53095: अवक्षेपणे कन्¶
Padacheda: अवक्षेपणे | S | 7 | 1 |
कन् | S | 1 | 1 |
Sutrartha¶
‘अवक्षेपण’ अस्मिन् सन्दर्भे प्रातिपदिकात् स्वार्थे कन्-प्रत्ययः भवति ।
अवक्षेपण इत्युक्ते निन्दायाः करणम् (= यस्य निर्देेशं कृत्वा निन्दा क्रियते, तस्य नाम अवक्षेपण इति दीयते) । अस्मिन् सन्दर्भे प्रातिपदिकात् स्वार्थे कन्-प्रत्ययः भवति । यथा - 1. ‘व्याकरणेन नाम त्वं गर्वितः’ (You have an ego of your knowledge of grammar) - अस्मिन् सन्दर्भे ‘व्याकरण’शब्दात् वर्तमानसूत्रेण ‘कन्’ प्रत्ययं कृत्वा ‘व्याकरणक’ इति शब्दः सिद्ध्यति । ‘व्याकरणकेन नाम त्वं गर्वितः’ इत्युक्ते ‘त्वम् व्याकरणेन गर्वितः असि’ इत्येव । 2. ‘याज्ञिक्येन नाम त्वं गर्वितः’ ( You have ego of being a याज्ञिक) - अस्मिन् सन्दर्भे ‘याज्ञिक्य’ शब्दात् ‘कन्’ प्रत्ययं कृत्वा ‘याज्ञिक्येन नाम त्वं गर्वितः’ इति प्रयोगः सिद्ध्यति । ज्ञातव्यम् - 1. यस्य कारणेन गर्वः जातः, तस्मात् प्रातिपदिकात् स्वार्थे प्रत्ययविधानमत्र कृतमस्ति । यथा, ‘व्याकरणेन नाम त्वं गर्वितः’ इत्यत्र ‘व्याकरण’ इति गर्वस्य मूलकारणम्, अतः ‘व्याकरण’ शब्दात् स्वार्थे कन्-प्रत्ययं कृत्वा ‘व्याकरणक’ इति शब्दः ‘व्याकरण’ अस्मिन्नेव अर्थे सिद्ध्यति । व्याकरणेन यः गर्वितः अस्ति, तस्य निर्देशः ‘व्याकरणक’ इत्यनेन न क्रियते - इति स्मर्तव्यम् । तथा च, स्वयं व्याकरणमत्र न निन्द्यते, अपितु व्याकरणस्य साहाय्येन यः गर्वं करोति तस्य अत्र निन्दा कृता अस्ति - इति स्मर्तव्यम् । 2. कुत्सिते (5.3.74) इत्यनेन सूत्रेण अपि निन्दायाम् एव प्रत्ययविधानम् भवति, परन्तु तत् विधानम् कर्मणः निर्देशं कारयति, न हि करणस्य । यथा - ‘कुत्सितः देवदत्त’ ‘इत्युक्ते देवदत्तः स्वयमेव कुत्सितः अस्ति, न हि केनचित् विशिष्टकारणेन । The current sutra gives a प्रत्यय that gets attached to a ‘करण’, where as the sutra कुत्सिते (5.3.74) gives the प्रत्यय that gets attached to the कर्म । अस्यैव स्पष्टीकरणार्थम् भाष्येषु उक्तमस्ति - ‘येन इतरः कुत्स्यते तद् इह उदाहरणम्’ । The grammar is being used as an instrument of the निन्दा of someone else, hence the current sutra is applicable here. If grammar itself undergoes निन्दा, then we would have used कुत्सिते (5.3.74) - इत्याशयः । 3. कन् तथा क - द्वयोः प्रत्यययोः समानमेव रूपं सिद्ध्यति, परन्तु तयोर्मध्ये स्वरभेदः विद्यते । कन्-प्रत्ययान्तशब्दानामादिस्वरः ञ्नित्यादिर्नित्यम् (6.1.197) इत्यनेन उदात्तः भवति । क-प्रत्ययान्तशब्दानां विषये तु आद्युदात्तश्च (3.1.3) इत्यनेन प्रत्ययस्य आदिस्वरः उदात्तः भवति । स्मर्तव्यम् - अस्य सूत्रस्य विषये काशिकाकारः कुत्सिते (5.3.74) इत्यस्य प्रयोगे अपि कन्-प्रत्ययम् एव पाठयति । इदम् विधानम् प्रायः दोषपूर्णम्, यतः तत्वबोधिन्याम् ‘अवक्षेपणे कन्। कुत्सिते तु कः। स्वरे विशेषः’ इति स्पष्टरूपेण प्रतिपादितमस्ति । विशेषः - प्रागित्वात् कः (5.3.70) इत्यत्र प्रारब्धः ‘क’ प्रत्ययस्य अधिकारः अत्र समाप्यते ।
Vasu English Summary¶
The affix कन् comes after a प्रातिपदिक (Nominal Stem) in expressing scoffing.
