53096: इवे प्रतिकृतौ ==================== **Padacheda:** इवे | S | 7 | 1 | प्रतिकृतौ | S | 7 | 1 | Sutrartha --------- **'इव' इत्यस्य प्रयोगेण यदा प्रतिकृतिः निर्दिश्यते, तदा स्वार्थे कन्-प्रत्ययः भवति ।** 'इव' इति किञ्चन अव्ययम् । सामान्यरूपेण साधर्म्यम् (similarity) दर्शयितुमस्य अव्ययस्य प्रयोगः भवति । यथा - 'अयम् पशुः गौः इव अस्ति' - इति ।एतादृशम् साधर्म्यम् यत्र प्रतिकृतेः (= photocopy / identical model) इत्यस्य विषये विधीयते, तत्र वर्तमानसूत्रेण प्रातिपदिकात् स्वार्थे कन् प्रत्ययः भवति । When the word इव is used to indicate similarity between two distinct entities, oneof which is a photocopy or a model of another, the कन् is used to indicate the photocopy). यथा - 1. 'अश्वः इव इयमश्वस्य प्रतिकृतिः' (This statue of a horse is exactly like the original horse) अस्मिन् वाक्ये 'इव' शब्दस्य प्रयोगः प्रतिकृतेः साधर्म्यम् निर्देशयितुम् कृतः अस्ति । अतः अस्याः प्रतिकृतेः निर्देशः 'अश्व + कन् = अश्वक' इत्यनेन अपि क्रियते । अश्व इव अयमश्वप्रतिकृतिः अश्वकः । एवमेव - 2. उष्ट्रः इव इयम् प्रतिकृतिः = उष्ट्रकः । 3. गर्दभः इव इयम् प्रतिकृतिः = गर्दभकः । स्मर्तव्यम् - यदि प्रतिकृत्या सह साधर्म्यम् न उच्यते, तर्हि वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - 'गौः इव अयम् गवयः (This ox is just like a cow)' इत्यस्मिन् वाक्ये गवयस्य साधर्म्यमुच्यते, 'गवयः' इति तु नैव प्रतिकृतिः । अतः अत्र अस्य सूत्रस्य प्रयोगः न भवति । विशेषः - अस्मिन् सूत्रे लघुसिद्धान्तकौमुद्याम् किञ्चन वार्त्तिकं लभ्यते - । इत्युक्ते, 'कन्' प्रत्ययः सर्वेभ्यः प्रातिपदिकेभ्यः स्वार्थे भवितुमर्हति । अस्य वार्त्तिकस्य साहाय्येन भिन्नानां शब्दानां व्युत्पत्तिः अपि सम्भवति । यथा - 'बालः एव बालकः । पुष्पम् एव पुष्पकम् । माला एव मालाका । भूमि एव भूमिका' - आदयः । एतत् वार्त्तिकम् महाभाष्ये न विद्यते, परन्तु काशिकाकारेण **न सामिवचने** (5.4.5) इत्यत्र अस्य ज्ञापनं कृतमस्ति । परन्तु अनेके पण्डिताः एतत् वार्त्तिकम् न स्वीकुर्वन्ति । तेषां मतेन **यावादिभ्यः कन्** (5.4.29) इत्यत्र निर्दिष्टः यावादिगणः आकृतिगणः अस्ति, अतः येभ्यः शब्देभ्यः स्वार्थे कन्-प्रत्ययः इष्यते, ते सर्वे शब्दाः यावादिगणे भवितुमर्हन्ति एव । Vasu English Summary -------------------- The affix कन् means also 'like this' when the imitation of a thing is to be expressed. Vasu English Translation ------------------------ The affix कन् means also 'like this' when the imitation of a thing is to be expressed. The word कन् is understood here. Thus अश्व इवायमश्व प्रतिकृतिः = अश्वकः 'an imitation of a horse' in wood or clay &c. उष्ट्रकः, गर्दभकः ॥ Why do we say 'imitation ?' Observe गौरिव गवयः "The gayal cow". Kashika ------- कनित्यनुवर्तते। इवार्थे यत् प्रातिपदिकं वर्तते, तस्मात् कन् प्रत्ययो भवति। इवार्थः सादृश्यम्, तस्य विशेषणं प्रतिकृतिग्रहणम्। प्रतिकृतिः प्रतिरूपकं प्रतिच्छन्दकम्। अश्व इवायमश्वप्रतिकृतिरश्वकः। उष्ट्रकः। गर्दभकः। प्रतिकृताविति किम्? गौरिव गवयः॥ Siddhanta Kaumudi ----------------- कन् स्यात् । अश्व इव प्रतिकृतिः अश्वकः । प्रतिकृतौ किम् । गौरिव गवयः ॥ Laghu Siddhanta Kaumudi ----------------------- कन् स्यात् । अश्व इव प्रतिकृतिरश्वकः । **सर्वप्रातिपदिकेभ्यः स्वार्थे कन्** (वार्त्तिकम्) । अश्वकः ॥ Balamanorama ------------ **इवे प्रतिकृतौ** - अथ तद्धिते स्वार्थिकप्रकरणं निरूप्यते । इवे प्रतिकृतौ । कन्स्यादिति ।अवक्षेपणे क॑न्नित्यतस्तदनुवृत्तेरिति भावः । इवार्थौपमानत्वम् । तद्वति वर्तमानात्प्रातिपदिकात्कन्स्यात्प्रतिकृतिभूते उपमेये इति फलितम् । मृदादिनिर्मिता प्रतिमा प्रतिकृतिः । अआक इति । प्रतिकृतेः स्त्रीत्वेऽपिस्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते॑ इति पुंलिङ्गत्वम् । Tattvabodhini ------------- **इवे प्रतिकृतौ** - अआक इति । अआशब्दोऽस्वे एव वर्तते, कन्प्रत्ययस्तु प्रतिकृतिरूपे सदृश इति नाऽयं स्वार्थिक इत्येके । अन्ये तु सादृश्यनिबन्धनादभेदोपचाराद्गौर्वाहिक इति वदआशब्द एव प्रतिकृतौ वर्तते । प्रत्ययस्तु तस्यैवौपचारि कत्वस्य बोधक इत्याहुः । प्रतिकृतौ किम् । गौरवि गवयः । तृणचर्मकाष्ठादिनिर्मितं प्रतिमाऽपरपर्यायं वस्तु प्रतिकृतिः । गवयस्तु नैवम् । Padamanjari ----------- इवार्थः सादृश्यमिति। कन् प्रत्ययस्तु स्वभावात्सदृशे भवति, न सादृश्यमात्रे; यथा-प्रकारेऽपि विहितो जातीयर्-प्रत्ययस्तद्वति भवति । ???????? शेषणं प्रतिकृतिग्रहणमिति। प्रतिकृतिविषयं यत्सादृस्यं तत्र प्रत्ययो यथा स्याती कोऽर्थः? प्रतिकृतिस्वरूपं यत्सदृशं यत्सदृशं तत्रेत्यर्थः। अश्व इवायमश्वप्रतिकृतिरिति! अश्वप्रतिकृतिरूपोऽस्वसदृशोऽयं पदार्थ इत्यर्थः। अश्वक इति। केचिदाहुः - ठश्वशब्दोऽश्व एव वर्तते, कन्प्रत्ययस्तु प्रतिकृतिरूपे सदृश इति स्वार्थिकोऽयं न भवतिऽ इति। अपर आह -'सादृश्यनिबन्धनादभेदोपचाराद् गौर्वाहीक इतिवद् अश्वशब्द एव प्रतिकृतौ वर्तते, प्रत्ययस्तु तस्यैवोपचारस्य द्योतकः' इति। गौरिव गवय इति। गवयो गोन प्रतिकृतिः, तृणचर्मकाष्ठादिनिर्मितं हि प्रतिच्छन्दकमुप्रतिकृतिः, न चैवं गवयः ॥ Nyaas ----- `तद्विशेषणं प्रतिकृतिग्रहणम्` इति। प्रतकृतिविषयं यत्र सादृश्यं तत्र प्रयोगो यथा स्यात्। गौरिवगवय इत्यत्रास्ति सादृश्यम्, न तु प्रतिकृतिविषयम्; न हि गौर्गवयप्रतिकृतिः। काष्ठादिमयं हि यत्? प्रतिच्छन्देकं तत्? प्रकृतिच्यते॥ Prakriyasarvasvam ----------------- इवार्थे प्रतिमायां वाच्यायां कन् स्यात् । अश्वसदृशी प्रतिमा अश्वकः । प्रतिकृतित्वादेव सादृश्यसिद्धेरिवोक्तिरुत्तरार्था ॥