54009: जात्यन्ताच्छ बन्धुनि

Padacheda: जात्यन्तात् | S | 5 | 1 |

छ | S | | | 1

बन्धुनि | S | 7 | 1 |

Sutrartha

‘जाति’ इति शब्दः यस्य अन्ते अस्ति, तथा च ‘बन्धु’ इत्यस्मिन् अर्थे यः शब्दः प्रयुज्यते, तस्मात् स्वार्थे नित्यं छ-प्रत्ययः भवति ।

यस्य शब्दस्य अन्ते ‘जाति’ इति विद्यते, (यथा -‘ब्राह्मणजाति’, ‘क्षत्रियजाति’, ‘वैश्यजाति’ आदयः) तादृशः शब्दः यदि तस्याः जातेः बन्धुनः (members of the cast) निर्देशं करोति, तर्हि तस्मात् स्वार्थे ‘छ’ प्रत्ययः भवति । किम् नाम बन्धु ? व्याख्यानेषु उच्यते - बध्यते अस्मिन् जातिः इति बन्धुशब्देन द्रव्यमुच्यते । येन ब्राह्मणत्वादिजातिः व्यज्यते तत् बन्धु द्रव्यम् । सामान्यभाषायाम्, जातौ विद्यमानः मासपिण्डादिः कश्चनः मनुष्यः येन सा जातिः व्यक्ता भवति ‘बन्धु’ / ‘द्रव्यम्’ इति नाम्ना ज्ञायते । A ‘जाति’ is just a theoretical concept, which can become practical only when some people who belong to that jati are shown explicitly. Such people are called बन्धु / द्रव्य of that जाति । एतादृशानाम् बन्धूनाम् निर्देशार्थम् जात्यन्तात् शब्दात् स्वार्थे ‘छ’ इति प्रत्ययः वर्तमानसूत्रेण विधीयते । कानिचन उदाहरणानि एतानि - 1. ब्राह्मणः जातिः यस्य सः = ब्राह्मण + जाति + छ [वर्तमानसूत्रेण स्वार्थे छ-प्रत्ययः] → ब्राह्मण + जाति + ईय [आयनेयीनीयः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ईय-प्रत्ययः] → ब्राह्मणजात् + ईय [यस्येति च (6.4.148) इति इकारलोपः] → ब्राह्मणजातीय एवमेव - 2. क्षत्रियः जातिः यस्य सः क्षत्रियजातीयः । 3. वैश्यः जातिः यस्य सः वैश्यजातीयः । अत्र एकः विशेषः स्मर्तव्यः - यद्यपि इदम् सूत्रम् समर्थानाम् प्रथमात् वा (4.1.82) इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, तथापि भाष्यकारस्य मतेन अत्र विकल्पः न विधीयते । इत्युक्ते, अत्र निर्दिष्टाः ‘ब्राह्मणजाति’, ‘क्षत्रियजाति’ एतादृशाः शब्दाः तादृशाः एव नैव प्रयुज्यन्ते, अपितु समासप्रक्रियायाम् तेभ्यः छ-प्रत्ययः नित्यम् भवति । अतएव उपरिनिर्दिष्टे सूत्रार्थे ‘नित्य’ इति शब्दः प्रयुक्तः अस्ति । ज्ञातव्यम् - ‘ब्राह्मणजाति’, ‘क्षत्रियजाति’ एतादृशाः शब्दाः जातेः निर्देशार्थम् तु तादृशाः एव प्रयुज्यन्ते । यथा - शोभना ब्राह्मणजातिः (The brahmin cast is glorious ) । परन्तु अस्मिन् अर्थे अस्मात् शब्दात् छ-प्रत्ययः न भवति । एतत् स्पष्टीकर्तुमेव अस्मिन् सूत्रे ‘बन्धु’ इति उच्यते ।

Vasu English Summary

The affix छ (ईय) is added without a change of sense to a stem ending in the word जाति when it means appropriateness.

Vasu English Translation

The affix छ (ईय) is added without a change of sense to a stem ending in the word जाति when it means appropriateness. The word बन्धु means the substance or substratum in which jati or generic quality adheres or any thing by which a thing is regulated and individualised (बध्यते नियम्यते स्वतन्त्री क्रियते). Thus बन्धु means that substance by which the genus Brahmana, Kshatriya &c is distinguished. Thus ब्राह्मणजातीयः “appropriate to a Brahmana”. क्षत्रियजातीयः, वैश्यजातीयः &c.

Why do we say “when meaning appropriateness”. Observe ब्राह्मणजातिः शोभना “the Brahmana caste is beautiful”.

