53119: ञ्यादयस्तद्राजाः ======================= **Padacheda:** ञ्य-आदयः | S | 1 | 3 | तद्राजाः | S | 1 | 1 | Sutrartha --------- **पूगाञ्ञ्योऽग्रामणीपूर्वात् 5.3.112 इत्यस्मात् सूत्रात् आरभ्य वर्तमानसूत्रम् यावत् उक्ताः प्रत्ययाः 'तद्राज' इति संज्ञां स्वीकुर्वन्ति ।** अनेन सूत्रेण 'तद्राज' इति काचन संज्ञा पाठ्यते । **पूगाञ्ञ्योऽग्रामणीपूर्वात्** (5.3.112) इत्यस्मात् सूत्रात् आरभ्य वर्तमानसूत्रं यावत् पाठिताः सर्वे प्रत्ययाः 'तद्राज' नाम्ना ज्ञायन्ते । एतेषामावली इयम् - 1) ञ्य-प्रत्ययः - **पूगाञ्ञ्योऽग्रामणीपूर्वात्** (5.3.112), **व्रातच्फञोरस्त्रियाम्** (5.3.113) 2) ञ्यट् -प्रत्ययः - **आयुधजीविसंघाञ्ञ्यड्वाहीकेष्वब्राह्मणराजन्यात्** (5.3.114) 3) टेण्यण्-प्रत्ययः - **वृकाट्टेण्यण्** (5.3.115) 4) छ-प्रत्ययः - **दामन्यादित्रिगर्तषष्ठाच्छः** (5.3.116) 5) अण्-प्रत्ययः - **पर्श्वादियौधेयादिभ्यामणञौ** (5.3.117) 6) अञ्-प्रत्ययः - **पर्श्वादियौधेयादिभ्यामणञौ** (5.3.117) 7) यञ्-प्रत्ययः - **अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो यञ्** (5.3.118) किम् प्रयोजनम् 'तद्राज'संज्ञायाः? तद्राजसंज्ञकप्रत्ययान्तशब्देभ्यः विहितः ये बहुवचनस्य सुप्-प्रत्ययाः, तेषाम् **तद्राजस्य बहुषु तेनैवास्त्रियाम्** (2.4.62) इत्यनेन लुक् उच्यते । उदाहरणद्वयम् पश्यामः - अ) **आयुधजीविसंघाञ्ञ्यड्वाहीकेष्वब्राह्मणराजन्यात्** (5.3.115) इत्यनेन 'कुण्डिबृस' शब्दात् स्वार्थे 'ञ्यट्' प्रत्ययं कृत्वा 'कौञ्डिबृस्य' इति प्रातिपदिकम् सिद्ध्यति । अस्य प्रथमाबहुवचनस्य रूपसिद्धिः इयम् - कुण्डिबृस + ञ्यट् + जस् [प्रथमाबहुवचनस्य प्रत्ययः] → कुण्डिबृस + जस् [प्रथमाबहुवचनस्य जस्-प्रत्यये परे **तद्राजस्य बहुषु तेनैवास्त्रियाम्** (2.4.62) इति ञ्यट्-प्रत्ययस्य लुक्] → कुण्डिबृसाः । आ) **वृकाट्टेण्यण्** (5.3.115) इत्यनेन 'वृक' शब्दात् स्वार्थे 'टेण्यण्' प्रत्ययं कृत्वा 'वार्केण्य' इति प्रातिपदिकं सिद्ध्यति । अस्य चतुर्थीबहुवचनस्य रूपस्य प्रक्रिया इयम् वृक + टेण्यण् + भ्यस् [चतुर्थीबहुवचनस्य प्रत्ययः] → वृक + भ्यस् [बहुवचनस्य प्रत्यये परे टेण्यण्-प्रत्ययस्य **तद्राजस्य बहुषु तेनैवास्त्रियाम्** (2.4.62) इति लुक्] → वृकेभ्यः एवमेव सर्वासाम् विभक्तीनाम् विषये बहुवचनस्य प्रत्ययस्य लुक् भवति । स्मर्तव्यम् - 1. अत्र निर्दिष्टाः प्रत्ययाः केवलमस्मिन् सन्दर्भे एव तद्राजसंज्ञां स्वीकुर्वन्ति । यथा, 'छ' प्रत्ययः तदा एव तद्राजसंज्ञकः भवति यदा तस्य विधानम् **दामन्यादित्रिगर्तषष्ठाच्छः** (5.3.116) इत्यनेन क्रियते । अन्यैः सूत्रैः विहितः छ-प्रत्ययः तद्राजसंज्ञकः नास्ति । एवमेव अन्येषाम् विषये अपि ज्ञेयम् । 2. एते सर्वे तद्राजसंज्ञकप्रत्ययाः **समर्थानां प्रथमात् वा** (4.1.86) इत्यस्मात् 'वा' इत्यस्य अधिकारे विधीयन्ते, अतः एते सर्वेऽपि विकल्पेनैव भवन्ति । 