53093: वा बहूनां जातिपरिप्रश्ने डतमच्

Padacheda: वा | S | 0 | 0 |

बहूनाम् | S | 6 | 3 |

जातिपरिप्रश्ने | S | 7 | 1 |

डतमच् | S | 1 | 1 |

Sutrartha

बहुषु एकस्य निर्धारणम् कर्तव्यमस्ति चेत् ‘किम्’, ‘यत्’, ‘तद्’ एतेभ्यः शब्देभ्यः स्वार्थे विकल्पेन ‘डतमच्’ प्रत्ययः भवति । पक्षे औत्सर्गिकः अकच्-प्रत्ययः अपि विधीयते ।

निर्धारणम् इत्युक्ते निश्चयः / निर्वचनम् (determination / selection / ascertainment / specification) । यत्र बहुषु पदार्थेषु कस्यचन निर्धारणम् करणीयमस्ति, तत्र ‘किम्’, ‘यत्’, ‘तद्’ एतेभ्यः शब्देभ्यः स्वार्थे ‘डतमच्’ इति प्रत्ययः भवति । The डतमच् प्रत्यय is used to separate a particular entity from many entities on the basis of certain quality / action / name / group etc. । क्रमेण पश्यामः - 1) अनेकेषु कः (who amongst many) अस्मिन् सन्दर्भे ‘किम्’ शब्दात् स्वार्थे ‘डतमच्’ प्रत्ययः भवति । अनेकेषु कः इत्येव = किम् + डतमच् → किम् + अतम [डकारचकारयोः इत्संज्ञा, लोपः] → क + अतम [डित्-प्रत्यये परे टेः (6.4.143) इति अङ्गस्य टिलोपः] → कतम [अतो गुणे (6.1.97) इति पररूप-एकादेशः] यथा - भवतां कतमः देवदत्तः ? Who amongst you all is देवदत्त ? 3) ‘अनेकेषु यः’ अस्मिन् सन्दर्भे ‘यद्’ शब्दात्, तथा ‘अनेकेषु सः’ अस्मिन् सन्दर्भे ‘तद्’ शब्दात् स्वार्थे डतमच् प्रत्ययः भवति । अनेकेषु यः इत्येव = यद् + डतमच् → यतम। Whosoever amongst many इत्यर्थः । अनेकेषु सः इत्येव = तद् + डतमच् → ततम ।That amongst many इत्यर्थः । यथा - यतमः भवतां देवदत्तः, ततमः अत्र आगच्छतु । विशेषः - 1. अनेन सूत्रेण निर्मिताः ‘कतम’, ‘यतम’, ‘ततम’ एते शब्दाः सर्वनामसंज्ञकाः सन्ति । सर्वादीनि सर्वनामानि (1.1.27) इत्यस्मिन् सूत्रे निर्दिष्टे सर्वादिगणे ‘डतर’ तथा ‘डतम’ एतयोः प्रत्यययोः निर्देशः कृतः अस्ति । अयम् निर्देशः ‘डतरच्’ तथा ‘डतमच्’ एतयोः विषये एव अस्ति । एतयोः प्रत्यययोः योजनेन निर्मिताः शब्दाः सर्वनामसंज्ञकाः भवन्ति - इति अस्य अर्थः । अतएव ‘कतम’, ‘यतम’, ‘ततम’ एतेषाम् सर्वनामसंज्ञा भवति । 2. अस्मिन् सूत्रे ‘वा’ इति निर्देशः क्रियते । अव्ययसर्वनाम्नामकच्प्राक्टेः (5.3.71) इत्यनेन विहितस्य अकच्-प्रत्ययस्य वैकल्पिक-विधानार्थमयं निर्देशः कृतः अस्ति । अतः अनेन सूत्रेण उक्तेषु सन्दर्भेषु पक्षे ‘अकच्’ प्रत्ययः अपि भवति । अ) अनेकेषु यः इत्येव = यः + अकच् → यकः । आ) अनेकेषु सः इत्येव = सः + अकच् → सकः । इ) अनेकेषु कः इत्येव - किम् + अकच् + सुँ → कः । (अस्य प्रक्रिया अव्ययसर्वनाम्नामकच् प्राक् टेः (5.3.71) इत्यत्र निर्दिष्टा अस्ति ।) उदाहरणम् - भवताम् कः देवदत्तः ? यकः देवदत्तः, सकः आगच्छतु । 