53103: शाखादिभ्यो यत्

Padacheda: शाखादिभ्यः | S | 5 | 3 |

यत् | S | 1 | 1 |

Sutrartha

शाखादिगणस्य शब्देभ्यः ‘इव’ अस्मिन् सन्दर्भे स्वार्थे ‘यत्’ प्रत्ययः विधीयते ।

शाखादिगणस्य शब्देभ्यः ‘इव’ इति सन्दर्भे ‘यत्’ इति प्रत्ययः भवति । शाखादिगणः अयम् - शाखा, मुख, जघन, शृङ्ग, मेघ, चरण, स्कन्ध, शिरस्, उरस्, अग्र, शरण, सोम। रूपाणि एतानि - 1. शाखा इव = शाखा + यत् → शाख्य । 2. मुखः इव = मुख्य । यथा मुखम् शरीरस्य प्रमुखः अवयवः, स एव च भाषते (अन्ये अवयवाः न भाषन्ते), तथैव यः सङ्घस्य प्रमुखः सः ‘मुख्यः’ इत्यनेन निर्दिश्यते । 3. जघनः इव = जघन्य । 4. शृङ्गः इव = शृङ्ग्यः । 5. मेघः इव = मेघ्यः । 6. चरणः इव = चरण्यः । 7. स्कन्धः इव = स्कन्ध्यः । 8. शिरः इव = शिरस्यः । 9. उरः इव = उरस्यः । 10. अग्रः इव = अग्र्यः । 11. शरणः इव = शरण्यः । 12. सोमः इव = सोम्यः । विशेषः - 1. स्त्रीत्वे विवक्षिते सर्वत्र अजाद्यतष्टाप् (4.1.4) इति टाप्-प्रत्ययः विधीयते । यथा - मुख्या, शाख्या - आदयः । 2. केषुचन पुस्तकेषु / संस्करणेषु अत्र ‘यत् ‘ इत्यस्य स्थाने ‘य’ इति प्रत्ययः पाठ्यते ।परन्तु तत् असमीचीनमस्तीति बालमनोरमायां स्पष्टीक्रियते । स्मर्तव्यम् - इवे प्रतिकृतौ (5.2.96) इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये अन्येषु च विषयेषु सर्वत्र शाखादिगणस्य शब्देभ्यः ‘इव’ इति सन्दर्भे यत्-प्रत्ययः एव भवति ।

Vasu English Summary

The affix यत् comes in the sense of ‘like this’ after शाखा etc.

Vasu English Translation

The affix यत् comes in the sense of ‘like this’ after शाखा etc. Thus शाखेव = शाख्यः, मुख्यः (6.1.213), जघन्यः &c.

1 शाखा, 2 मुख, 3 जघन, 4 शृङ्ग 5 मेघ, 6 अभ्र, 7 चरण, 8 स्कन्ध, 9 स्कन्द, 10 उरस्, 11 शिरस्, 12 अग्र, 13 शरण ॥

Kashika

शाखा इत्येवमादिभ्यः प्रातिपदिकेभ्यो यत् प्रत्ययो भवति इवार्थे। शाखेव शाख्यः। मुख्यः। जघन्यः॥ शाखा। मुख। जघन। शृङ्ग । मेघ। चरण। स्कन्ध। शिरस्। उरस्। अग्र। शरण। शाखादिः॥

Siddhanta Kaumudi

शाखेव शाख्यः । मुख्यः । जघनमिव जघन्यः । अग्र्यः । शरण्यः ॥

Balamanorama

शाखाऽऽदिभ्यो यत् - शाखादिभ्यो यत् । ‘य’ इति त्वपपाठः । तैत्तिरीये॒मुख्यो भवती॑त्यादौ मुख्यशब्दस्य आद्युदात्तत्वदर्शनात्, उगवादिसूत्रभाष्यविरुद्धत्वाच्च ।

Prakriyasarvasvam

‘शाखामुखजघनमेघचरणस्कन्धोरश्शिरश्शृङ्गाग्रशरणेभ्यः’ (स० ५-३-१३८)। शाखातुल्यः शाख्यः, मुख्यः, जघन्यः । मेध्यो हरिः । चरण्यः, स्कन्ध्यः, उरस्यः, शिरस्यः, शृङ्ग्यः अग्र्यः । गृहवदाश्रयः शरण्यः । शरणे समाश्रयणे साधुरिति शङ्करः । सोमवत् प्रियदर्शनं सोम्यमिति च स्वामी ॥

Sutra Prayogas

  • वात्या (शिशुपालवधम्): शाखादिभ्यो यत् इति यत्प्रत्ययः।

  • जघन्यानां (भट्टिकाव्यम्): शाखादिभ्यो यः इतीवार्थे यः।