54007: अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात् खः¶
Padacheda: अषडक्ष-आशितङ्गु-अलंकर्म-अलम्पुरुष-अध्युत्तरपदात् | S | 5 | 1 |
खः | S | 1 | 1 |
Sutrartha¶
‘अषडक्ष’, ‘आशितङ्गु’, ‘अलङ्कर्म’, ‘अलम्पुरुषः’ एतेभ्यः शब्देभ्यः, तथा च ‘अधि’ यस्य उत्तरपदमस्ति तादृशात् शब्दात् स्वार्थे ख-प्रत्ययः भवति ।
अनेन सूत्रेण भिन्नेभ्यः शब्देभ्यः स्वार्थे ख-प्रत्ययः उच्यते । क्रमेण पश्यामः - 1. ‘अषडक्ष’ = ‘अविद्यमानानि षट् अक्षीणि यस्मिन्’ (One that does not relate to six eyes)) इत्यस्मिन् अर्थे बहुव्रीहि-समासे कृते तस्मात् वर्तमानसूत्रेण ‘ख’ प्रत्ययः प्रयुज्यते, येन ‘अषडक्षीण’ इति शब्दः सिद्ध्यति । प्रक्रिया इयम् - अविद्यमानानि षडक्षीणि यस्मिन् → अषडक्षि + षच् [बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् (5.4.113) इति षच्] → अषडक्ष् + अ [यस्येति च (6.4.148) इति अकारलोपः] → अषडक्ष + ख [वर्तमानसूत्रेण ख-प्रत्ययः] → अषडक्ष + ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ईन्-आदेशः] → अषडक्ष् + ईन [यस्येति च (6.4.148) इति अकारलोपः] → अषडक्षीण [अट्कुप्वाङ्नुम्व्यवायेऽपि (8.4.2) इति णत्वम् ] द्वौ एव यं जानीतः सः अषडक्षीणः मन्त्रः । (यः गुप्तसन्देशः केवलम् तस्य कथयिता तथा च तस्य श्रोता एतौ एव जानीतः, कोऽपि तृतीयः मनुष्यः न जानाति, तस्य निर्देशः ‘अषडक्षीणः सन्देशः / अषडक्षीणः मन्त्रः’ इत्यनेन क्रियते । When only two people know a certain message, it is said to be known by only four eyes (two per person). when a third person comes in the picture, the message gets known by ‘six eyes’, making it षडक्ष. Any message that is not षडक्ष is referred as अषडक्षीण)। 2. ‘आशितङ्गु’ = ‘आशिताः गावः अस्मिन्’ (A place where cows have eaten their food) अस्मिन् अर्थे बहुव्रीहिसमासं कृत्वा निपातनरूपेण ‘आशितङ्गु’ इति शब्दः सिद्ध्यति । अस्मात् शब्दात् वर्तमानसूत्रेण स्वार्थे ख-प्रत्ययः भवति । आशिताः गावः अस्मिन् वने तत् आशीतङ्गवीनम् वनम् । प्रक्रिया इयम् - आशिताः गावः अस्मिन् = आशित + गौ [अनेकमन्यपदार्थे (2.2.24) इति बहुव्रीहिसमासः] → आशित + गु [गोस्त्रियोरुपसर्ज्जनस्य (1.2.48) इति ह्रस्वः] → आशित + मुम् + गु [निपातनात् पूर्वपदस्य मुम्-इति आगमः । मिदचोऽन्त्यात्परः (1.1.47) इत्यनेन अन्त्यात् अचः परः अयम् विधीयते।] → आशित + मुम् + गु + ख [वर्तमानसूत्रेण ‘ख’ इति प्रत्ययः] → आशित + म् + गु + ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ईन्-आदेशः] → आशितम् + गो + ईन [ओर्गुणः (6.4.146) इति गुणादेशः] → आशितम्गवीन [एचोऽयवायावः (6.1.78) इति अवादेशः] → आशितंगवीन [मोऽनुस्वारः (8.3.13) इति पदान्तमकारस्य अनुस्वारः] → आशितङ्गवीन [अनुस्वारस्य ययि परसवर्णः (8.4.58) इति परसवर्णः] आशिताः गावः यस्मिन् वने तत् आशितङ्गवीनम् वनम् । A forest where cows have grazed is called आशितङ्गवीनम् वनम् । 