऽभिधते, तथाऽऽश्रावयेत्यादिकमपि सप्तदशाक्षरसमाहारम्, तत्र वर्तमानाच्छन्दःशब्दात्स्वार्थे प्रत्ययः, व्यत्ययेन पुंल्लिङ्गता। द्वितीयाबहुवचनस्य लुगिति। छान्दसत्वात्। अत एव यदन्तात्प्रथमैकवचनं पुंल्लिङ्गं च भवति। अमुष्यशब्दो नडादिः, अमुष्यपुत्रशब्दो मनोज्ञादिः; उभयत्र षष्ठ।ल अलुगुपसंख्यायते। प्रत्ययप्रकरणे प्रासङ्गिकमेतत्, स चालुक् तयोरेव गणयोस्तथैव पाठात्सिद्धः। समशब्दादावतुप्रत्यय इति। उकार उगित्कार्यार्थः - समावती यज्ञस्याशीरिति ङीब् भवति। ठग्नीधः शरणे रण् भत्वं चऽ - आग्नीध्रम्, ततोऽञ्-आग्नीध्री। समानं धारणमस्य साधारणम्, अनेकं प्रत्यविशिष्टसम्बन्धम्। पृषोदरादित्वात्समानस्य सभावः, ततोऽञ् साधारणि। ङीबर्थं वचनम्। क्षेमशब्दाद्यो वक्तव्यः, यति हि सति’यतो’ नावःऽ इत्याद्यौदातत्वं स्याद्, अन्तोदातत्वं चेष्यते ॥
Nyaas¶
छब्दस्यः इति। सप्तवशाक्षरसमाहाराभिषायिनश्छप्दःशब्दात्? स्वार्थे यत्प्रत्ययो भवति। द्वितीयाबहुवचनस्यालुक् इति। अप्शब्दाद्द्वितीयाबहुवचनान्ताद्यति कृते सुपो धातुप्रातपदिकयोः (2.4.71) इति सुपो लुकि
Vartika¶
भाग-रूप-नामभ्यो धेयः ।
Sutra Prayogas¶
भागधेयोचितैर्मृगैः (रघुवंशम्): रूपनामभागेभ्यो धेयप्रत्ययो वक्तव्यः (वा.3330) इति वक्तव्यसूत्रात्स्वाभिधेये धेयप्रत्ययः।
पाद्यम् (शिशुपालवधम्): पादार्घाभ्यां च इति यत्प्रत्ययः।
पाद्य (भट्टिकाव्यम्): पादार्घाभ्यां च इति यत्।