3. तद्धिताधिकारे प्राग्दीव्यतीयप्रकरणे **ते तद्राजाः** (4.1.174) इत्यपि किञ्चन सूत्रम् पाठ्यते । अनेन सूत्रेण 'अञ्', 'अण्', 'ञ्यङ्', 'ण्य', 'इञ्' एते पञ्च प्रत्ययाः अपि विशिष्ट-सन्दर्भे तद्राजसंज्ञकाः भवन्ति । 4. प्राग्दीव्यतीयप्रकरणे **कम्बोजाल्लुक्** (4.1.175) तथा **स्त्रियामवन्तिकुन्तिकुरुभ्यश्च** (4.1.176) इत्यनेन तद्राजप्रत्ययस्य उक्तः लुक् वर्तमानप्रकरणे न विधीयते, यतः वर्तमानप्रकरणे एतेभ्यः शब्देभ्यः तद्राजप्रत्ययः न पाठ्यते । तथा च, **अतश्च** (4.1.177) इत्यनेन उक्तः लुक् अपि वर्तमानप्रकरणस्य विषये न विधीयते, यतः **न प्राच्यभर्गादियौधेयादिभ्यः** (4.1.178) इत्यनेन वर्तमानप्रकरणस्य विषये विशिष्टरूपेण अयम् लुक् निषिध्यते । Vasu English Summary -------------------- The affixes ञ्य etc. -- पूगाञ्ञ्योऽग्रामणीपूर्वात् (5.3.112), etc. are called तद्राजा। Vasu English Translation ------------------------ The affixes ञ्य etc. -- पूगाञ्ञ्योऽग्रामणीपूर्वात् (5.3.112), etc. are called तद्राजा। The illustrations of *Tadraja* affixes have been given above. The word तद्राज occurs in *Sutra* (2.4.62). Kashika ------- **पूगाञ्ञ्योऽग्रामणीपूर्वात्** (५.३.११२) इत्यतः प्रभृति ये प्रत्ययाः, ते तद्राजसंज्ञा भवन्ति। तथा चैवोदाहृतम्। तद्राजप्रदेशाः — **तद्राजस्य बहुषु०** (२.४.६२) इत्येवमादयः॥ ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ पञ्चमाध्यायस्य तृतीयः पादः॥ Siddhanta Kaumudi ----------------- पूगाञ्यः - (SK2066) इत्यारभ्य उक्ता एतत्संज्ञाः स्युः । तेनास्त्रियां बहुषु लुक् । लोहितध्वजाः । कपोतपाकाः । कौञ्जायनाः । ब्राध्नायना इत्यादि ॥ Balamanorama ------------ **ञ्यादयस्तद्राजाः** - ञ्यादयस्तद्राजाः । लोहितध्वजा इति ।पूगा॑दिति विहितस्य ञ्यस्य तद्वाजत्वाद्बहुत्वे लुक् । कपोतपाकाः कौञ्जायनाः ब्राआध्नायना इति ।व्रातच्फञो॑रिति विहितस्य ञ्यस्य लुक् । इत्यादीति । क्षौद्रक्यौ, क्षुद्रकाः ।आयुधजीवी॑ति ञ्यटो लुक् । वार्केण्यः, वार्केण्यौ, वृकाः । वृकाट्टेण्यणो लुक् । दामनीयः, दीमनीयौ, दामनयः, कौण्डोपरथाः इत्यादौदामन्यादित्रिगर्तषष्ठा॑दिति छस्य लुक् । पार्शवौः, पार्शव, पर्शवः, यौधेयाः इत्यत्र पर्ाआदियौधेयाद्यणञोर्लुक् । आभिजित्यः आभिजित्यौ, अभिजितः, विदभृत इत्यादौअभिजिद्विदभृ॑दित्यादिविहितस्य यञो लुगिति भावः । इति पञ्चमस्य तृतीयपादः । Nyaas ----- इति श्रीबोधिसत्त्वदेशीपाचार्यश्रीजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्चिकायां पञ्चमस्याध्यायस्यतृतीय पादः॥* * *अथ पञ्चमोऽध्यायःचतुर्थः पादः Prakriyasarvasvam ----------------- ञ्यादयः प्रत्ययास्तद्राजाख्याः ।।