3. ‘अलङ्कर्म’ = ‘अलम् कर्मणे (कर्मणे पर्याप्तः , Sufficient for doing some task) अस्मिन् अर्थे कुगतिप्रादयः (2.2.18) इत्यत्र पाठितेन <! पर्यादयो ग्लानाद्यर्थे चतुर्थ्या!> अनेन वार्त्तिकेन तत्पुरुषसमासः विधीयते । अस्यां प्रक्रियायामग्रे वर्तमानसूत्रेण स्वार्थे ख-प्रत्ययः भवति । अलम् कर्मणे = अलम् + कर्मन् + ख [वर्तमानसूत्रेण ‘ख’ इति प्रत्ययः] → अलम् + कर्मन् + ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ईन्-आदेशः] → अलम् + कर्म् + ईन [नस्तद्धिते (6.4.144) इति टिलोपः] → अलम्कर्मीन → अलंकर्मीन [मोऽनुस्वारः (8.3.23) इति अनुस्वारः] → अलंकर्मीण [अट्कुप्वाङ्नुम्व्यवायेऽपि (8.4.2) इति णत्वम्] → अलङ्कर्मीण [अनुस्वारस्य ययि परसवर्णः (8.4.58) इति परसवर्णः ङकारः] यत् किमपि वस्तु किञ्चन कर्म कर्तुम् पर्याप्तमस्ति, तस्य निर्देशः ‘अलङ्कर्मीण’ इत्यनेन क्रियते । यथा, वृक्षच्छेदनाय अलङ्कर्मीणः परशुः (An axe that is sufficient for cutting a tree). 4. ‘अलम्पुरुष’ - ‘अलम् पुरुषाय’ (पुरुषाय पर्याप्तः, sufficient for a man) अस्मिन् अर्थे कुगतिप्रादयः (2.2.18) इत्यत्र पाठितेन <! पर्यादयो ग्लानाद्यर्थे चतुर्थ्या!> अनेन वार्त्तिकेन तत्पुरुषसमासः विधीयते । अस्यां प्रक्रियायामग्रे वर्तमानसूत्रेण स्वार्थे ख-प्रत्ययः भवति । प्रक्रिया पूर्ववदेव भवति - अलम् पुरुषाय = अलम् + पुरुष + ख [वर्तमानसूत्रेण ‘ख’ इति प्रत्ययः] → अलम् + पुरुष + ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ईन्-आदेशः] → अलम् + पुरुष + ईन [नस्तद्धिते (6.4.144) इति टिलोपः] → अलम्पुरुषीन → अलंपुरुषीन [मोऽनुस्वारः (8.3.23) इति अनुस्वारः] → अलंपुरुषीण [अट्कुप्वाङ्नुम्व्यवायेऽपि (8.4.2) इति णत्वम्] → अलम्पुरुषीण [अनुस्वारस्य ययि परसवर्णः (8.4.58) इति परसवर्णः ङकारः] 5. ‘अध्युत्तपदशब्दाः’ - ‘अधि’ इति शब्दः सप्तमी शौण्डैः (2.1.40) इत्यत्र निर्दिष्टे शौण्डादिगणे पाठ्यते । इत्युक्ते, अयम् शब्दः सप्तमी-तत्पुरुषसमासे उत्तरपदरूपेण विधीयते । अस्य समासस्य प्रक्रियायाम् वर्तमानसूत्रेण ‘ख’ प्रत्ययः विधीयते । यथा - राजनि अधि = राजन् + अधि + ख [ सप्तमी शौण्डैः (2.1.40) इति सप्तमीतत्पुरुषसमासः । वर्तमानसूत्रेण ख-प्रत्ययः] → राजन् + अधि + ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ईन्-आदेशः] → राजन् + अध् + ईन [यस्येति च (6.4.148) इति इकारलोपः] → राज + अध् + ईन [ नलोपः प्रातिपदिकान्तस्य (8.2.7) इति नकारलोपः] → राजाधीन [अकः सवर्णे दीर्घः (6.1.101) इति सवर्णदीर्घः । नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति (8.2.2) इत्यनेन नकारलोपःकेवलम् सुप्-स्वर-संज्ञा-तुग्विधिषु एव असिद्धः अस्ति, नान्यत्र । अतः अत्र त्रिपाद्याः अनन्तरम् सपादसप्ताध्याय्याः प्रयोगः भवितुमर्हति ।] राजनि अधि सः राजाधीनः । एवमेव दैवाधीनः, कालाधीनः - आदयः शब्दाः अपि सिद्ध्यन्ति । विशेषः - यद्यपि इदम् सूत्रम् समर्थानाम् प्रथमात् वा (4.1.82) इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, तथापि भाष्यकारस्य मतेन अत्र विकल्पः न विधीयते । इत्युक्ते, ‘अषडक्ष’, ‘आशितङ्गु’, ‘ अलङ्कर्म’, ‘अलम्पुरुष’ तथा च अध्युत्तरपदशब्डाः तादृशाः भाषायाम् नैव प्रयुज्यन्ते । तेभ्यः नित्यम् ख-प्रत्ययः भवत्येव ।
Vasu English Summary¶
The affix ख comes after the words 1. अषडक्ष 2. आशितङ्गु 3. अलंकर्म 4. अलम्पुरुष and after a stem ending in अधि।
Vasu English Translation¶
The affix ख comes after the words 1. अषडक्ष 2. आशितङ्गु 3. अलंकर्म 4. अलम्पुरुष and after a stem ending in अधि। The force of ख is स्वार्थ i e. it does not change the sense of the word. The word अषडक्ष means “that which has not six eyes”. षडक्ष is compounded from षट् + अक्ष्णि by adding षच् (5.4.113) “having six eyes”. The affix ख is to be added to this word already ending in the affix shach. Thus अषडक्षीणे मन्त्रः “a secret not having six eyes”. i. e. “a secret known or determined by two persons only to the exclusion of a third”. Similarly आशितंगवीनं अरण्यम् = आशिता गावोऽस्मिन्नरण्ये = प्रभूतयवसं “a forest where formerly cattle had grazed”. The augment मुम् is added to आशित by nipata, or irregularly. So also अलंकर्मीणः = अलं समर्थः कर्मणे पर्याप्तः = competent to do any act, clever. So अलं पुरुषीणः = अलं समर्थः पुरुषाय = प्रतिमल्लादिः = fit for a man.
A word ending with अधि, will be a Tatpurusha compound, by (2.1.40), as the word अधि belongs to Saundadi class. As राजाधीनः ॥
The affix kha in the case of these words is invariable (nitya), because the word विभाषा occurs in the next sutra; and it is a maxim of interpretation that a rule occurring between two optional rules is nitya. The above words always occur with this affix and never without it. while in the case of other words taught hereafter this affix comes optionally. There are other affixes also which are svarthika and nitya. Such as तमप् &c up to the affix कन् (5.3.55) to (5.3.95) भ्य &c upto वुन् (5.3.112) to (5.4.1) आम् &c upto मयट्, (5.4.11) to (5.4.21) and affixes taught from (5.4.6) i.e. कन् to (5.4.9). (ख). ending in जाति and all Samasanta affixes.
