53117: पर्श्वादियौधेयादिभ्यामणञौ

Padacheda: पर्श्वादि-यौधेयादिभ्याम् | S | 5 | 2 |

अण्-अञौ | S | 1 | 2 |

Sutrartha

आयुधजीविनाम् सङ्घस्य निर्देशकेभ्यः पर्श्वादिगणस्य शब्देभ्यः तथा च यौधेयादिगणस्य शब्देभ्यः स्वार्थे यथासङ्ख्यमण् तथा अञ् प्रत्ययः विधीयते ।

‘पर्श्वादिगणः’ तथा च ‘यौधेयादिगणः’ एतौ द्वौ कौचन शब्दसमूहौ । एतेषु विद्यमानाः शब्दाः यदि आयुधजीविनाम् सङ्घस्य निर्देशं कुर्वन्ति, तदा तेभ्यः स्वार्थे यथासङ्ख्यम् ‘अण्’ तथा ‘अञ्’ प्रत्ययः विधीयते । क्रमेण पश्यामः - 1. पर्श्वादिगणः - अस्मिन् शब्दे एते सङ्घवाचकाः शब्दाः पाठ्यन्ते - पर्शु, असुर, रक्षस्, बाह्लीक, वयस्, मरुत्, दशार्ह, पिशाच, विशाल, अशनि, कार्षापण, सत्वत्, वसु । एते सर्वे शब्दाः यदा आयुधजीवीनाम् सङ्घस्य नामरूपेण प्रयुज्यते, तदा तेभ्यः स्वार्थे ‘अण् ‘ प्रत्ययः भवति । यथा - अ) पर्शुः इत्येव = पर्शु + अण् → पार्शु + अ [तद्धितेष्वचामादेः (7.3.117) इति आदिवृद्धिः] → पार्शो + अ [ओर्गुणः (6.4.146) इति गुणादेशः] → पार्शवः [एचोऽयवायावः (6.1.78) इति अवादेशः] एवमेव - आ) असुरः सङ्घः इत्येव = आसुरः । इ) रक्षाः सङ्घः इत्येव = रक्षस् + अण् → राक्षसः । 2. यौधेयादिगणः - अस्मिन् शब्दे एते सङ्घवाचकाः शब्दाः पाठ्यन्ते - यौधेय, कौशेय, क्रौशेय, शौक्रेय, शौभ्रेय, धार्तेय, वार्तेय, जाबालेय, त्रिगर्त, भरत, उशीनर । एते सर्वे शब्दाः यदा आयुधजीवीनाम् सङ्घस्य नामरूपेण प्रयुज्यते, तदा तेभ्यः स्वार्थे ‘अञ् ‘ प्रत्ययः भवति । यथा - अ) यौधेयः इत्येव = यौधेयः + अञ् → यौधेय + अ [तद्धितेष्वचामादेः (7.3.117) इति आदिवृद्धिः] → यौधेय् + अ [यस्येति च (6.4.148) इति अकारलोपः] → यौधेयः [एचोऽयवायावः (6.1.78) इति अवादेशः] यद्यप्यत्र पुनः ‘यौधैयः’ इत्येव शब्दः सिद्ध्यति, तथाप्यत्र स्वरे भेदः विद्यते । अञ्-प्रत्ययान्तशब्दस्य आदिस्वरः ञ्नित्यादिर्नित्यम् (6.1.197) इत्यनेन आद्युदात्तः भवति । एतं स्वरभेदं दर्शयितुमेव अत्र अञ्-प्रत्ययविधानम् कृतमस्ति । एवमेव - आ) शौक्रेयः सङ्घः इत्येव = शौक्रेयः । इ) भरतः सङ्घः इत्येव = भारतः । स्मर्तव्यम् - 1. समर्थानां प्रथमात् वा (4.1.86) इत्यस्मात् ‘वा’ इत्यस्य अधिकारः अत्र प्रचलति, अतः अनेन सूत्रेण उक्तौ प्रत्ययौ विकल्पेनैव भवतः । अतः ‘पर्शु’ इत्यपि साधु प्रयोगः, ‘पार्शवः’ इत्यपि च साधु प्रयोगः । एवमेव अन्येषां विषये अपि ज्ञेयम् । 2. अनेन सूत्रेण उक्तस्य अण्/ अञ्-प्रत्यययोः ञ्यादयस्तद्राजाः (5.3.119) इत्यनेन ‘तद्राज’ इति संज्ञा भवति । तद्राजसंज्ञकप्रत्ययानाम् च एकम् वैशिष्ठ्यम् विद्यते - तद्राजस्य बहुषु तेनैवास्त्रियाम् (2.4.62) इत्यनेन सूत्रेण तद्राजसंज्ञकप्रत्ययान्तशब्दानां बहुवचनरूपे तद्राजप्रत्ययस्य लुक् भवति । इत्युक्ते, अत्र ‘पर्शु’ शब्दस्य बहुवचनस्य प्रक्रियायाम् ‘छ’ प्रत्ययस्य लुक् भवति । यथा - पर्शु + अण् + जस् [प्रथमाबहुवचनस्य प्रत्ययः] → पर्शु + जस् [अण्-प्रत्ययस्य तद्राजस्य बहुषु तेनैवास्त्रियाम् (2.4.62) इति लुक्] → पर्शवः अतः ‘पार्शव’ शब्दस्य रूपाणि - ‘पार्शवः, पार्शवौ, पर्शवः’ इति भवन्ति । एवमेव अन्येषां विषये अपि ज्ञेयम् । 3. अतश्च (4.1.177) इत्यनेन पर्श्वादिगणस्य शब्दानाम् स्त्रीलिङ्गरूपप्रक्रियायामण्-प्रत्ययस्य लुक् भवति । अण्-प्रत्ययस्य लुकि कृते एव यथोचितः स्त्रीप्रत्ययः विधीयते । यथा - पर्शुः परिषद् इत्येव = पर्शु + अण् + (स्त्रीप्रत्ययस्य विवक्षा) → पर्शु + X → पर्शु + ऊङ् [ऊङुतः (4.1.66) इति ऊङ्] → पर्शूः । यौधेयादिगणस्य शब्देभ्यः अयम् लुक् न भवति, यतः न प्राच्यभर्गादियौधेयादिभ्यः (4.1.178) इति सः निषिध्यते । यथा - यौधेयः परिषद् = यौधेय + ङीप् [टिड्ढाणञ्.. (4.1.15) इति ङीप्] → यौधेयी ।

