53119: ञ्यादयस्तद्राजाः¶
Padacheda: ञ्य-आदयः | S | 1 | 3 |
तद्राजाः | S | 1 | 1 |
Sutrartha¶
पूगाञ्ञ्योऽग्रामणीपूर्वात् 5.3.112 इत्यस्मात् सूत्रात् आरभ्य वर्तमानसूत्रम् यावत् उक्ताः प्रत्ययाः ‘तद्राज’ इति संज्ञां स्वीकुर्वन्ति ।
अनेन सूत्रेण ‘तद्राज’ इति काचन संज्ञा पाठ्यते । पूगाञ्ञ्योऽग्रामणीपूर्वात् (5.3.112) इत्यस्मात् सूत्रात् आरभ्य वर्तमानसूत्रं यावत् पाठिताः सर्वे प्रत्ययाः ‘तद्राज’ नाम्ना ज्ञायन्ते । एतेषामावली इयम् - 1) ञ्य-प्रत्ययः - पूगाञ्ञ्योऽग्रामणीपूर्वात् (5.3.112), व्रातच्फञोरस्त्रियाम् (5.3.113) 2) ञ्यट् -प्रत्ययः - आयुधजीविसंघाञ्ञ्यड्वाहीकेष्वब्राह्मणराजन्यात् (5.3.114) 3) टेण्यण्-प्रत्ययः - वृकाट्टेण्यण् (5.3.115) 4) छ-प्रत्ययः - दामन्यादित्रिगर्तषष्ठाच्छः (5.3.116) 5) अण्-प्रत्ययः - पर्श्वादियौधेयादिभ्यामणञौ (5.3.117) 6) अञ्-प्रत्ययः - पर्श्वादियौधेयादिभ्यामणञौ (5.3.117) 7) यञ्-प्रत्ययः - अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो यञ् (5.3.118) किम् प्रयोजनम् ‘तद्राज’संज्ञायाः? तद्राजसंज्ञकप्रत्ययान्तशब्देभ्यः विहितः ये बहुवचनस्य सुप्-प्रत्ययाः, तेषाम् तद्राजस्य बहुषु तेनैवास्त्रियाम् (2.4.62) इत्यनेन लुक् उच्यते । उदाहरणद्वयम् पश्यामः - अ) आयुधजीविसंघाञ्ञ्यड्वाहीकेष्वब्राह्मणराजन्यात् (5.3.115) इत्यनेन ‘कुण्डिबृस’ शब्दात् स्वार्थे ‘ञ्यट्’ प्रत्ययं कृत्वा ‘कौञ्डिबृस्य’ इति प्रातिपदिकम् सिद्ध्यति । अस्य प्रथमाबहुवचनस्य रूपसिद्धिः इयम् - कुण्डिबृस + ञ्यट् + जस् [प्रथमाबहुवचनस्य प्रत्ययः] → कुण्डिबृस + जस् [प्रथमाबहुवचनस्य जस्-प्रत्यये परे तद्राजस्य बहुषु तेनैवास्त्रियाम् (2.4.62) इति ञ्यट्-प्रत्ययस्य लुक्] → कुण्डिबृसाः । आ) वृकाट्टेण्यण् (5.3.115) इत्यनेन ‘वृक’ शब्दात् स्वार्थे ‘टेण्यण्’ प्रत्ययं कृत्वा ‘वार्केण्य’ इति प्रातिपदिकं सिद्ध्यति । अस्य चतुर्थीबहुवचनस्य रूपस्य प्रक्रिया इयम् वृक + टेण्यण् + भ्यस् [चतुर्थीबहुवचनस्य प्रत्ययः] → वृक + भ्यस् [बहुवचनस्य प्रत्यये परे टेण्यण्-प्रत्ययस्य तद्राजस्य बहुषु तेनैवास्त्रियाम् (2.4.62) इति लुक्] → वृकेभ्यः एवमेव सर्वासाम् विभक्तीनाम् विषये बहुवचनस्य प्रत्ययस्य लुक् भवति । स्मर्तव्यम् - 1. अत्र निर्दिष्टाः प्रत्ययाः केवलमस्मिन् सन्दर्भे एव तद्राजसंज्ञां स्वीकुर्वन्ति । यथा, ‘छ’ प्रत्ययः तदा एव तद्राजसंज्ञकः भवति यदा तस्य विधानम् दामन्यादित्रिगर्तषष्ठाच्छः (5.3.116) इत्यनेन क्रियते । अन्यैः सूत्रैः विहितः छ-प्रत्ययः तद्राजसंज्ञकः नास्ति । एवमेव अन्येषाम् विषये अपि ज्ञेयम् । 