53118: अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो यञ्¶
Padacheda: अभिजित्-विदभृत्-शालावत्-शिखावत्-शमीवत्-ऊर्णावत्-श्रुमत्-अणः | S | 5 | 1 |
यञ् | S | 1 | 1 |
Sutrartha¶
‘अभिजित्’, ‘विदभृत्’, ‘शालावत्’, ‘शिखावत्’, ‘शमीवत्’, ‘ऊर्णावत्’, ‘श्रुमत्’ एतेषाम् शब्दानाम् ‘अण्’ प्रत्ययान्तम् यत् रूपम्, तस्मात् स्वार्थे ‘यञ्’ प्रत्ययः विधीयते ।
‘अभिजित्’, ‘विदभृत्’, ‘शालावत्’, ‘शिखावत्’, ‘शमीवत्’, ‘ऊर्णावत्’, ‘श्रुमत्’ एते शब्दाः अस्मिन् सूत्रे निर्दिश्यन्ते । एतेभ्यः अण्-प्रत्ययः यदा विधीयते, तदा तस्मात् जायमानात् प्रातिपदिकात् वर्तमानसूत्रेण स्वार्थे ‘यञ्’ इति प्रत्ययविधानमपि भवितुमर्हति । उदाहरणानि- 1. ‘अभिजितः अपत्यम्’ इत्यस्मिन् अर्थे तस्यापत्यम् (4.1.92) इत्यनेन ‘अभिजित्’ शब्दात् ‘अण्’ प्रत्ययं कृत्वा ‘आभिजित’ इति शब्दः जायते । अस्मादेव शब्दात् अग्रे वर्तमानसूत्रेण ‘यञ्’ प्रत्ययः भवति । यथा - आभिजितः इत्येव = अभिजित् + अण् + यञ् → आभिजित + य → आभिजित् [यस्येति च (6.4.148) इति अकारलोपः] → आभिजित्य । एवमेव - 2. शालावतः अपत्यम् शालावतः (= शालावत् + अण्) । स एव शालावत्यः (= शालावत् + अण् + यञ्) 3. ऊर्णावतः अपत्यम् और्णावतः (= ऊर्णावत् + अण्) । स एव और्णावत्यः (= ऊर्णावत् + अण् + यञ्) विशेषः - यद्यपि अण्-प्रत्ययः तद्धितप्रकरणे भिन्नेषु अर्थेषु विधीयते, तथापि वर्तमानसूत्रस्य प्रसक्तिः तदा एव अस्ति यदा ‘अण्’ इति प्रत्ययः अपत्यार्थे विधीयते । एतदेव स्पष्टीकर्तुम् भाष्यकारः ‘गोत्रादिति च वक्तव्यम्’ इति वदति । स्मर्तव्यम् -
समर्थानां प्रथमात् वा (4.1.86) इत्यस्मात् ‘वा’ इत्यस्य अधिकारः अत्र प्रचलति, अतः अनेन सूत्रेण उक्तः प्रत्ययः विकल्पेनैव भवति। अतः ‘आभिजितः’ इत्यपि साधु प्रयोगः, ‘आभिजित्य’ इत्यपि च साधु प्रयोगः । एवमेव अन्येषां विषये अपि ज्ञेयम् ।
2. अनेन सूत्रेण उक्तस्य यञ्-प्रत्ययस्य ञ्यादयस्तद्राजाः (5.3.119) इत्यनेन ‘तद्राज’ इति संज्ञा भवति । तद्राजसंज्ञकप्रत्ययानाम् च एकम् वैशिष्ठ्यम् विद्यते - तद्राजस्य बहुषु तेनैवास्त्रियाम् (2.4.62) इत्यनेन सूत्रेण तद्राजसंज्ञकप्रत्ययान्तशब्दानां बहुवचनरूपे तद्राजप्रत्ययस्य लुक् भवति । इत्युक्ते, अत्र ‘आभिजित्य’ शब्दस्य बहुवचनस्य प्रक्रियायाम् ‘यञ्’ प्रत्ययस्य लुक् भवति । यथा - अभिजित् + अण् + यञ् + जस् [प्रथमाबहुवचनस्य प्रत्ययः] → अभिजित् + अण् + जस् [यञ्-प्रत्ययस्य तद्राजस्य बहुषु तेनैवास्त्रियाम् (2.4.62) इति लुक्] → आभिजिताः अतः ‘आभिजित्य’ शब्दस्य रूपाणि - ‘आभिजित्यः, आभिजित्यौ, आभिजिताः’ इति भवन्ति । एवमेव अन्येषां विषये अपि ज्ञेयम् ।
Vasu English Summary¶
The affix यण् comes without changing the sense, after the words 1. अभिजित् 2. बिदभृत् 3. शालावत् 4. शिखावत् 5. शामीवत् 6. ऊर्णावत् and 7. श्रुमत् when those words end in the Patronymic affix अण् ।
Vasu English Translation¶
The affix यण् comes without changing the sense, after the words 1. अभिजित् 2. बिदभृत् 3. शालावत् 4. शिखावत् 5. शामीवत् 6. ऊर्णावत् and 7. श्रुमत् when those words end in the Patronymic affix अण् । The anuvritti of आयुधजीविसंघात् ceases. Thus अभिजितोऽपत्वम् = आभिजित्, add यञ् to this, आभिजित्यः; pl. आभिजिताः, बैदभृत्यः pl. बैदभृताः, शालावत्यः pl. शालावताः, pl. शैखावत्यः pl. शैखावताः, शामीवत्यः pl. शामीवताः, और्णावत्यः और्णावता, श्रौमत्यः and श्रौमताः ॥ The अण् here is Patronymic. Otherwise आभिजिति मुहूर्त्तः and आभिजितः स्थालीपाकः, the affix here is अण् of नक्षत्रेण युक्तः कालः (4.2.3) and of सास्यदेवता (4.2.24) respectively.