Vasu English Summary

The affix अण् comes after पर्शु etc. and the affix अञ् comes after यौधेय etc. without changing the sense when these words denote warrior classes.

Vasu English Translation

The affix अण् comes after पर्शु etc. and the affix अञ् comes after यौधेय etc. without changing the sense when these words denote warrior classes. Thus पार्शवः, pl. पर्शवः आसुरः pl. असुराः, यौधेयः pl. यौधेयाः ॥

1 पर्शु, 2 असुर, 3 रक्षस्, 4 बाहीक (बाल्हीक), 5 वयस्, 6 वसु, 7 मरुत्, 8 सत्वत्, 9 देशाह, 10 पिशाच, 11 अशनि, 12 कार्षापण ॥

1 यौधेय, 2 कौशेय, 3 शौक्रेय, 4 शौभ्रेय, 5 घार्तेय, 6 धार्तेय, 7 ज्याबाणेय (ज्याबालेय), 8 त्रिगत, 9 भरत, 10 उशीनर, 11 क्रौशेय, 12 वार्त्तय ॥ See (5.1.178).

Kashika

आयुधजीविसंघादित्येव। पर्श्वादिभ्यो यौधेयादिभ्यश्च प्रातिपदिकेभ्य आयुधजीविसंघवाचिभ्यः स्वार्थेऽणञौ प्रत्ययौ भवतः। पार्शवः, पार्शवौ, पर्शवः। आसुरः, आसुरौ, असुराः। यौधेयः। शौके्रयः॥ पर्शु। असुर। रक्षस्। बाह्लीक। वयस्। मरुत्। दशार्ह। पिशाच। विशाल। अशनि। कार्षापण। सत्वत्। वसु। पर्श्वादिः॥ यौधेय। कौशेय। क्रौशेय। शौक्रेय। शौभे्रय। धार्तेय। वार्तेय। जाबालेय। त्रिगर्त। भरत। उशीनर। यौधेयादिः॥

Siddhanta Kaumudi

आयुधजीविसङ्घवाचिभ्य एभ्यः क्रमादणञौ स्तः स्वार्थे । पार्शवः । पार्शवौ । पर्शवः । यौधेयः । यौधेयौ । यौधेयाः ॥

