54010: स्थानान्ताद्विभाषा सस्थानेनेति चेत्¶
Padacheda: स्थानान्तात् | S | 5 | 1 |
विभाषा | S | 1 | 1 |
सस्थानेन | S | 3 | 1 |
इति | S | 0 | 0 |
चेत् | S | 0 | 0 |
Sutrartha¶
यस्य शब्दस्य अन्ते ‘स्थान’ इति विद्यते, तस्मात् ‘सस्थानेन तुल्यमस्ति चेत्’ अस्मिन् अर्थे छ-प्रत्ययः विकल्पेन भवति ।
यस्य शब्दस्य अन्ते ‘स्थान’ इति विद्यते (यथा, ‘पितृस्थान’, ‘मातृस्थान’, ‘गुरुस्थान’ आदयः) तस्मात् शब्दात् ‘सस्थानेन तुल्यमस्ति चेत्’ (= समानम् स्थानमस्ति चेत्, equivalent in position to) अस्मिन् सन्दर्भे स्वार्थे ‘छ’-प्रत्ययः विकल्पेन विधीयते । उदाहरणानि एतानि - 1. पितृस्थानम् इव स्थानम् यस्य [<!सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यो वा चोत्तरपदलोपः!> अनेन वार्त्तिकेन उत्तरपदलोपबहुव्रीहिः समासः ] = पितृस्थान + छ [वर्तमानसूत्रेण छ-प्रत्ययः] → पितृस्थान + ईय [आयनेयीनीयीयः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ईय्-आदेशः] → पितृस्थान् + ईय [यस्येति च (6.4.148) इति अकारलोपः] → पितृस्थानीयः अयम् छ-प्रत्ययः विकल्पेन भवति, अतः ‘पित्रा तुल्यः = पितृस्थानः’ इति अपि साधु प्रयोगः । एवमेव - 2. मातृस्थानम् इव स्थानम् यस्य मातृस्थानीया मातृस्थाना वा । 3. गुरुस्थानम् इव स्थानम् यस्य गुरुस्थानीयः गुरुस्थानः वा । 4. राजस्थानम् इव स्थानम् यस्य राजस्थानीयः राजस्थानः वा । ज्ञातव्यम् - 1. यत्र ‘सस्थानस्य’ निर्देशः न विद्यते, तत्र वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - ‘अश्वस्य स्थानमश्वस्थानम्’ (location / place of horse) अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति । 2. अस्मिन् सूत्रे निर्दिष्टः ‘इति’ अयम् शब्दः ‘सस्थान’ शब्दस्य अर्थम् स्पष्टीकरोति । वस्तुतः तु ‘सस्थान’ शब्दस्य अर्थद्वयम् विद्यते - अ) ‘समानस्य स्थानम्’ इति तत्पुरुषसमासः । The position of someone who is equivalent - इति आशयः । आ) ‘समानम् स्थानम् यस्य सः’ इति बहुव्रीहिसमासः । The person whose position is equivalent - इति आशयः । एताभ्याम् केवलम् बहुव्रीहिसमासेन निर्मितः ‘सस्थान’ शब्दः एव वर्तमानसूत्रस्य सन्दर्भे प्रयोक्तव्यः - एतत् स्पष्टीकर्तुमत्र ‘इति’ शब्द’ स्वीक्रियते । अतः ‘पित्रा तुल्यम् स्थानम्’ इति निर्देशार्थम् वर्तमानसूत्रस्य प्रयोगः न भवति । 