53096: इवे प्रतिकृतौ

Padacheda: इवे | S | 7 | 1 |

प्रतिकृतौ | S | 7 | 1 |

Sutrartha

‘इव’ इत्यस्य प्रयोगेण यदा प्रतिकृतिः निर्दिश्यते, तदा स्वार्थे कन्-प्रत्ययः भवति ।

‘इव’ इति किञ्चन अव्ययम् । सामान्यरूपेण साधर्म्यम् (similarity) दर्शयितुमस्य अव्ययस्य प्रयोगः भवति । यथा - ‘अयम् पशुः गौः इव अस्ति’ - इति ।एतादृशम् साधर्म्यम् यत्र प्रतिकृतेः (= photocopy / identical model) इत्यस्य विषये विधीयते, तत्र वर्तमानसूत्रेण प्रातिपदिकात् स्वार्थे कन् प्रत्ययः भवति । When the word इव is used to indicate similarity between two distinct entities, oneof which is a photocopy or a model of another, the कन् is used to indicate the photocopy). यथा - 1. ‘अश्वः इव इयमश्वस्य प्रतिकृतिः’ (This statue of a horse is exactly like the original horse) अस्मिन् वाक्ये ‘इव’ शब्दस्य प्रयोगः प्रतिकृतेः साधर्म्यम् निर्देशयितुम् कृतः अस्ति । अतः अस्याः प्रतिकृतेः निर्देशः ‘अश्व + कन् = अश्वक’ इत्यनेन अपि क्रियते । अश्व इव अयमश्वप्रतिकृतिः अश्वकः । एवमेव - 2. उष्ट्रः इव इयम् प्रतिकृतिः = उष्ट्रकः । 3. गर्दभः इव इयम् प्रतिकृतिः = गर्दभकः । स्मर्तव्यम् - यदि प्रतिकृत्या सह साधर्म्यम् न उच्यते, तर्हि वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - ‘गौः इव अयम् गवयः (This ox is just like a cow)’ इत्यस्मिन् वाक्ये गवयस्य साधर्म्यमुच्यते, ‘गवयः’ इति तु नैव प्रतिकृतिः । अतः अत्र अस्य सूत्रस्य प्रयोगः न भवति । विशेषः - अस्मिन् सूत्रे लघुसिद्धान्तकौमुद्याम् किञ्चन वार्त्तिकं लभ्यते - <!सर्वप्रातिपदिकेभ्यः स्वार्थे कन् वक्तव्यः!> । इत्युक्ते, ‘कन्’ प्रत्ययः सर्वेभ्यः प्रातिपदिकेभ्यः स्वार्थे भवितुमर्हति । अस्य वार्त्तिकस्य साहाय्येन भिन्नानां शब्दानां व्युत्पत्तिः अपि सम्भवति । यथा - ‘बालः एव बालकः । पुष्पम् एव पुष्पकम् । माला एव मालाका । भूमि एव भूमिका’ - आदयः । एतत् वार्त्तिकम् महाभाष्ये न विद्यते, परन्तु काशिकाकारेण न सामिवचने (5.4.5) इत्यत्र अस्य ज्ञापनं कृतमस्ति । परन्तु अनेके पण्डिताः एतत् वार्त्तिकम् न स्वीकुर्वन्ति । तेषां मतेन यावादिभ्यः कन् (5.4.29) इत्यत्र निर्दिष्टः यावादिगणः आकृतिगणः अस्ति, अतः येभ्यः शब्देभ्यः स्वार्थे कन्-प्रत्ययः इष्यते, ते सर्वे शब्दाः यावादिगणे भवितुमर्हन्ति एव ।

Vasu English Summary

The affix कन् means also ‘like this’ when the imitation of a thing is to be expressed.

Vasu English Translation

The affix कन् means also ‘like this’ when the imitation of a thing is to be expressed. The word कन् is understood here. Thus अश्व इवायमश्व प्रतिकृतिः = अश्वकः ‘an imitation of a horse’ in wood or clay &c. उष्ट्रकः, गर्दभकः ॥ Why do we say ‘imitation ?’ Observe गौरिव गवयः “The gayal cow”.

