53104: द्रव्यं च भव्ये¶
Padacheda: द्रव्यम् | S | 1 | 1 |
च | S | 0 | 0 |
भव्ये | S | 7 | 1 |
Sutrartha¶
‘द्रव्यम्’ इति शब्दः ‘भव्यम्’ इत्यस्मिन् अर्थे निपात्यते ।
भव्य (= योग्यम्, उचितम्, appropriate / adequate / full of ) एतस्मिन् अर्थे ‘द्रव्य’ अयम् शब्दः अनेन सूत्रेण निपात्यते । काशिकाकारः अस्य अर्थम् एतादृशम् वदति - ‘अभिप्रेतानामर्थानाम् पात्रभूतः’ । The one who has appropriate qualities that are required - इति आशयः । यथा - द्रव्यः राजपुत्रः = सः राजपुत्रः यः सर्वैः गुणैः सम्पन्नः अस्ति । One who is appropriately called a prince - इति आशयः । विशेषः - द्रु (वृक्षः) अस्मात् शब्दात् ‘इव’ इति सन्दर्भे यत्-प्रत्ययं कृत्वा ‘द्रव्य’ शब्दः सिद्ध्यतीति - व्याख्यानैः स्पष्टीभवति । ‘सकल-गुणानाम् वृक्षः इव ‘ इति अत्र आशयः अस्ति । यथा - कश्चन राजपुत्रः यदि राजकर्मणि आवश्यकानाम् गुणानाम् वृक्षः इव अस्ति, तर्हि तस्य निर्देशः ‘द्रव्यः राजपुत्रः’ इत्यनेन क्रियते ।
Vasu English Summary¶
The word द्रव्य is anomalous meaning ‘beautiful’.
Vasu English Translation¶
The word द्रव्य is anomalous meaning ‘beautiful’. The word द्रव्य is formed by adding यत् to the word द्रु ॥ The word भव्य means ‘nice, excellent, proper, fit; having or containing in himself all the desired requisites’. As द्रव्योऽयं राजपुत्रः ‘how nice is this Prince’. द्रव्योऽयं माणवकः ॥
Kashika¶
द्रव्यशब्दो निपात्यते भव्येऽभिधेये। द्रुशब्दादिवार्थे यत् प्रत्ययो निपात्यते। द्रव्यं भव्यः, आत्मवान्, अभिप्रेतानामर्थानां पात्रभूत उच्यते। द्रव्योऽयं राजपुत्रः। द्रव्योऽयं माणवकः॥
Siddhanta Kaumudi¶
द्वव्यमयं ब्राह्मणः ॥
Balamanorama¶
द्रव्यं च भव्ये - द्रव्यं च भव्ये । द्रुशब्दादिवार्थवृत्तेर्यप्रत्ययो निपात्यते भव्ये उपमेये गम्ये । भव्य आत्मवान् ।अभिप्रेतानामर्थानां पात्रभूतः॑ इति वृत्तिः । द्रव्यमयमिति । द्रुः=वृक्षः, स यथा पुष्पफलादिभागेवमभिमतफलपात्रभूत इत्यर्थः । यद्वा द्रुः=कल्पवृक्षो ।ञत्र विवक्षितः, स इव अभिमतार्थभागित्यर्थः । यप्रत्यये ओर्गुणः । अवादेशः ।
Tattvabodhini¶
द्रव्यं च भव्ये - द्रव्यं च भव्ये । द्रुशब्दादिवार्थे यत्प्रत्ययो निपात्यते । समासाच्च तद्विषयात् । तच्छब्देन प्रकृत इवार्थो निर्दिश्यते इत्याह -इवार्थविषयादिति । थः स्यादिति । इवार्थे इति बोध्यम् ।पूगाञ्ञ्यः॑इत्यतः प्रागिवेत्याधिकारात् । शास्त्री श्यामेत्यादौ तु एक एव इवार्थः, स च समासान्तर्भूत इति छो न भवत्युक्तार्थानामप्रयोगात् ।
Prakriyasarvasvam¶
समर्थे वाच्ये द्रव्येति निपात्यते । द्रव्यमयं राजपुत्रः, पुष्पफलवान् द्रुरिवेष्टसाधनक्षय उक्तः । पुरुषार्थसाधनत्वाद् धनमपि द्रव्यमिति नाथः ॥