3. अस्मिन् सूत्रे प्रयुक्तः ‘चेत्’ इति शब्दः ‘सम्बन्धम्’ दर्शयति । इत्युक्ते, ‘पितृस्थान’ शब्दस्य मूलः सम्बन्धः पित्रा सह अस्ति, न हि स्थानेन सह - इति अनेन शब्देन स्पष्टीभवति । 4. वस्तुतः विभाषा अञ्चेरदिक्स्त्रियाम् (5.4.8) इत्यस्मिन् सूत्रे अपि ‘विभाषा’ शब्दः विद्यते एव । परन्तु वर्तमानसूत्रे अयम् शब्दः पुनः स्वीकृतः अस्ति । अस्य स्पष्टीकरणार्थम् काशिकाकारः वदति - द्व्योः विभाषयोः नित्याः विधयः इति पूर्वत्र नित्यविधयः। । इत्युक्ते, द्वयोः सूत्रयोः मध्ये विद्यमानेन जात्यन्नाच्छ बन्धुनि (5.4.9) अनेन सूत्रेण नित्यमेव प्रत्ययविधानम् क्रियते, न हि विकल्पेन - इति स्पष्टीकर्तुम् एव अत्र पुनः ‘विभाषा’ शब्दः स्वीकृतः अस्ति । स्मर्तव्यम् - वस्तुतः इदम् सूत्रम् समर्थानां प्रथमात् वा (4.1.82) इत्यत्र निर्दिष्टायाः महाविभाषायाः अधिकारे एव पाठ्यते । परन्तु तथापि अस्मिन् सूत्रे ‘विभाषा’ इति निर्दिष्टमस्ति । अस्य स्पष्टीकरणार्थम् व्याख्यानेषु उच्यते - विभाषाग्रहणात् केचन स्वार्थिका नित्याः प्रत्ययाः स्मर्यन्ते । इत्युक्ते, अत्र विभाषाग्रहणेन एतत् स्पष्टीभवति यत् स्वार्थिकप्रकरणे केचन प्रत्ययाः नित्यमेव कर्तव्या, न हि विकल्पेन । अतएव अग्रे प्रत्येकस्मिन् सूत्रे ‘प्रत्ययविधानम् नित्यम् भवति उत विकल्पेन’ तत् स्पष्टरूपेण निर्दिष्टमस्ति ।
Vasu English Summary¶
The affix छ (ईय) is optionally added to a stem ending in स्थान if it is compounded with something with which another is made to take an equal place.
Vasu English Translation¶
The affix छ (ईय) is optionally added to a stem ending in स्थान if it is compounded with something with which another is made to take an equal place. The word सस्थान means समानं स्थानमस्य ‘whose place is the same” or तुल्य or equal. Thus पित्रा तुल्यः = पितृस्थानीयः or पितृस्थानः (पितुरिव स्थानमस्य whose place is that of a father). Similarly मातृस्थानीयः or मातृस्थानः, राजस्थानीयः or राजस्थानः ॥
Why do we say “when it means equal to”. Observe गोस्थानम् “cow-shed” अश्वस्थानम् “stable”. The word इति in सस्थानेनेति is for the sake of distinctness. The word सस्थान as a Bahuvrihi compound is the appropriate word to be taken here, and not when it is taken as a Tatpurusha compound like समानं च तत् स्थानं च ॥ The word चेत् “when”, is a conjunction : and joins the two meanings.