Bhashya¶
अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो यञ्ञ् (2276) (यञ्ञोऽधिकरणम्) (5898 उपसंख्यानवार्तिकम्॥ 1 ॥) - अणो गोत्राद्गोत्रवचनम् - (भाष्यम्) अणो गोत्रात् गोत्रग्रहणं कर्तव्यम्। गोत्रादिति वक्तव्यम्। इह मा भूत् - आभिजितो मुहूर्तः, आभिजितः स्थालीपाक इति। गोत्रमिति च वक्तव्यम्। किं प्रयोजनम्? आभिजितकः। गोत्राश्रयो वुञ्ञ् यथा स्यात्। गोत्रमिति शक्यमकर्तुम्। कथमाभिजितकः? गोत्रादयं स्वार्थिको गोत्रमेव भवति॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये पञ्ञ्चमस्याध्यायस्य तृतीये पादे द्वितीयमाह्निकम्॥ ॥ पादश्च समाप्तः ॥
Kashika¶
आयुधजीविसंघादिति निवृत्तम्। अभिजिदादिभ्योऽणन्तेभ्यः प्रातिपदिकेभ्यः स्वार्थे यञ् प्रत्ययो भवति। अभिजितोऽपत्यमित्यण्। तदन्ताद् यञ्। आभिजित्यः, आभिजित्यौ, आभिजिताः। वैदभृत्यः, वैदभृत्यौ, वैदभृताः। शालावत्यः, शालावत्यौ, शालावताः। शैखावत्यः। शामीवत्यः। और्णावत्यः। श्रौमत्यः। गोत्रप्रत्ययस्यात्राणो ग्रहणमिष्यते। आभिजितो मुहूर्तः, आभिजितः स्थालीपाक इत्यत्र न भवति॥
Siddhanta Kaumudi¶
अभिजिदादिभ्योऽणन्तेभ्यः स्वार्थे यञ् स्यात् । अभिजितोऽपत्यमाभिजित्यः । वैदभृत्यः । शलावत्यः । शैखावत्यः । शामीवत्यः । और्णावत्यः । श्रौमत्यः ॥
Balamanorama¶
अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो यञ् - अभिजिद्विदभृत् । अभिजित्, पिदभृत्, शालावत्, शिखावत्, शमीवत्, ऊर्णावत्, श्रुमत् — एषां समाहारद्वन्द्वात्पञ्चम्या लुक् । अण इति प्रत्ययत्वात्तदन्तग्रहणम् । तदाह — अभिजिदादिभ्य इति । अत्रआयुधजीविसङ्घादिति निवृत्त॑मिति वृत्तिः ।आभिजित्य इति । अभिजितोऽपत्यमाभिजितः । अपत्येऽण् । आभिजित एव आभिजित्यः । वैदभृत्य इति । विदभृत्यः । शालावत्य इति । शालावतोऽपत्यं शालावतः, स एव शालावत्यः । शैखावत्यैति । शिखावतोऽपत्यं शैखावतः । स एव शैखावत्यः । शामीवत्य इति ।शमीवतोऽपत्यं शामीवतः, स एव शामीवत्यः । और्णावत्य इति । ऊर्णावतोऽपत्यमौर्णावतः, स एव और्णावत्यः । श्रौमत्य इति । श्रुमतोऽपत्यं श्रौमतः, स एव श्रौमत्यः । अत्र अभिजिदित्यादिशब्देषु यञः स्वार्थिकतया गोत्रार्थकत्वादाभिजित्यस्यायमिति विग्रहेगोत्रचरणा॑दिति वुञि॒आपत्यस्य चे॑ति यलोपे ‘आभिजितक’ इति भवति ।अपत्याऽणन्तेभ्य एवायं यञ् । तेन आभिजितो मुहूर्त इत्यादौ न य॑ञिति भाष्ये स्पष्टम् ।
Tattvabodhini¶
अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो यञ् - आभिजित्य इति । आभिजितशब्दादणन्ताद्यञ् । एवं विदभृत्प्रभृतिभ्योऽणि तदन्तेभ्यो वैदभृत — — शालावतः -शैखावतादिब्योयञ् ।
Nyaas¶
अभिजितोऽपत्यमित्यण् इति। प्राग्दीष्यतोऽण् (4.1.83) इत्यौत्सर्गिकः। एवमुत्त्रत्रापि। गोत्रप्रत्ययस्याणो ग्रहणमिष्यते इति। तत्कथं जातिनाम्न इत्यनुवर्तते? तेनाणन्तं यज्जातिनाम तदेव ग्रहीष्यते। यश्च गोत्र्रऽण्? विहितस्तदन्तमेव जातिनाम भवति; गोत्रं च चरणैः सह (म। भा। 2।225) इति आतित्वात्। आभिजितो मुहूततत्त्#ं#ः, आभिजीतः स्थालीपाकः इति। एकत्र नक्षत्रेण युक्तः कालः (4.2.3) इत्यण्, अपरत्र सास्य देवता (4.2.24) इति॥
Prakriyasarvasvam¶
आयुधजीविनो गताः । अपत्याणन्तेभ्योऽभिजिदादिभ्यः स्वार्थे यञ् । आभिजितशब्दादाभिजित्यः आभिजित्याः । वैदभृत्यः, वैदभृत्याः । शालावत्यः, शालावत्याः । शैखावत्यः, शैखावत्याः । शामीवत्यः, शामीवत्याः । और्णावत्यः, और्णाविताः । श्रैमत्यः, श्रैमत्याः ॥