2. एते सर्वे तद्राजसंज्ञकप्रत्ययाः समर्थानां प्रथमात् वा (4.1.86) इत्यस्मात् ‘वा’ इत्यस्य अधिकारे विधीयन्ते, अतः एते सर्वेऽपि विकल्पेनैव भवन्ति । 3. तद्धिताधिकारे प्राग्दीव्यतीयप्रकरणे ते तद्राजाः (4.1.174) इत्यपि किञ्चन सूत्रम् पाठ्यते । अनेन सूत्रेण ‘अञ्’, ‘अण्’, ‘ञ्यङ्’, ‘ण्य’, ‘इञ्’ एते पञ्च प्रत्ययाः अपि विशिष्ट-सन्दर्भे तद्राजसंज्ञकाः भवन्ति । 4. प्राग्दीव्यतीयप्रकरणे कम्बोजाल्लुक् (4.1.175) तथा स्त्रियामवन्तिकुन्तिकुरुभ्यश्च (4.1.176) इत्यनेन तद्राजप्रत्ययस्य उक्तः लुक् वर्तमानप्रकरणे न विधीयते, यतः वर्तमानप्रकरणे एतेभ्यः शब्देभ्यः तद्राजप्रत्ययः न पाठ्यते । तथा च, अतश्च (4.1.177) इत्यनेन उक्तः लुक् अपि वर्तमानप्रकरणस्य विषये न विधीयते, यतः न प्राच्यभर्गादियौधेयादिभ्यः (4.1.178) इत्यनेन वर्तमानप्रकरणस्य विषये विशिष्टरूपेण अयम् लुक् निषिध्यते ।
Vasu English Summary¶
The affixes ञ्य etc. – पूगाञ्ञ्योऽग्रामणीपूर्वात् (5.3.112), etc. are called तद्राजा।
Vasu English Translation¶
The affixes ञ्य etc. – पूगाञ्ञ्योऽग्रामणीपूर्वात् (5.3.112), etc. are called तद्राजा। The illustrations of Tadraja affixes have been given above. The word तद्राज occurs in Sutra (2.4.62).
Kashika¶
पूगाञ्ञ्योऽग्रामणीपूर्वात् (५.३.११२) इत्यतः प्रभृति ये प्रत्ययाः, ते तद्राजसंज्ञा भवन्ति। तथा चैवोदाहृतम्। तद्राजप्रदेशाः — तद्राजस्य बहुषु० (२.४.६२) इत्येवमादयः॥
॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ पञ्चमाध्यायस्य तृतीयः पादः॥
Siddhanta Kaumudi¶
पूगाञ्यः - (SK2066) इत्यारभ्य उक्ता एतत्संज्ञाः स्युः । तेनास्त्रियां बहुषु लुक् । लोहितध्वजाः । कपोतपाकाः । कौञ्जायनाः । ब्राध्नायना इत्यादि ॥
Balamanorama¶
ञ्यादयस्तद्राजाः - ञ्यादयस्तद्राजाः । लोहितध्वजा इति ।पूगा॑दिति विहितस्य ञ्यस्य तद्वाजत्वाद्बहुत्वे लुक् । कपोतपाकाः कौञ्जायनाः ब्राआध्नायना इति ।व्रातच्फञो॑रिति विहितस्य ञ्यस्य लुक् । इत्यादीति । क्षौद्रक्यौ, क्षुद्रकाः ।आयुधजीवी॑ति ञ्यटो लुक् । वार्केण्यः, वार्केण्यौ, वृकाः । वृकाट्टेण्यणो लुक् । दामनीयः, दीमनीयौ, दामनयः, कौण्डोपरथाः इत्यादौदामन्यादित्रिगर्तषष्ठा॑दिति छस्य लुक् । पार्शवौः, पार्शव, पर्शवः, यौधेयाः इत्यत्र पर्ाआदियौधेयाद्यणञोर्लुक् । आभिजित्यः आभिजित्यौ, अभिजितः, विदभृत इत्यादौअभिजिद्विदभृ॑दित्यादिविहितस्य यञो लुगिति भावः । इति पञ्चमस्य तृतीयपादः ।
Nyaas¶
इति श्रीबोधिसत्त्वदेशीपाचार्यश्रीजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्चिकायां पञ्चमस्याध्यायस्यतृतीय पादः॥* * *अथ पञ्चमोऽध्यायःचतुर्थः पादः
Prakriyasarvasvam¶
ञ्यादयः प्रत्ययास्तद्राजाख्याः ।।