Balamanorama

पर्श्वादियौधेयादिभ्यामणञौ - पर्ाआदियौधेयादि । एभ्य इति । पर्ाआदिभ्यो यौधेयादिभ्यश्चेत्यर्थः । पार्शव इति । पर्शुशब्दाज्जनपदक्षत्रियविशेषयोर्वाचकादपत्येष्वर्थेषुद्व्यञ्मगधे॑त्यण् । ततोऽपत्यसङ्घविवक्षायामनेन अणिति भावः । पर्शव इति । अपत्वसङ्गबहुत्वविवक्षायां प्रकृतस्याऽणोऽपि तद्राजत्वाल्लुक्, ‘ञ्यादस्तद्राजाः’ इति वक्ष्यमाणत्वादिति भावः । यौधेय इति । युधाशब्दादपत्येऽर्थे ‘द्व्यचः’ इति ढक् । तदन्ताऽपत्यसङ्घविवक्षायामनेन अञ् । ञित्त्वमाद्युदात्तत्वफलकम् । यौधेया इति । अपत्यसङ्घबहुत्वविवक्षायांतद्राजस्ये॑त्यञो लुक् । ‘कितः’ इत्यन्तोदात्तं फलम् ।

Tattvabodhini

पर्श्वादियौधेयादिभ्यामणञौ - पार्शव इति ।पर्शु॑रितिस जनपदशब्दस्ततोऽपत्येव्द्यञ्मगधे॑त्यण् । बहुत्वे तद्राजत्वाल्लुक् । पुनः सङ्घविवक्षायामनेनाऽण् । अस्याप्यणो बहुत्वे तद्राजत्वाल्लुक् । तदाह -पर्शव इति । ननुपर्शु॑रिति यो जनपदशब्दस्तस्मादेवाऽनेन स्वार्थेऽम् विधीयताम्, अपत्यवाचिपर्शुशब्दात्सङ्घविवक्षायामण्विधौ तु स्वार्थिकत्वं न सिध्येदिति चेत् । अत्राहुः -केवलः पर्शुशब्द एव जनपदवाचीस न त्वणन्त इति जनपदवाचिनः स्वार्थेऽण् न विधीयते, किं तुव्द्यञ्मगधे॑त्यणःतद्राजस्य बहुषु॑इत्यादिना लुकि बह्वपत्यवाचिपर्शुशब्दादेव स्वार्थे विधीयते । स्वार्थश्चात्र सङ्घ एव । न च पर्शुशब्दस्य सङ्घवाचित्वं नेति शङ्क्यं, बह्वपत्यवाचित्वे सङ्घवाचितवध्रौव्यादिति न काप्यनुपपत्तिरिति । यौधेय इति । युध्यतेऽसौ युधा । युधेरिगुपधलक्षणः कः । युधाया अपत्यं ।व्द्यचः॑इति ढक् । तदन्तात्सङ्घाविवक्षायामनेनाऽञ् । तेनयौधेय॑इति आद्युदात्तं भवति । किं च यौधेयस्याऽङ्को लक्षणं वा यौधेयः ।संघाङ्कलक्षणे॑त्यञन्तादञ् । एवं यौधेयाधिषु ये ढगन्ताः शौक्रेयदयस्तेषु सर्वेषु प्रयोजनद्वयमह्रम् । यौधेया इति । अञो लुक् । अन्तोदात्तम् । न चन प्राच्यभर्गे॑त्यादिना न#इषेधः शङ्क्यः, स्त्रियामेव तन्निषेधात् ।

Nyaas

किगर्थ पुनरिह यौधेयादयः पठन्ते, यावता लुक्प्रतिषेधार्थं चतुर्थे यौधेयादयः समाम्नाता एव, त एव चेह गृह्यन्ते? सत्यमेतत्; विचित्रा हि गणानां कृतिर्गणकारेस्येति पुनः पठिताः। पर्(ाआदिषु सत्वच्छशब्दो पठते। स च सत्वच्छब्दपरकृतिर्मतुप्प्रत्ययान्तो वेदितव्यः॥

Prakriyasarvasvam

आयुधजीविवाचिभ्यामाभ्यां क्रमादणञौ । पार्शवः, यौधेयः । प्राग्वद् बहुषु लुक् । पर्शवः । यौधेयाः । लुका स्वरभेदः । स्त्रियाम् ‘अतश्च’ (४-१-१७७) इत्यकाररूपस्य तद्राजस्य लुगुक्तेः पश्वदिरणो लुक् । पर्शूः । मनुष्यजातित्वादूङ् । एवं यौधेयादेरञोऽपि स्त्रियां लुक्प्राप्तौ ‘न प्राच्यभर्गादिभ्यः’ (४-१-१७८) इति निषेधः । यौधेयी । शौभ्रेयी । अजन्तजातित्वात् ङीन् ।