54006: बृहत्या आच्छादने

Padacheda: बृहत्याः | S | 5 | 1 |

आच्छादने | S | 7 | 1 |

Sutrartha

‘बृहती’ शब्दात् आच्छादनस्य निर्देशार्थम् कन्-प्रत्ययः स्वार्थे विधीयते ।

‘बृहती’ इति स्त्रीणाम् किञ्चन वस्त्रम् (shawl / stole) । आच्छादनरूपेण प्रयुक्ता या बृहती, तस्याः निर्देशार्थम् बृहतीशब्दात् स्वार्थे कन् प्रत्ययः भवति । आच्छादने प्रयुक्ता बृहती सा एव = बृहतिका । केऽणः (7.4.13) इत्यनेन ह्रस्वादेशं कृत्वा शब्दः सिद्ध्यति । बृहतिका इत्युक्ते प्रावारः (‘ओढनी’ इति हिन्दीभाषायाम्) । विशेषः - 1. अस्मिन् सूत्रे ‘आच्छादनम्’ इति उच्यते, अतः ‘बृहती छन्दः’ इत्यस्य विषये अस्य सूत्रस्य प्रयोगः न भवति । 2. यद्यपि इदम् सूत्रम् समर्थानाम् प्रथमात् वा (4.1.82) इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, तथापि भाष्यकारस्य मतेन अत्र विकल्पः न विधीयते । इत्युक्ते, आच्छादने प्रयुक्ता या बृहती, तस्याः निर्देशः बृहतिका इत्यनेनैव क्रियते, न हि ‘बृहती’ इत्यनेन । (अस्मिन् विषये अधिकम् जिज्ञासवः अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात् खः (5.4.7) इत्यस्य व्याख्यानम् पश्येयुः ।)

Vasu English Summary

The affix कन् comes after the word बृहति when it means ‘an article of dress’.

Vasu English Translation

The affix कन् comes after the word बृहति when it means ‘an article of dress’. The word कन् is to be read into this sutra and not its prohibition. The force of this कन् is nil, or it is an example of स्वार्थे कन् ॥ Thus बृहती + कन् = बृहतिका (प्रावारः) (7.4.13) (by which long vowel is shortened) “an upper garment or mantle”.

Why do we say “when it means dress”? Observe बृहती छन्दः “the metre called Brihati”.

Kashika

कन्ननुवर्तते, न प्रतिषेधः। बृहतीशब्दादाच्छादने वर्तमानात् स्वार्थे कन् प्रत्ययो भवति। बृहतिका। आच्छादन इति किम् ? बृहती छन्दः॥

Siddhanta Kaumudi

कन् स्यात् । द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा ॥ आच्छादने किम् । बृहती छन्दः ॥

Balamanorama

बृहत्या आच्छादने - वृहत्या आच्छादने । ‘कन्’ इति शेषः । बृहत्येव बृहतिका=उत्तरीयं वासः । तदाह — द्वौ प्रावार इति । अमरवाक्यमिदम् । अषडक्षा । स्वार्थे इति । शेषपूरणमिदम् । अषडक्ष, आशितङ्गु, अलङ्कर्मन्, अलम्पुरुष एभ्योऽध्युत्तरपदाच्च स्वार्थे खः स्यादित्यर्थः ।

Padamanjari

बृहतिकाउप्रावारः ॥

Nyaas

कन्ननुवर्तते इति। स्वरितत्वात्। न प्रतिषेधः इति। विपर्ययात्। बृहतिका इति। केऽणः` (7.4.13) इति ह्रस्वः॥

Prakriyasarvasvam

कन् स्यात् । ‘केऽणः’ (७-४-१३) । बृहतिकेति प्रावरणनाम ॥