53103: शाखादिभ्यो यत् ===================== **Padacheda:** शाखादिभ्यः | S | 5 | 3 | यत् | S | 1 | 1 | Sutrartha --------- **शाखादिगणस्य शब्देभ्यः 'इव' अस्मिन् सन्दर्भे स्वार्थे 'यत्' प्रत्ययः विधीयते ।** शाखादिगणस्य शब्देभ्यः 'इव' इति सन्दर्भे 'यत्' इति प्रत्ययः भवति । शाखादिगणः अयम् - शाखा, मुख, जघन, शृङ्ग, मेघ, चरण, स्कन्ध, शिरस्, उरस्, अग्र, शरण, सोम। रूपाणि एतानि - 1. शाखा इव = शाखा + यत् → शाख्य । 2. मुखः इव = मुख्य । यथा मुखम् शरीरस्य प्रमुखः अवयवः, स एव च भाषते (अन्ये अवयवाः न भाषन्ते), तथैव यः सङ्घस्य प्रमुखः सः 'मुख्यः' इत्यनेन निर्दिश्यते । 3. जघनः इव = जघन्य । 4. शृङ्गः इव = शृङ्ग्यः । 5. मेघः इव = मेघ्यः । 6. चरणः इव = चरण्यः । 7. स्कन्धः इव = स्कन्ध्यः । 8. शिरः इव = शिरस्यः । 9. उरः इव = उरस्यः । 10. अग्रः इव = अग्र्यः । 11. शरणः इव = शरण्यः । 12. सोमः इव = सोम्यः । विशेषः - 1. स्त्रीत्वे विवक्षिते सर्वत्र **अजाद्यतष्टाप्** (4.1.4) इति टाप्-प्रत्ययः विधीयते । यथा - मुख्या, शाख्या - आदयः । 2. केषुचन पुस्तकेषु / संस्करणेषु अत्र 'यत् ' इत्यस्य स्थाने 'य' इति प्रत्ययः पाठ्यते ।परन्तु तत् असमीचीनमस्तीति बालमनोरमायां स्पष्टीक्रियते । स्मर्तव्यम् - **इवे प्रतिकृतौ** (5.2.96) इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये अन्येषु च विषयेषु सर्वत्र शाखादिगणस्य शब्देभ्यः 'इव' इति सन्दर्भे यत्-प्रत्ययः एव भवति । Vasu English Summary -------------------- The affix यत् comes in the sense of 'like this' after शाखा etc. Vasu English Translation ------------------------ The affix यत् comes in the sense of 'like this' after शाखा etc. Thus शाखेव = शाख्यः, मुख्यः (6.1.213), जघन्यः &c. 1 शाखा, 2 मुख, 3 जघन, 4 शृङ्ग 5 मेघ, 6 अभ्र, 7 चरण, 8 स्कन्ध, 9 स्कन्द, 10 उरस्, 11 शिरस्, 12 अग्र, 13 शरण ॥ Kashika ------- शाखा इत्येवमादिभ्यः प्रातिपदिकेभ्यो यत् प्रत्ययो भवति इवार्थे। शाखेव शाख्यः। मुख्यः। जघन्यः॥ शाखा। मुख। जघन। शृङ्ग । मेघ। चरण। स्कन्ध। शिरस्। उरस्। अग्र। शरण। शाखादिः॥ Siddhanta Kaumudi ----------------- शाखेव शाख्यः । मुख्यः । जघनमिव जघन्यः । अग्र्यः । शरण्यः ॥ Balamanorama ------------ **शाखाऽऽदिभ्यो यत्** - शाखादिभ्यो यत् । 'य' इति त्वपपाठः । तैत्तिरीये॒मुख्यो भवती॑त्यादौ मुख्यशब्दस्य आद्युदात्तत्वदर्शनात्, उगवादिसूत्रभाष्यविरुद्धत्वाच्च । Prakriyasarvasvam ----------------- 'शाखामुखजघनमेघचरणस्कन्धोरश्शिरश्शृङ्गाग्रशरणेभ्यः' (स० ५-३-१३८)। शाखातुल्यः शाख्यः, मुख्यः, जघन्यः । मेध्यो हरिः । चरण्यः, स्कन्ध्यः, उरस्यः, शिरस्यः, शृङ्ग्यः अग्र्यः । गृहवदाश्रयः शरण्यः । शरणे समाश्रयणे साधुरिति शङ्करः । सोमवत् प्रियदर्शनं सोम्यमिति च स्वामी ॥ Sutra Prayogas -------------- * **वात्या** (शिशुपालवधम्): `शाखादिभ्यो यत्` इति यत्प्रत्ययः। * **जघन्यानां** (भट्टिकाव्यम्): `शाखादिभ्यो यः` इतीवार्थे यः।