Bhashya¶
अषडक्षाशितङ्ग्वलंकर्मालंपुरुषाध्युत्तरपदात्खः (2284) (खप्रत्ययाधिकरणम्) (5904 प्रत्ययानुपपत्तिप्रदर्शकवार्तिकम्॥ 1 ॥) - अध्युत्तरपदात् प्रत्ययविधानानुपपत्तिर्विग्रहाभावात् - (भाष्यम्) अध्युत्तरपदात्प्रत्ययविधेरनुपपत्तिः। किं कारणम्? विग्रहाभावात्। विग्रहपूर्विका तद्धितोत्पत्तिः, न चाध्युत्तरपदेन विग्रहो दृश्यते॥ (5905 न्यासान्तरेण प्रत्ययोपपादकवार्तिकम्॥ 2 ॥) - तस्मात्तत्रेदमिति सधीनर् - (भाष्यम्) तस्मात्तत्रेदमिति सधीनर्प्रत्ययो वक्तव्यः। राजनीदम्, राजाधीनम्। (न्यासान्तराक्षेपभाष्यम्) यदि सधीनर् क्रियते सकारस्येत्संज्ञा न प्राप्नोति। इह च श्र्यधीनः, भ्रवधीन इत्यङ्गस्येति इयङुवङौ स्याताम्। सूत्रं च भिद्यते॥ (अनुपपत्तिनिरासभाष्यम्) यथान्यासमेवास्तु। ननु चोक्तम् ।अध्युत्तरपदात् प्रत्ययविधानानुपपत्तिर्विग्रहाभावात् इति। नैष दोषः। अस्ति कारणं येनात्र विग्रहो न भवति। किं कारणम्? नित्यप्रत्ययोऽयम्। (नित्यप्रत्ययप्रतिपादकभाष्यम्) के पुनर्नित्यप्रत्ययाः। तमादयः प्राक्कनः, ञ्ञ्यादयः प्राग्वुनः, आमादयः प्राङ्नयटः, बृहतीजात्यन्ताः, समासान्ताश्चेति। (अध्युत्तरपदादिति वार्तिकस्य प्रकृत्यनुपपत्तिप्रदर्शकपरं भाष्यम्) एवं तर्हि नायं प्रत्ययविधिरुपालभ्यते। किं तर्हि? प्रकृतिरुपालभ्यते, अध्युत्तरपदा प्रकृतिर्नास्ति। किं कारणम्? विग्रहाभावात्। विग्रहपूर्विका समासप्रवृत्तिः, न चाधिना विग्रहो दृश्यते॥ (अनुपपत्तिनिरासभाष्यम्) एवं तर्हि बहुव्रीहिर्भविष्यति। किं कृतं भवति? भवति वै कश्चिदस्वपदविग्रहोऽपि बहुव्रीहिः तद्यथा - शोभनं मुखमस्याः सुमुखीति। नैवं शक्यम्। इह हि महदधीनमित्यात्वकपौ प्रसज्येयाताम्। एवं तर्ह्यव्ययीभावो भविष्यति। एवमप्यधेः पूर्वनिपातः प्राप्नोति। राजदन्तादिषु पाठः करिष्यते। अथवा सप्तमीसमासोऽयम्। अधिः शौण्डादिषु पठ्यते॥
Kashika¶
अषडक्ष आशितङ्गु अलंकर्म अलंपुरुष इत्येतेभ्योऽध्युत्तरपदात् च स्वार्थे खः प्रत्ययो भवति। अविद्यमानानि षडक्षीण्यस्येति बहुव्रीहिः। बहुव्रीहौ सक्थ्यक्ष्णोः० (५.४.११३) इति षच्, ततः खप्रत्ययः। अषडक्षीणो मन्त्रः। यो द्वाभ्यामेव क्रियते न बहुभिः। आशिता गावोऽस्मिन्नरण्य आशितंगवीनमरण्यम्। निपातनात् पूर्वपदस्य मुमागमः। अलंकर्मन्, अलंपुरुष इति पर्यादयो ग्लानाद्यर्थे चतुर्थ्या (वा० २.