The rule (5.3.9) occurring between this rule and 8th rule, both of which are optional, must be taken to be a nitya rule, as explained above. द्वयोर्विभाषयोर्नित्या विधयः ॥
Kashika¶
स्थानान्तात् प्रातिपदिकाद् विभाषा छः प्रत्ययो भवति, सस्थानेन चेत् स्थानान्तमर्थवद् भवति। सस्थान इति तुल्य उच्यते, समानं स्थानमस्येति कृत्वा। पित्रा तुल्यः पितृस्थानीयः, पितृस्थानः। मातृस्थानीयः, मातृस्थानः। राजस्थानीयः, राजस्थानः। सस्थानेनेति किम् ? गोस्थानम्। अश्वस्थानम्। इतिकरणो विवक्षार्थः। तेन बहुव्रीहिः सस्थानशब्दार्थमुपस्थापयति, न तत्पुरुषः। चेच्छब्दः संबन्धार्थः। द्वयोर्विभाषयोर्मध्ये नित्या विधय इति पूर्वत्र नित्यः प्रत्ययः॥
Siddhanta Kaumudi¶
सस्थानेन तुल्येन चेत् स्थानान्तमर्थवदित्यर्थः । पितृस्थानीयः । पितृस्थानः । सस्थानेन किम् । गोः स्थानम् ॥
Balamanorama¶
स्थानान्ताद्विभाषा सस्थानेनेति चेत् - स्थानान्तात् ।संस्थानेने॑त्यस्य विवरणंतुल्येनेति । इतिशब्दादर्थवदिति लभ्यते । तुल्यरूपेणाऽर्थेन यदि स्थानान्तं शब्दस्वरूपमर्थवद्भवति, तदा स्थानान्ताच्छो वा स्यादित्यर्थः । तुल्यरूपार्थे वर्तमानात्स्थानान्ताच्छोवा स्यादिति यावत् । पितृस्थानीय इति । स्थानं-पूज्यत्वादिपदम् । पितृस्थानमिव स्थानं यस्येति बहुव्रीहिः । पितृनिष्ठपूज्यत्वादितुल्यपूज्यत्वादिमानित्यर्थः । गोस्थानमिति । गवां निवास इत्यर्थः । अत्र तुल्यत्वाऽप्रतीतेर्न च्छः ।किमेत्तिङव्यये॑त्युत्तरसूत्रं प्रसङ्गात्पूर्वमेव व्याख्यातम् ।अमु च च्छन्दसी॑ति तु वैदिकप्रक्रियायां व्याख्यास्यते ।
Tattvabodhini¶
स्थानान्ताद्विभाषा सस्थानेनेति चेत् - पितृस्थानीय इति । स्थानमात्र संबन्धविशेषः, पदमिति यस्य प्रसिद्धिः । पितुरिव स्थानमस्य पितृस्थानः । पितृतुल्य इत्यर्थः ।गो[#ः]स्थानमिति । तिष्ठन्त्यस्मिन्निति स्थानं देशः । इति । करणं विवक्षार्थम् । तेन तत्पुरुषो बहुव्रीहिर्वा यस्तुल्यस्थानशब्दस्तस्माच्छो न भवति ।
Padamanjari¶
सस्थानेन चेदिति। करणे एषा तृतीया, सस्थानेन सस्थानशब्दवाच्येनार्थेन तुल्यपर्यायेण स्थानान्तं यद्यर्थवद्भवति, एवं प्रत्ययो भति, नान्यतेत्यर्थ। सस्थान इति तुल्य उच्यत इति। स्तानत इति शेषः। स्थानमुप्राप्तिः, सम्बन्धविशेषः, पदमिति यस्य प्रसिद्धैः। कथं पुनः सस्थानशब्देन तुल्य उच्यते? इत्याह - सामानं स्थानमस्येति। यस्य समानं स्थानं स सस्थान इत्युच्यते यश्चैवंविधः स यदपक्षया तस्य समानं स्थानं तेन तुल्यो भवति, तत्र शब्दभेदेऽपि ????