53094: एकाच्च प्राचाम्

Padacheda: एकात् | S | 5 | 1 |

च | S | 0 | 0 |

प्राचाम् | S | 6 | 3 |

Sutrartha

पूर्वदिशि विद्यमानामाचार्याणाम् मतेन डतरच् तथा डतमच् प्रत्ययौ निर्धारणस्य विषये ‘एक’ शब्दात् अपि भवतः ।

निर्धारणम् इत्युक्ते निश्चयः / निर्वचनम् (determination / selection / ascertainment / specification) । अस्मिन् सन्दर्भे किंयत्तदो निर्द्धारणे द्वयोरेकस्य डतरच् (5.3.92) तथा च वा बहूनां जातिपरिप्रश्ने डतमच् (5.3.93) एतयोः सूत्रयोः ‘किम्’, ‘यद्’ तथा ‘तद्’ एतेभ्यः शब्देभ्यः ‘डतरच्’ तथा ‘डतमच्’ एतौ प्रत्ययौ उच्येते । एतयोः एव विषयोः एतौ एव प्रत्ययौ ‘एक’ इत्यस्मात् शब्दात् अपि भवतः इति प्राचाम् मतम् (= पूर्वदिशि विद्यमानानामाचार्याणाम् मतम्) अस्ति - इति अत्र पाणिनिः स्पष्टीकरोति । क्रमेण पश्यामः - 1. द्वयोः एकः इत्येव = एक + डतरच् → एकतर । यथा - भवतोः एकतरो देवदत्तः । One amongst you two is Devadatta. 2. अनेकेषु एकः इत्येव = एक + डतमच् → एकतम । यथा - भवताम् एकतमः देवदत्तः । One amongst you all is Devadatta. विशेषः - समर्थानाम् प्रथमात् वा (4.1.82) इत्यस्मात् ‘वा’ इत्यस्य अनुवृत्तिः अत्र भवितुमर्हति, अतः अनेन सूत्रेण उक्तौ प्रत्ययौ विकल्पेनैव विधीयते । यथा - ‘भवतोः एकः देवदत्तः / भवताम् एकः देवदत्तः’ एतादृशाः प्रयोगाः अपि साधवः एव । अतः अस्मिन् सूत्रे ‘प्राचाम्’ इत ग्रहणम् विकल्पार्थम् नैव क्रियते, अपितु पूजार्थम् कृतमस्ति ।

Vasu English Summary

After the word एक , according to the opinion of Eastern Grammarians, may be added the affixes डतरच् and डतमच् in the above senses.

Vasu English Translation

After the word एक , according to the opinion of Eastern Grammarians, may be added the affixes डतरच् and डतमच् in the above senses. The च draws in डतरच् ॥ That is डतरच् comes when one out of two is to be specified; and डतमच् when one out of many is to be specified. The word जातिपरिप्रश्ने does not govern this sutra: it being a general rule. Thus एकतरो भवतोर्देवदत्तः, एकतमो भवतां देवदत्तः ॥

The word प्राचाम् is for pujartha; the word वा being already understood in the sutra.

Bhashya

एकाच्च प्राचाम् (2252) (प्राग्ग्रहणाक्षेपभाष्यम्) प्राग्वचनं किमर्थम्? विभाषा यथा स्यात्। (5896 प्राग्ग्रहणानर्थक्यबोधकवार्तिकम्॥ 1 ॥) - प्राग्वचनानर्थक्यं च विभाषाप्रकरणात् - (भाष्यम्) प्राग्वचनमनर्थकम्। किं कारणम्? विभाषाप्रकरणात्। प्रकृता महाविभाषा तयैव सिद्धम्॥

Kashika

एकशब्दात् प्राचामाचार्याणां मतेन डतरच् डतमच् इत्येतौ प्रत्ययौ भवतः स्वस्मिन् विषये। चकारो डतरचोऽनुकर्षणार्थः। द्वयोर्निर्धारणे डतरच्, बहूनां निर्धारणे डतमच्। जातिपरिप्रश्न इति नानुवर्तते। सामान्येन विधानम्। एकतरो भवतोर्देवदत्तः। एकतमो भवतां देवदत्तः। प्राचांग्रहणं पूजार्थम्, विकल्पोऽनुवर्तत एव॥

Siddhanta Kaumudi

डतरच् डतमच्च स्यात् । अनयोरेकतरो मैत्रः । एषामेकतमः ॥

Balamanorama

एकाच्च प्राचाम् - एकाच्च प्राचाम् । शेषपूरणेन सूत्रं व्याचष्टे — डतरच् — डतमच्च स्यादिति ।पूर्वसूत्रद्वयविषये॑ इति शेषः ।महाविभाषयैव सिद्धे प्राचाङ्ग्रहणं न कर्तव्य॑मिति भाष्यम् । अत एव नाऽकजर्थं तत् ।

Tattvabodhini

एकाच्च प्राचाम् - एकाच्च । प्राचांग्रहणं पूजार्थम् । विकल्पोऽनुवर्तत एव ।

Padamanjari

डतरज्डतमजित्येताविति। कथं पुनर्व्यवहितस्य डतरचोऽनुवृत्तिः? इत्याह - चकार इति। डतमचस्त्वनन्तरत्वदेवानुवृत्तिरिति भावः।’स्वस्मिन्निषये’ इति यदुक्तं तदेव विवृणोति - द्वयोर्निर्धारण इति। एतच्च द्वयोरेकस्य डतरज, बहूनां डतमजित्यनुवृतेर्वाक्यभेदेन च सम्बन्धाल्लभ्यते ॥

Nyaas

स्वस्मिन्? विषये इति। आत्मीये विषये। तत्र द्वयोरेकस्य निर्वारणं डतरचो विषयः बहूनामेकस्य निर्धारणे डतमचः। चकारोऽनुकर्षणार्थः। असति हि तस्मिन्? अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा (व्या। प। 19) इति डतमजेव स्यात्; द्वयोनिर्धारणे द्वयोरेकस्य डतरजित्यनुवृत्तेः, बहूनां निर्धारणे डतमजित्यनुवृत्तेः। विकल्पार्थं प्राग्ग्रहणं कस्मान्न भवति? इत्याह - विकल्पोऽनुवर्तत एव इति। अनन्तरसूत्राद्वेत्यनुवर्तत एवेति विक्लप इत्युक्तम्, तेनैव प्रत्ययविकल्पः सिद्धः। तसमात्? पूजार्थमेव प्राग्ग्रहणम्, न दिकल्पार्थम्॥

Prakriyasarvasvam

एकशब्दादुक्तविषये वा डतरडतमौ स्तः । एतयोरेकतरः कृष्णः । एषामेकतमो रामः । अत्र जातिपरत्वनियमो न । विकल्पादेककः, एकः ॥