२.१८) इति समासः। अलं कर्मणे अलंकर्मीणः। अलं पुरुषाय अलंपुरुषीणः। अध्युत्तरपदस्तत्पुरुषः — अधिशब्दः शौण्डादिषु पठ्यते। राजाधीनः। नित्यश्चायं प्रत्ययः, उत्तरत्र विभाषाग्रहणात्। अन्येऽपि स्वार्थिका नित्याः प्रत्ययाः स्मर्यन्ते — तमबादयः (५.३.५५) प्राक् कनः (५.३.६४), ञ्यादयः (५.३.११२) प्राग् वुनः (५.४.१), आमादयः (५.४.११) प्राङ् मयटः (५.४.२१), बृहतीजात्यन्ताः (५.४.६,९) समासान्ताश्चेति॥
Siddhanta Kaumudi¶
स्वार्थे । अषडक्षीणो मन्त्रः । द्वाभ्यामेव कृत इत्यर्थः । आशिता गावोऽस्मिन्नित्याशितङ्गवीनमरण्यम् । निपातनात्पूर्वस्य मुम् । अलं कर्मणे अलंकर्मीणः । अलंपुरुषीणः । ईश्वराधीनः । नित्योऽयं खः । उत्तरसूत्रे विभाषाग्रहणात् ॥ अन्येऽपि केचित्स्वार्थिकाः प्रत्यया नित्यमिष्यते । तमबादयः प्राक्कनः । ञ्यादयः प्राग्वुनः । आमादयः प्राङ्मयटः । बृहतीजात्यन्ताः समासान्ताश्चेति भाष्यम् ॥
Balamanorama¶
अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात् खः - अषडक्षीणो मन्त्र इति । मन्त्रणं मन्त्रः । रहसि राजतदमात्यादिभिर्युक्तिभिः क्रियमाणं निर्धारणम् । अविद्यमानानि षट् अक्षीणि श्रोत्रेन्द्रियाणि यस्मिन्निति बहुव्रीहिः ।बहुव्रीहौ सवथ्यक्ष्णो॑रिति षच् । तदन्तादनेन स्वार्थे खः । द्वाभ्या मेवेति ।पुरुषाभ्या॑मिति शेषः । आशिता इति । ‘अश भोजने’ इत्यस्मादाशितः कर्तेति ज्ञापकात्कर्तरि क्तः । पूर्वस्य मुमिति । आशितशब्दस्येत्यर्थः । अलङ्कर्मीण इति ।पर्यादयो ग्लानाद्यर्थे॑ इति चतुर्थीसमासात्खः, टिलोपः अलम्पुरुषीण इति । अलं पुरुषायेति विग्रहः । ‘मातृभोगीण’ इत्यादाविव अषडक्षीणादौ णत्वम् ।पदव्यवायेऽपी॑ति निषेधस्तु न, पदे परतो यत्पदं तेन व्यवाये इत्याश्रयणात् । ईआराधीन इति ।यस्मादधिक॑मिति ईआरशब्दात्सप्तमी । शौण्डादित्वादधिशब्देन समासः । ततः स्वार्थे खः ।समर्थाना॑मित्यतो वाग्रहणानुवृत्त्या अस्य वैकल्पकत्वभ्रमं वारयति — नित्यो ।ञयं ख इति । उत्तरेति ।विभाषाऽञ्चे॑रित्युत्तरसूत्रेसमर्थाना॑मित्यतो वाग्रहणानुवृत्त्यैव सिद्धे विभाषाग्रहणादिह पूर्वसूत्रे वाग्रहणानुवृत्त्यभावो ज्ञाप्यत इत्यर्थः । नचैवं सति आशिता गावोऽस्मिन्निति, अलं कर्मणे इति च विग्रहप्रदर्शनमनुपपन्नमिति वाच्यम्, तस्य खप्रत्ययप्रकृतिकथनार्थत्वेन अलौकिकविग्रहवाक्यप्रायत्वात् । प्रसङ्गादाह — अन्येऽपीति । इष्यन्त इति ।