54006: बृहत्या आच्छादने ======================= **Padacheda:** बृहत्याः | S | 5 | 1 | आच्छादने | S | 7 | 1 | Sutrartha --------- **'बृहती' शब्दात् आच्छादनस्य निर्देशार्थम् कन्-प्रत्ययः स्वार्थे विधीयते ।** 'बृहती' इति स्त्रीणाम् किञ्चन वस्त्रम् (shawl / stole) । आच्छादनरूपेण प्रयुक्ता या बृहती, तस्याः निर्देशार्थम् बृहतीशब्दात् स्वार्थे कन् प्रत्ययः भवति । आच्छादने प्रयुक्ता बृहती सा एव = बृहतिका । **केऽणः** (7.4.13) इत्यनेन ह्रस्वादेशं कृत्वा शब्दः सिद्ध्यति । बृहतिका इत्युक्ते प्रावारः ('ओढनी' इति हिन्दीभाषायाम्) । विशेषः - 1. अस्मिन् सूत्रे 'आच्छादनम्' इति उच्यते, अतः 'बृहती छन्दः' इत्यस्य विषये अस्य सूत्रस्य प्रयोगः न भवति । 2. यद्यपि इदम् सूत्रम् **समर्थानाम् प्रथमात् वा** (4.1.82) इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, तथापि भाष्यकारस्य मतेन अत्र विकल्पः न विधीयते । इत्युक्ते, आच्छादने प्रयुक्ता या बृहती, तस्याः निर्देशः बृहतिका इत्यनेनैव क्रियते, न हि 'बृहती' इत्यनेन । (अस्मिन् विषये अधिकम् जिज्ञासवः **अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात् खः** (5.4.7) इत्यस्य व्याख्यानम् पश्येयुः ।) Vasu English Summary -------------------- The affix कन् comes after the word बृहति when it means 'an article of dress'. Vasu English Translation ------------------------ The affix कन् comes after the word बृहति when it means 'an article of dress'. The word कन् is to be read into this *sutra* and not its prohibition. The force of this कन् is nil, or it is an example of स्वार्थे कन् ॥ Thus बृहती + कन् = बृहतिका (प्रावारः) (7.4.13) (by which long vowel is shortened) "an upper garment or mantle". Why do we say "when it means dress"? Observe बृहती छन्दः "the metre called *Brihati*". Kashika ------- कन्ननुवर्तते, न प्रतिषेधः। बृहतीशब्दादाच्छादने वर्तमानात् स्वार्थे कन् प्रत्ययो भवति। बृहतिका। आच्छादन इति किम् ? बृहती छन्दः॥ Siddhanta Kaumudi ----------------- कन् स्यात् । द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा ॥ आच्छादने किम् । बृहती छन्दः ॥ Balamanorama ------------ **बृहत्या आच्छादने** - वृहत्या आच्छादने । 'कन्' इति शेषः । बृहत्येव बृहतिका=उत्तरीयं वासः । तदाह — द्वौ प्रावार इति । अमरवाक्यमिदम् । अषडक्षा । स्वार्थे इति । शेषपूरणमिदम् । अषडक्ष, आशितङ्गु, अलङ्कर्मन्, अलम्पुरुष एभ्योऽध्युत्तरपदाच्च स्वार्थे खः स्यादित्यर्थः । Padamanjari ----------- बृहतिकाउप्रावारः ॥ Nyaas ----- `कन्ननुवर्तते` इति। स्वरितत्वात्। `न प्रतिषेधः` इति। विपर्ययात्। `बृहतिका` इति। केऽणः` (7.4.13) इति ह्रस्वः॥ Prakriyasarvasvam ----------------- कन् स्यात् । 'केऽणः' (७-४-१३) । बृहतिकेति प्रावरणनाम ॥