Kashika

कनित्यनुवर्तते। इवार्थे यत् प्रातिपदिकं वर्तते, तस्मात् कन् प्रत्ययो भवति। इवार्थः सादृश्यम्, तस्य विशेषणं प्रतिकृतिग्रहणम्। प्रतिकृतिः प्रतिरूपकं प्रतिच्छन्दकम्। अश्व इवायमश्वप्रतिकृतिरश्वकः। उष्ट्रकः। गर्दभकः। प्रतिकृताविति किम्? गौरिव गवयः॥

Siddhanta Kaumudi

कन् स्यात् । अश्व इव प्रतिकृतिः अश्वकः । प्रतिकृतौ किम् । गौरिव गवयः ॥

Laghu Siddhanta Kaumudi

कन् स्यात् । अश्व इव प्रतिकृतिरश्वकः । सर्वप्रातिपदिकेभ्यः स्वार्थे कन् (वार्त्तिकम्) । अश्वकः ॥

Balamanorama

इवे प्रतिकृतौ - अथ तद्धिते स्वार्थिकप्रकरणं निरूप्यते । इवे प्रतिकृतौ । कन्स्यादिति ।अवक्षेपणे क॑न्नित्यतस्तदनुवृत्तेरिति भावः । इवार्थौपमानत्वम् । तद्वति वर्तमानात्प्रातिपदिकात्कन्स्यात्प्रतिकृतिभूते उपमेये इति फलितम् । मृदादिनिर्मिता प्रतिमा प्रतिकृतिः । अआक इति । प्रतिकृतेः स्त्रीत्वेऽपिस्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते॑ इति पुंलिङ्गत्वम् ।

Tattvabodhini

इवे प्रतिकृतौ - अआक इति । अआशब्दोऽस्वे एव वर्तते, कन्प्रत्ययस्तु प्रतिकृतिरूपे सदृश इति नाऽयं स्वार्थिक इत्येके । अन्ये तु सादृश्यनिबन्धनादभेदोपचाराद्गौर्वाहिक इति वदआशब्द एव प्रतिकृतौ वर्तते । प्रत्ययस्तु तस्यैवौपचारि कत्वस्य बोधक इत्याहुः । प्रतिकृतौ किम् । गौरवि गवयः । तृणचर्मकाष्ठादिनिर्मितं प्रतिमाऽपरपर्यायं वस्तु प्रतिकृतिः । गवयस्तु नैवम् ।

Padamanjari

इवार्थः सादृश्यमिति। कन् प्रत्ययस्तु स्वभावात्सदृशे भवति, न सादृश्यमात्रे; यथा-प्रकारेऽपि विहितो जातीयर्-प्रत्ययस्तद्वति भवति । ???????? शेषणं प्रतिकृतिग्रहणमिति। प्रतिकृतिविषयं यत्सादृस्यं तत्र प्रत्ययो यथा स्याती कोऽर्थः? प्रतिकृतिस्वरूपं यत्सदृशं यत्सदृशं तत्रेत्यर्थः। अश्व इवायमश्वप्रतिकृतिरिति! अश्वप्रतिकृतिरूपोऽस्वसदृशोऽयं पदार्थ इत्यर्थः। अश्वक इति। केचिदाहुः - ठश्वशब्दोऽश्व एव वर्तते, कन्प्रत्ययस्तु प्रतिकृतिरूपे सदृश इति स्वार्थिकोऽयं न भवतिऽ इति। अपर आह -‘सादृश्यनिबन्धनादभेदोपचाराद् गौर्वाहीक इतिवद् अश्वशब्द एव प्रतिकृतौ वर्तते, प्रत्ययस्तु तस्यैवोपचारस्य द्योतकः’ इति। गौरिव गवय इति। गवयो गोन प्रतिकृतिः, तृणचर्मकाष्ठादिनिर्मितं हि प्रतिच्छन्दकमुप्रतिकृतिः, न चैवं गवयः ॥

Nyaas

तद्विशेषणं प्रतिकृतिग्रहणम् इति। प्रतकृतिविषयं यत्र सादृश्यं तत्र प्रयोगो यथा स्यात्। गौरिवगवय इत्यत्रास्ति सादृश्यम्, न तु प्रतिकृतिविषयम्; न हि गौर्गवयप्रतिकृतिः। काष्ठादिमयं हि यत्? प्रतिच्छन्देकं तत्? प्रकृतिच्यते॥

Prakriyasarvasvam

इवार्थे प्रतिमायां वाच्यायां कन् स्यात् । अश्वसदृशी प्रतिमा अश्वकः । प्रतिकृतित्वादेव सादृश्यसिद्धेरिवोक्तिरुत्तरार्था ॥