भाष्यकृते॑ति शेषः । तमबादयः प्राक्कन इति ।अतिशायने तम॑वित्यारभ्यअवक्षेपणे क॑न्नित्यतः प्राग्विहिताः प्रत्यया इत्यर्थः । ञ्यादयः प्राग्वुन इति ।पूगाञ्ञ्योऽग्रामणीपूर्वा॑दित्यारभ्यअवक्षेपणे क॑न्नित्यतः प्राग्विहिताः प्रत्यया इत्यर्थः । आमादयः प्राङ्भयट इति ।किमेत्तिङव्ययघादा॑मित्यारभ्यतत्प्रकृतवचने मयट् इत्यतः प्राग्विहिता इत्यर्थः । बृहतीजात्यन्ता इति । बृहतीशब्देन ‘बृहत्या आच्छादने’ इति कन् लक्ष्यते । जात्यन्तशब्देन तुजात्यन्ताच्छ बन्धुनी॑ति छो लक्ष्यते । बहुवचननिर्देशात्पाशबादयो ।ञपिषष्ठआ रूप्य चे॑त्यन्ता गृह्रन्त इति कैयटः । वस्तुतस्तु परिगणिता एव नित्या, नतु पाशबादयोऽपि । ‘बृहतीजात्यन्ताः’ इति बहुवचनं तु ‘बृहत्या आच्छादने’ इतिजात्यन्ताच्छ बन्धुनी॑ति च सूत्रयोर्मध्यगतेनअषडक्षे॑ति सूत्रेण विहितं खप्रत्ययमभिप्रेत्येति न दोषः ।विभाषाऽञ्चे॑रिति उत्तरसूत्रे खविधौ विभाषाग्रहणं तु तस्यापि बृहजात्यन्तरालवर्तित्वाऽविशेषान्नित्यत्वे प्राप्ते विकल्पार्थम् ।अनित्योऽयं खः, उत्तरसूत्रेषु विभाषाग्रहणा॑दिति मूलं तु अभ्युच्चययुक्तिरिति शब्देन्दुशेस्वरे स्थितम् ।
Tattvabodhini¶
अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात् खः - अषडक्षीण इति । अविद्यमानानि षडक्षीणि यस्मिन्निति बहुव्रीहिः अक्षिशब्दोऽत्र श्रोत्रेन्द्रिये वर्तते ।बहुव्रीहौ सक्थ्यक्ष्णो॑रिति षच् । तदन्तादनेन खः । मन्त्रो मन्त्रणम् । आशितंगवीनमिति । आह्पूर्वादश्नोतेःअशितः कर्ते॑ति ज्ञापकात्कर्तरि क्तः, ण्यन्तात्कर्मणि वा । उभयथापि प्रभूतयवसमिति फलितोऽर्थः । अलङ्कर्मीण इति । अलङ्कर्म अलंपुरुषेतिपर्यादयो ग्लानाद्यर्थे चतुर्थ्ये॑ति समासः । अलंपुरुषीण इति । प्रतिमल्लादिः । ईआराधीन इति । अधिशपब्दः शौण्डाडिरित्युक्तम् । तमबादय इत ।अतिशायने तमबि॑त्यादयः । प्राक्कन इति ।अवक्षेपणे कन्इति विहितात् । ञ्यादय इति ।पूगाञ्ञ्योऽग्रामणीपूर्वा॑दित्यादयः । प्राग्वुन इति ।पादशतस्य सङ्ख्यादेः॑इति बिहितात् । आमादय इति ।किमेत्तिह्व्ययगादामु -॑इत्यादयः । प्राङ्मयट इति ।तत्प्रकृतवचने मयट्इत्यतः प्रागित्यर्थः । बृहतीजात्यन्ता इति ।