तुवृतेन सस्थानशब्दस्य तुल्यो वाच्यो भवति। सभावः पुनरत्र’ज्योतिर्जनपद’ इत्यादि सूत्रेण। पितृस्तानीय इति। पितुरिव स्थानमस्येति बहुव्रीहिः। गोस्थानमिति। तिष्ठत्यस्मिन्नति स्थानं देशः न तु तत्पुरुष इति। समानं च तत्स्थानं चेत्येवंरूपस्तत्पुरुषः। स्थानशब्दो नार्थमुपस्थापयति। यद्यौपस्थापयेत्, तुल्यं च तत्स्थानं च तुल्यस्थानमित्यादेः कर्मधारयादपि प्रत्ययः स्यात्। अथ बहुव्रीहेस्तुल्यस्थानशब्दात्सस्थानशब्दाद्वाऽयं प्रत्ययः करमान्न भवति? कः पुनराहः-न भवतीति! नेष्यते इति करणादेव तु न भविष्यति। चेच्छब्दः सम्बन्धार्थ इति। चेच्छब्दे सति विभक्तिविपरिणानेनैध्याहरेण वा वाक्यपर्यसानेन च सम्बन्धो भवति। असति तु तस्मिन्पञ्चम्यन्तेन तृतीयान्तस्य सम्बन्धोऽनुपपन्नः स्यात् ॥
Nyaas¶
सस्थानेन इति। करणे तृतीया। स्थानेन स्थानवाच्येनार्थेन तुल्यपर्यायेण स्थानान्तं यद्यर्थवद्भवत्येवं प्रत्ययो भवति, नान्यथा। कथं पुनः स्थानशब्देन तुल्यत्वमुच्यते? इत्याह - समानम् इत्यादि। यस्य समानं स्थानं स सस्थान इत्युच्यते। यश्चैवंविधं स यदपेक्षं तस्य समानं स्थानं स तेन तुल्यो भवतीति। पितृस्थानीयः इति। पितृस्थानमिव स्थानं यस्येति सप्तम्युपमान (वा। 99) इत्यादिनोत्तरपदलोपो बहुव्रीहिः। गोस्थानम इति। षष्ठीतत्पुरुषोऽयम्। भवति ह्रेतत्? स्थानान्तं प्रातिपदिकम्, न तु स्थानेन तुल्यार्थेनार्थक्तः। यथा स्थानान्तात्? प्रत्ययो भवति, तथा तत्पुरुषेणापि स्वस्थानशब्देनार्थ उपस्थापिते तेनार्थेनार्थवतः स्थानात्? प्रत्ययेन भवितव्यम्; विशेषानुपादानात्। ततश्च तुल्यञ्च तत् स्तानान्तं प्रतिपदिकं स्थानवाच्येनार्थेनार्थवदितियश्चोदयेत्? तं प्रत्याह - इतिकरणो विवक्षार्थः इति। इतिकरणो ह्यत्र विवक्षार्थः क्रियते, तेनायमर्थो लभ्यतेततश्चेद्विवक्षा भवतीति। बहुव्रीह्रर्थेनार्थवतः स्थानात्? प्रत्ययोत्पत्तौ लोकस्य विवक्षा भवति, न तत्पुरुषार्थेनार्थवतः। तस्मात्? स्थानान्तस्यार्थमुत्पादयितुं बहुव्रीहिरेव स्थानशब्दार्थमुत्पादयति; न तु तत्पुरुषः। तेन न भवत्यतिप्रसङ्गः। चच्छब्दः स्मबन्धार्थः इति। स्थानान्तस्य सस्थानसम्बन्धो यथा स्यादित्येवमर्थं चेच्छब्दः; अन्यथा प्रत्ययं प्रति पञ्चस्या स्थानान्तस्य निर्देशात्? स्थानान्तस्य सस्थानेन सम्बन्धो न स्यात्। न हि पञ्चम्यन्तेन तस्य सम्बन्धः शक्यते कर्त्तुम्। चेच्छब्दे तु स चेत्? स्थानेनार्थवद्वतीत्युपपद्यते, न तु सम्बन्धः। द्वयोर्विभाषयोर्मध्ये नित्यविधयः इति। यदि नित्या न स्युः, पूर्वैव विभाषोत्तरत्रानुवर्त्तिष्यत इत्युत्तरं विभाषाग्रहणमनर्थकं स्यात्॥
Prakriyasarvasvam¶
<karika>समानस्थानवचनात् स्थानान्ताद्वा छ इश्यते । मत्स्थानीयश्च मत्स्थानो मत्तुत्यस्थान उच्यते ॥ ३६४ ॥</karika> स्थानान्तं सस्थानेनार्थवदिति चेदित्यन्वयः ॥