Vasu English Translation¶
The affix कन् comes after a प्रातिपदिक (Nominal Stem) in expressing scoffing. Thus व्याकरणकः ‘Grammar’ used in a derisive sense, when its study produces pride. As व्याकरणकेन नाम त्वं गर्वितः ‘thou art proud, because thou hast read grammar only’. याज्ञिक्यकेन नाम त्वं गर्वितः ॥ Here the words व्याकरणक and याज्ञिक्यक are used in a mocking sense. When, however, the derision applies to the person itself, then कन् is added by (5.3.14): as देवदत्तकः &c.
So far the governing power of क (5.3.70).
Bhashya¶
अवक्षेपणे कन् (2253) (कनोऽधिकरणम्) (सूत्राक्षेपभाष्यम्) अवक्षेपणे कन् विधीयते, कुत्सिते कः, क एतयोरर्थयोर्विशेषः? अवक्षेपणं करणम्, कुत्सितं कर्म। अवक्षेपणं वै कुत्सितं करणं तेन यत्कुत्स्यते तदपि कुत्सितं भवति। तत्र कुत्सितमित्येव सिद्धं भवति॥ (प्रयोजनभाष्यम्) एवं तर्हि यत्परस्य कुत्सार्थमुपादीयते तदिहोदाहरणम्। व्याकरणकेन नामायं गर्वितः। याज्ञिक्यकेन नामायं गर्वितः। यत्स्वकुत्सार्थमुपादीयते तत्तत्रोदाहरणम्। देवदत्तकः, यज्ञदत्तकः॥
Kashika¶
अवक्षिप्यते येन तदवक्षेपणम्। तस्मिन् वर्तमानात् प्रातिपदिकात् कन् प्रत्ययो भवति। व्याकरणकेन नाम त्वं गर्वितः। याज्ञिक्यकेन नाम त्वं गर्वितः। परस्य कुत्सार्थं यदुपादीयते, तदिहोदाहरणम्। यत् पुनः स्वयमेव कुत्सितम्, तत्र कुत्सिते (५.३.७४) इत्यनेन कन् प्रत्ययो भवति — देवदत्तकः, यज्ञदत्तक इति। प्रागिवीयस्य पूर्णोऽवधिः॥
Siddhanta Kaumudi¶
व्याकरणकेन गर्वितः व्याकरणकः । येनेतरः कुत्स्यते तदिहोदाहरणम् । स्वतः कुत्सिते तु कुत्सिते (SK2029) इत्यस्य ॥
Balamanorama¶
अवक्षेपणे कन् - अपक्षेपणे कन् । व्याकरणकेन गर्वित इति । व्याकरणं हि स्वतो न कुत्सितं, किं तु अधीतं सदध्येतृकुत्साहेतुभूतं गर्मावहदवक्षेपणम् । नन्ववक्षेपणं कुत्सा । तत्कथं व्याकरणमवक्षेपणं स्यात्, ‘कुत्सित’ इत्यनेन गतार्थं चेदमित्यत आह — येनेतर इति । अवक्षेपणशब्दः करणे ल्युडन्त इति भावः । * इति बालमनोरमायाम् प्रागिवीयानां पूर्णोऽवधिः । *****अथ प्राग्दीव्यतीयाः । — — — — — — —
Tattvabodhini¶
अवक्षेपणे कन् - अवक्षेपणे कन् । कुत्सिते तु कः । स्वरे विशेषः । येनेतर इति । अवक्षिप्यते येनेत्यवक्षेपणशब्दः करणे ल्युडन्त इति भावः ।इति तत्त्वबोधिन्यां प्रागिवीयानां पूर्णोऽवधिः ।अथ प्रकृतिभावः । — — — — — —
Padamanjari¶
अवक्षेपःउनिन्दा। व्याकरणकेनेति। यद्यपि व्याकरणं स्वतो वक्षेपणं न भवति, प्रत्ययौत वेदाह्घत्वात्प्रशंसनम्; तथापि यस्य तदवलेपमावहति तस्यावक्षेपणं भवत्येव। याज्ञीक्यकेन नामेति। याज्ञिकानामाम्नायो याज्ञिक्यमुकल्पसूत्रादि। परस्येत्यादिना कुत्सित इत्यस्यास्य च कनो विषयविभागं दर्शयति ॥
Nyaas¶
व्याकरणकेन इत्यादि। कथं पुनव्र्याकरणमवक्षेपणम्, तस्याध्ययनं शास्त्रविहितम्, वेदाङ्गत्वात्? तथापि यत्राञये तदवक्षेपणमुपसंहरति, तं प्रति तस्यावक्षेपणत्वमुपपद्यते; दोषहेतुत्वात्। परस्य इत्यादिना कुत्सिते (5.3.74) इत्यवक्षेपणे कन्नित्यस्य विभागं दर्शयति॥
Prakriyasarvasvam¶
क्षेपसाधनात् कन् । व्याकरणकेन त्वं गर्वितः । अत्र व्याकरणस्य सम्यक्त्वेऽपि गर्वितस्य तन्निन्दासाधनं भवति ॥