बृहती॑शब्देनबृहत्या आच्छादने॑इति विहितः कन्नुपलक्ष्यते ।जात्यन्त॑शब्देनजात्यन्ताच्चे॑ति च्छः । बहुवचननिर्देशबादयो गृह्यन्ते । यो हि वैयाकरणपाशादिशब्दैरर्थः प्रतीयते नासौ प्रकृतिमात्रेण प्रतीयते इति तेऽपि तमबादिवन्नित्या एवेति स्थितमाकरे । कन्छौ मुक्त्वा मूले बृहतीमात्रप्रयोगो जात्यन्तमात्रप्रयोगास्च कृतः, स तु अवाचकोऽप्यार्षग्रन्थानुवादकत्वान्न दोषाय ।
Padamanjari¶
अविद्यमानानि षडक्षीणि यस्मिन्निति बहुव्रीहिरिति। अक्षिशब्दोऽत्र श्रोत्रेन्द्रिये वर्तते’बहुव्रीहौ सकथ्यक्षणोः’ इति षच्। मन्त्रःउमन्त्रणम्, यद् द्वाब्यामेव क्रियत इति, त्रिभिस्तु क्रियमाणः षडक्षो भवति, चतुःप्रभृतिभिस्तु क्रियमाणस्य यद्यप्यष्टाक्षत्वादि सम्भवति, तथाप्यवर्जनीयरूपेण षडक्षत्वमपि भवति। तस्माद् द्वाभ्यामेव क्रियमाणोऽषडक्षीणो भवति। आशिता इति। अश्नोतेराङ्पूर्वादाशितः कर्तेति ज्ञापकात्कर्तरि क्तः। यद्वा - ण्यन्तात्कर्मणि। आशितङ्गवीनमरण्यमिति। प्रभूतयवसमित्यर्थः। अधिशब्दः शौण्डादिषु पठ।ल्त इति। यत्र ठधिरीश्वरेऽ इत्यधेः कर्मप्रवचनीयत्वाद्’यस्य चेश्वरवचनम्’ इति सप्तम्यन्ता राजादयोऽधिना समस्यन्ते। वाक्यमपि भवति। राजन्यधि, राजाधीनमिति। यथा - अधि ब्रह्मदते पञ्चाला इति, अधिशब्दश्च वृत्तिविषये ईशितव्ये वर्तते। अपर आह - अधिकरणे एषा सप्तमी, वृत्तिविषये च ससाधनक्रियावचनोऽधिः, न तु वाक्य इत्यस्वपदेन विग्रहः, वृत्तिविषये च ससाधनक्रियावचनोऽधिः, न तु वाक्य इत्यस्वपदेन विग्रहः, राजन्यधिकृतं राजाधीनम्, राजायतमित्यर्थ इति। उतरसूत्रे विभाषाग्रहणादिति। द्वयोर्विभाषयोर्मध्ये नित्या विधय इति न्यायात् । तमबादय इति। ठतिशायने तमबिष्ठनौऽ इत्यादयः। प्राक्कन इति। ठवक्षेपणे कन्ऽ इत्यस्मात् शुक्ल इत्युक्ते सामान्यशब्दत्वात्प्रकर्षस्यानवगमाततदुपाधिद्योतनायावश्यं प्रयोज्यास्तमबादय इति नित्याः। अतिशयेन शुक्ल इत्यादिकं तु वाक्यं भवत्येव; पदान्तरद्योत्यत्वादतिशयस्य। ञ्जादय इति।’पूगाञ्ञ्यो’ ग्रामणीपूर्वात्ऽ इत्यादयः। प्राग्वुन इति। पादशतादिशूत्रविहितात्, तस्य तु पुरा विग्रहो दर्शित एव। आमादय इति।’