54009: जात्यन्ताच्छ बन्धुनि =========================== **Padacheda:** जात्यन्तात् | S | 5 | 1 | छ | S | | | 1 बन्धुनि | S | 7 | 1 | Sutrartha --------- **'जाति' इति शब्दः यस्य अन्ते अस्ति, तथा च 'बन्धु' इत्यस्मिन् अर्थे यः शब्दः प्रयुज्यते, तस्मात् स्वार्थे नित्यं छ-प्रत्ययः भवति ।** यस्य शब्दस्य अन्ते 'जाति' इति विद्यते, (यथा -'ब्राह्मणजाति', 'क्षत्रियजाति', 'वैश्यजाति' आदयः) तादृशः शब्दः यदि तस्याः जातेः बन्धुनः (members of the cast) निर्देशं करोति, तर्हि तस्मात् स्वार्थे 'छ' प्रत्ययः भवति । किम् नाम बन्धु ? व्याख्यानेषु उच्यते - *बध्यते अस्मिन् जातिः इति बन्धुशब्देन द्रव्यमुच्यते । येन ब्राह्मणत्वादिजातिः व्यज्यते तत् बन्धु द्रव्यम्* । सामान्यभाषायाम्, जातौ विद्यमानः मासपिण्डादिः कश्चनः मनुष्यः येन सा जातिः व्यक्ता भवति 'बन्धु' / 'द्रव्यम्' इति नाम्ना ज्ञायते । A 'जाति' is just a theoretical concept, which can become practical only when some people who belong to that jati are shown explicitly. Such people are called बन्धु / द्रव्य of that जाति । एतादृशानाम् बन्धूनाम् निर्देशार्थम् जात्यन्तात् शब्दात् स्वार्थे 'छ' इति प्रत्ययः वर्तमानसूत्रेण विधीयते । कानिचन उदाहरणानि एतानि - 1. ब्राह्मणः जातिः यस्य सः = ब्राह्मण + जाति + छ [वर्तमानसूत्रेण स्वार्थे छ-प्रत्ययः] → ब्राह्मण + जाति + ईय [**आयनेयीनीयः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति ईय-प्रत्ययः] → ब्राह्मणजात् + ईय [**यस्येति च** (6.4.148) इति इकारलोपः] → ब्राह्मणजातीय एवमेव - 2. क्षत्रियः जातिः यस्य सः क्षत्रियजातीयः । 3. वैश्यः जातिः यस्य सः वैश्यजातीयः । अत्र एकः विशेषः स्मर्तव्यः - यद्यपि इदम् सूत्रम् **समर्थानाम् प्रथमात् वा** (4.1.82) इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, तथापि भाष्यकारस्य मतेन अत्र विकल्पः न विधीयते । इत्युक्ते, अत्र निर्दिष्टाः 'ब्राह्मणजाति', 'क्षत्रियजाति' एतादृशाः शब्दाः तादृशाः एव नैव प्रयुज्यन्ते, अपितु समासप्रक्रियायाम् तेभ्यः छ-प्रत्ययः नित्यम् भवति । अतएव उपरिनिर्दिष्टे सूत्रार्थे 'नित्य' इति शब्दः प्रयुक्तः अस्ति । ज्ञातव्यम् - 'ब्राह्मणजाति', 'क्षत्रियजाति' एतादृशाः शब्दाः जातेः निर्देशार्थम् तु तादृशाः एव प्रयुज्यन्ते । यथा - शोभना ब्राह्मणजातिः (The brahmin cast is glorious ) । परन्तु अस्मिन् अर्थे अस्मात् शब्दात् छ-प्रत्ययः न भवति । एतत् स्पष्टीकर्तुमेव अस्मिन् सूत्रे 'बन्धु' इति उच्यते । Vasu English Summary -------------------- The affix छ (ईय) is added without a change of sense to a stem ending in the word जाति when it means appropriateness. Vasu English Translation ------------------------ The affix छ (ईय) is added without a change of sense to a stem ending in the word जाति when it means appropriateness. The word बन्धु means the substance or substratum in which *jati* or generic quality adheres or any thing by which a thing is regulated and individualised (बध्यते नियम्यते स्वतन्त्री क्रियते). Thus बन्धु means that substance by which the genus *Brahmana*, *Kshatriya* &c is distinguished. Thus ब्राह्मणजातीयः "appropriate to a *Brahmana*". क्षत्रियजातीयः, वैश्यजातीयः &c. Why do we say "when meaning appropriateness". Observe ब्राह्मणजातिः शोभना "the *Brahmana* caste is beautiful". Kashika ------- जात्यन्तात् प्रातिपदिकाद् बन्धुनि वर्तमानात् स्वार्थे छः प्रत्ययो भवति। बध्यतेऽस्मिन् जातिरिति बन्धुशब्देन द्रव्यमुच्यते। येन ब्राह्मणत्वादिजातिर्व्यज्यते तद् बन्धु द्रव्यम्। ब्राह्मणजातीयः, क्षत्रियजातीयः, वैश्यजातीय इति ब्राह्मणादिरेवोच्यते। बन्धुनीति किम्? ब्राह्मणजातिः शोभना॥ Siddhanta Kaumudi ----------------- ब्राह्मणजातीयः । बन्धुनि किम् । ब्राह्मणजातिः शोभना । जातेर्व्यञ्जकं द्रव्यं बन्धु ॥ Balamanorama ------------ **जात्यन्ताच्छ बन्धुनि** - जात्यन्ताच्छ बन्धुनि । छेति लुप्तप्रथमाकम् । जातिशब्दान्तात्प्रातिपदिकाद्बन्धुनि वर्तमानात्स्वार्थे छप्रत्ययः स्यादित्यर्थः । बन्धुशब्दो द्रव्यवाचीति वक्ष्यति । तथाच बन्धुनि वर्तमानादित्यनेन जात्याश्रयद्रव्यलक्षकादिति फलितम् । ब्राआहृणजातीय इति । ब्राआहृणत्वजात्याश्रयो व्यक्तिविशेष इत्यर्थः । ब्राआहृणजातिः शोभनेति । ब्राआहृणत्वजातिरित्यर्थः । बद्यते ब्राआहृणत्वादिजातिव्र्यज्यतेऽस्मिन्निति बन्धु=द्रव्यम् ।शृस्वृस्निही॑त्यादिनाऽधिकरणे उप्रत्ययः । तदाह — जातेव्र्यञ्जकं द्रव्यं बन्ध्विति । आप्तपर्यायस्तु बन्धुशब्दो नेह गृह्रते,बन्धुनी॑ति नपुंसकनिर्देशादिति भावः । Tattvabodhini ------------- **जात्यन्ताच्छ बन्धुनि** - ब्राआहृणजातीय इति । द्व्येकयोरितिवद्भावप्रधानो ब्राआहृणशब्दः, तस्य जातिशब्देन सह बहुव्रीहिः । ब्राआहृणत्वजात्याधारभूतः पिण्ड इत्यर्थः । ब्राआहृणजातीरिति । षष्ठीतत्पुरुषः । भावप्रधानेन सह कर्मधारयो वा । जातेव्र्यञ्जकमिति । बद्यते जातिरस्मिन्निति बन्धु[#ः] ।शृस्वृस्निहि॑इत्यादिना अधिकरणे उप्रत्ययः । रूढोऽपि बन्धुशब्दाअप्चपर्यायः पुंलिङ्गोऽस्ति, तथापि स नेह गृह्रते,बन्धुनी॑ति नपुंसकनिर्देषादिति भावः ।सस्थानेने॑त्यस्यैव व्याख्यानं -तुल्येनेति । Padamanjari ----------- जात्यन्तात्प्रातिपदिकाद् बन्धुनि वर्तमानात्स्वार्थे च्छः प्रत्ययो यस्य बन्धुशब्दस्येति दर्शयति। एतच्च नपुंसकनिर्द्देशादवसीयते, आप्तपर्यायस्तु पुंल्लिङ्गः। येन ब्राह्मणत्वादिजातिर्व्यज्यत इति। व्यक्त्यधीना हि जातरभिव्यक्तिः, न हि स्वातन्त्र्येण जातुचिज्जातिरुपलभ्यते। एतदेवाभिप्रेत्य - बध्यतेऽस्मिन्निति बन्धिवत्युक्तम्। ब्राह्मणजातीय इति। भावप्रधानोऽत्र ब्राह्मणशब्दः,'द्व्योकयोः' इतिवत्, तेन बहुव्रीहिः। ब्राह्मणादिरेवोच्यते इति। ब्राह्मणत्वजात्याधारो द्रव्यात्मकः पिण्ड उच्यय इत्यर्थः। ब्राह्मणजातिरिति। षष्ठीसमासः, कर्मधारयो वा ॥ Prakriyasarvasvam ----------------- बन्धु द्रव्यं, व्यक्तिरित्यर्थः । तस्मिन् वाच्ये जात्यन्ताच्छः । विप्रो जातिरस्येति विप्रजातीयोऽयम् । समानजाताविति भाष्यप्रयोगात् क्वचिन्न । जातिमात्रे तु विप्रजातिर्नित्येत्येव ॥