53109: एकशालायाष्ठजन्यतरस्याम् ============================== **Padacheda:** एकशालायाः | S | 5 | 1 | ठच् | S | 1 | 1 | अन्यतरस्याम् | S | 7 | 1 | Sutrartha --------- **'एकशाला' शब्दात् 'इव' इति सन्दर्भे स्वार्थे ठच् प्रत्ययः विकल्पेन भवति । पक्षे ठक् प्रत्ययः अपि विधीयते ।** 'एकशाला' (single room) शब्दात् 'इव' अस्मिन् सन्दर्भे स्वार्थे ठच् तथा ठक् प्रत्ययौ भवतः । एकशाला इव गृहम् (A house that has a single room) = एकशाला + ठक् / ठच् → एकशाला + इक [**ठस्येकः** (7.3.50) इति इक-आदेशः] → ऐकशाला / एकशाला + इक [ठक्-प्रत्ययस्य विषये **किति च** (7.2.118) इति आदिवृद्धिः] → ऐकशाल् / एकशाल् + इक [**यस्येति च** (6.4.148) इति आकारलोपः] → ऐकशालिक / एकशालिक एकशाला इव तत् ऐकशालिकम् एकशालिकम् वा । Just like a single hall / single room - इत्याशयः । स्मर्तव्यम् - **इवे प्रतिकृतौ** (5.2.96) इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये अन्येषु च विषयेषु सर्वत्र 'एकशाला' शब्दात् 'इव' इति सन्दर्भे ठक् / ठच् प्रत्ययः एव भवति । Vasu English Summary -------------------- The affix ठच् also comes optionally after the word एकशाला with the force of 'like this'. Vasu English Translation ------------------------ The affix ठच् also comes optionally after the word एकशाला with the force of 'like this'. Thus एकशालिकः or ऐकशालिकः by ठक् ॥ Kashika ------- एकशालाशब्दादिवार्थेऽन्यतरस्यां ठच् प्रत्ययो भवति। अन्यतरस्यांग्रहणेनानन्तरष्ठक् प्राप्यते। एकशालेव एकशालिकः, ऐकशालिकः॥ Siddhanta Kaumudi ----------------- एकशालाशब्दादिवार्थे ठज्वा पक्षे ठक् । एकशालेव एकशालिकः । ऐकशालिकः ॥ Balamanorama ------------ **एकशालायाष्ठजन्यतरस्याम्** - एकशालायाः । पक्षे ठगिति । अन्यतरस्याङ्ग्रहणमनन्तरठ,कः समुच्चयार्थमिति भावः ।ठज्वे॑त्येव सुवचम् । Padamanjari ----------- अनेकार्थत्वन्निपातानामन्यतरस्यांग्रहणमिह समुच्चयार्थम्, न विकल्पार्थमित्याह - अन्यतरस्यांग्रहणेनेत्यादि ॥ Nyaas ----- `अन्यतरस्यांग्रहणेन` इत्यादि। पूर्वसूत्रेण (5.3.108) विहितत्वाट्ठगेवानन्तरः। अन्यतरस्यांग्रहणं समुच्चयार्थम्। अतस्तेन `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` (व्या।प।19) इति स एव प्राप्यते॥ Prakriyasarvasvam ----------------- अत्रान्यतरस्यामिति समुच्चये । तेन ठक् च स्यात् । एकशालिकः । ऐकशालिकः ॥