किमेतिङ्व्ययघादामु’ इत्यादयः,’तत्प्रकृतवचने मयट्’ इत्यतः प्रागित्यर्थः। बृहतीजात्यन्ता इति। बृहतीशब्देन’बृहत्या आच्छादने’ इति विहितः कनुपलक्ष्यते। जात्यन्तशब्देनापिठ्जात्यन्ताच्छ बधुनिऽ इति विहितश्च्छः। बहुवचननिर्द्देशादेतत्सूत्रविहितस्य खस्यपाशबादीनां च ग्रहणम्। यो हि वैयाकरणपाशादितत्सूत्रविहितस्य खस्य पाशबादीनां च ग्रहणम्। यो हि वैयाकरणपाशादिशब्देभ्योऽर्थः प्रतीयते, नासौ जातुचित् वैयाकरणादिसामान्यशब्देभ्यः प्रतीयत इति तेऽपि तमबादिवन्नित्या एव। समासान्त श्चेति।’समासान्ताः’ इत्यधिकृत्य विहिताः ॥
Nyaas¶
अविद्यमानानि षडक्षीण्यस्मिन्निति बहुव्रीहिः इति। ततः बहुव्रीहौ सक्थ्यक्ष्णोः (5.4.113) इति षच्। राजशब्दात्? सप्तमी। राजन्यथीति विगृह्र **सप्तमी शौण्डैः** (2.1.40) इति समासः।`तमबादयः इति। अतिशायेन तमबिष्ठनौ (5.3.55) इत्येवमादयः। प्राक्? कनः इति। युवाल्पयोः कनन्यतरस्याम् (5.3.64) इत्ययम्। ञ्यादयः इति। पूगाञ्ञ्योऽग्रामणीपूर्वात्? (5.3.112) इत्यादयः। `प्राग्वृनः इति। पादशतस्य (5.4.1) इत्यादिसूत्रेण विहितत्वात्। आमादयः इति। किमेत्तिङव्ययघात् (5.4.11) इत्येवमादयः। प्राङ्मयटः इति। तत्प्रकृतवचने मयट् (5.4.21) इत्यतः। बृहतीजात्यन्ताः इति। बृहत्या आच्छदने (5.4.6) इत्येतत्? सूत्रं कनमुपलक्षयति। जात्यन्तशब्देनापि जात्यन्ताच्छ बन्धुनि (5.4.9) इत्येतत्। बहुवचननिर्देशोऽषडक्षादिसूत्राविहितस्य परिग्रहार्थः॥
Prakriyasarvasvam¶
एभ्यः स्वार्थे खः । आशितङ्ग्विति निपातनान्मुम् । अक्षिशब्दोऽत्र श्रोत्रार्थ इति रामहरौ । <karika>षट्कर्णरहितो मन्त्रो ह्यषडक्षीण उच्यते । तदाशितङ्ग्वीनं स्यात्तृप्ता स्युर्यत्र धेनवः ॥ ३५९ ॥ तथा यः कर्मणे शक्तः सोऽलङ्कर्मीण उच्यते । सा चालंपुरुषीणा स्त्री समर्था पुरुषाय या ॥ ३६० ॥ अध्युत्तरपदाद् राजाधीनो राजन्यधिश्रितः । अधीनः केवलस्त्वव्युत्पन्नो रूढश्चेति कैयटः ॥ ३६१ ॥ अध्युत्तरपदादिभ्य इति भोजस्त्वसूत्रयत् । अध्याश्रित इनोऽनेनेत्यधीन इति केचन ॥ ३६२ ॥ स्वस्य नित्यतया न स्युरषडक्षादयः स्वयम् । अन्येऽपि स्वार्थिकाः केचिन्नित्याः केचिद् विकल्पिताः ॥ ३६३ ॥</karika>
Sutra Prayogas¶
त्वदधीनं (कुमारसम्भवम्): अध्युत्तरपदात् इति खप्रत्ययः।
हित्वाऽऽशितङ्गवीनानि (भट्टिकाव्यम्): अपढक्षा- इत्यादिसूत्रेण खः पूर्वपदस्य च मान्तत्वं निपात्यते।
दयिताऽधीनं (भट्टिकाव्यम्): अपड इत्यादिनाध्युत्तरपदात्स्वः।