Kashika

जात्यन्तात् प्रातिपदिकाद् बन्धुनि वर्तमानात् स्वार्थे छः प्रत्ययो भवति। बध्यतेऽस्मिन् जातिरिति बन्धुशब्देन द्रव्यमुच्यते। येन ब्राह्मणत्वादिजातिर्व्यज्यते तद् बन्धु द्रव्यम्। ब्राह्मणजातीयः, क्षत्रियजातीयः, वैश्यजातीय इति ब्राह्मणादिरेवोच्यते। बन्धुनीति किम्? ब्राह्मणजातिः शोभना॥

Siddhanta Kaumudi

ब्राह्मणजातीयः । बन्धुनि किम् । ब्राह्मणजातिः शोभना । जातेर्व्यञ्जकं द्रव्यं बन्धु ॥

Balamanorama

जात्यन्ताच्छ बन्धुनि - जात्यन्ताच्छ बन्धुनि । छेति लुप्तप्रथमाकम् । जातिशब्दान्तात्प्रातिपदिकाद्बन्धुनि वर्तमानात्स्वार्थे छप्रत्ययः स्यादित्यर्थः । बन्धुशब्दो द्रव्यवाचीति वक्ष्यति । तथाच बन्धुनि वर्तमानादित्यनेन जात्याश्रयद्रव्यलक्षकादिति फलितम् । ब्राआहृणजातीय इति । ब्राआहृणत्वजात्याश्रयो व्यक्तिविशेष इत्यर्थः । ब्राआहृणजातिः शोभनेति । ब्राआहृणत्वजातिरित्यर्थः । बद्यते ब्राआहृणत्वादिजातिव्र्यज्यतेऽस्मिन्निति बन्धु=द्रव्यम् ।शृस्वृस्निही॑त्यादिनाऽधिकरणे उप्रत्ययः । तदाह — जातेव्र्यञ्जकं द्रव्यं बन्ध्विति । आप्तपर्यायस्तु बन्धुशब्दो नेह गृह्रते,बन्धुनी॑ति नपुंसकनिर्देशादिति भावः ।

Tattvabodhini

जात्यन्ताच्छ बन्धुनि - ब्राआहृणजातीय इति । द्व्येकयोरितिवद्भावप्रधानो ब्राआहृणशब्दः, तस्य जातिशब्देन सह बहुव्रीहिः । ब्राआहृणत्वजात्याधारभूतः पिण्ड इत्यर्थः । ब्राआहृणजातीरिति । षष्ठीतत्पुरुषः । भावप्रधानेन सह कर्मधारयो वा । जातेव्र्यञ्जकमिति । बद्यते जातिरस्मिन्निति बन्धु[#ः] ।शृस्वृस्निहि॑इत्यादिना अधिकरणे उप्रत्ययः । रूढोऽपि बन्धुशब्दाअप्चपर्यायः पुंलिङ्गोऽस्ति, तथापि स नेह गृह्रते,बन्धुनी॑ति नपुंसकनिर्देषादिति भावः ।सस्थानेने॑त्यस्यैव व्याख्यानं -तुल्येनेति ।

Padamanjari

जात्यन्तात्प्रातिपदिकाद् बन्धुनि वर्तमानात्स्वार्थे च्छः प्रत्ययो यस्य बन्धुशब्दस्येति दर्शयति। एतच्च नपुंसकनिर्द्देशादवसीयते, आप्तपर्यायस्तु पुंल्लिङ्गः। येन ब्राह्मणत्वादिजातिर्व्यज्यत इति। व्यक्त्यधीना हि जातरभिव्यक्तिः, न हि स्वातन्त्र्येण जातुचिज्जातिरुपलभ्यते। एतदेवाभिप्रेत्य - बध्यतेऽस्मिन्निति बन्धिवत्युक्तम्। ब्राह्मणजातीय इति। भावप्रधानोऽत्र ब्राह्मणशब्दः,’द्व्योकयोः’ इतिवत्, तेन बहुव्रीहिः। ब्राह्मणादिरेवोच्यते इति। ब्राह्मणत्वजात्याधारो द्रव्यात्मकः पिण्ड उच्यय इत्यर्थः। ब्राह्मणजातिरिति। षष्ठीसमासः, कर्मधारयो वा ॥

Prakriyasarvasvam

बन्धु द्रव्यं, व्यक्तिरित्यर्थः । तस्मिन् वाच्ये जात्यन्ताच्छः । विप्रो जातिरस्येति विप्रजातीयोऽयम् । समानजाताविति भाष्यप्रयोगात् क्वचिन्न । जातिमात्रे तु विप्रजातिर्नित्येत्येव ॥