3. समर्थानां प्रथमाद्वा (4.1.82) इतस्मात् प्रारब्धः ‘वा’ इत्यस्य अधिकारः अत्र प्रचलन् अस्ति, अतः ‘अकच्’ तथा ‘डतमच्’ एतौ द्वौ अपि प्रत्ययौ विकल्पेन भवतः । अतः ‘भवताम् कः देवदत्तः ? यः देवदत्तः सः आगच्छतु’ एतादृशम् वाक्यमपि साधु एव । 3. अस्मिन् सूत्रे ‘निर्धारणम्’ (= चयनम्) अस्मिन् सन्दर्भे प्रत्ययविधानं कृतमस्ति । एतत् चयनम् चतुर्भिः प्रकारैः सम्भवति - इति काशिकायाम् स्पष्टीक्रियते । अस्मिन् विषये काशिकाकारः वदति - जात्या, क्रियया, गुणेन, संज्ञया वा समुदायादेकदेशस्य पृथक्करणं निर्धारणम्। । इत्युक्ते, यत्र जात्याः आधारेण, क्रियायाः आधारेण, गुणस्य आधारेण उत संज्ञायाः आधारेण पृथक्करणम् क्रियते, तत्रैव तस्य नाम ‘निर्धारणम्’ इति दीयते । अस्यां स्थितौ वर्तमानसूत्रस्य प्रयोगः भवितुमर्हति । अस्य उदाहरणानि एतानि - अ) जात्याः आधारेण निर्धारणम् - कतमः एतेषामश्वः ? आ) क्रियायाः आधारेण निर्धारणम् - यतमः एतेषाम् कारकः । इ) गुणस्य आधारेण निर्धारणम् - ततमः एतेषाम् शूरः । ई) संज्ञायाः आधारेण निर्धारणम् - कतमः एतेषां देवदत्तः ? अस्मिन् विषये यतश्च निर्धारणम् (2.3.41) इत्यस्मिन् सूत्रे विस्तारेण पाठितमस्ति । 4. अस्मिन् सूत्रे सूत्रकारेण ‘जातिपरिप्रश्ने’ इति किञ्चन पदम् स्थापितमस्ति । अस्य पदस्य आशयः अयम् - ‘यत्र जात्याः आधारेण उत परिप्रश्नस्य आधारेण (= repeated question, interrogation, insulting question etc) बहुषु एकस्य चयनम् कर्तव्यमस्ति, (यथा - भवताम् यतमः ब्राह्मणः, भवताम् कतमः मूर्खः) तत्रैव अस्य सूत्रस्य प्रयोगः स्यात्, अन्यत्र न स्यात्’ - इति । परन्तु यदि एतादृशम् स्वीक्रियते चेत् ‘यतमः एतेषाम् शूरः / ततमः एतेषां देवदत्तः’ एतादृशाः इष्टप्रयोगाः नैव सिद्ध्येयुः । अतः भाष्यकारेण ‘जातिपरिप्रश्ने’ इति पदमत्र प्रत्याख्यातमस्ति । इत्युक्ते, भाष्यकारस्य मतेन अस्मिन् सूत्रे ‘जातिपरिप्रश्ने’ इति पदम् नैव स्यात् - इति । कौमुद्यामपि इममेव पक्षमङ्गीकृत्य सूत्रार्थः पाठ्यते । परन्तु काशिकाकारः ‘जातिपरिप्रश्ने’ इति स्वीकृत्यैव सूत्रस्य अर्थनिर्देशं करोति । अतः काशिकाकारस्य मतेन ‘यतमः एतेषाम् शूरः / ततमः एतेषां देवदत्तः’ एतादृशाः प्रयोगाः असमीचीनाः एव । अत्र एकम् वार्त्तिकमपि ज्ञेयम् - <!किमोऽस्मिन्विषये डतरजपि !> । इत्युक्ते, ‘किम्’ सर्वनाम्नः विषये बहुषु एकस्य निर्धारणे डतरच्-प्रत्ययः अपि भवितुमर्हति । यथा - ‘कतरः भवताम् देवदत्तः’ इति । अत्र वस्तुतः बहुषु एकस्य निर्धारणम् कर्तव्यमस्ति, अतश्च ‘डतमच्’ प्रत्ययः एव साधु । परन्तु अनेन वार्त्तिकेन अत्र ‘डतरच्’ प्रत्ययः अपि भवितुमर्हति । अन्य एकः बिन्दुः अत्र ज्ञेयः - अस्मिन् वार्त्तिके ‘बहुषु एकस्य निर्धाणरम्’ इत्यस्मिन् सन्दर्भे केवलं ‘किम्’ शब्दस्य विषये एव डतरच्-प्रत्ययः उक्तः अस्ति, ‘यद्’ तथा ‘तद्’ एतयोः विषये न । परन्तु भाष्यकारस्य मतेन ‘किम्’, ‘यत्’, ‘तत्’ - एतेषाम् सर्वेषाम् विषये ‘बहुनाम् एकस्य निर्धारणम् ‘ अस्मिन् सन्दर्भे डतरच् प्रत्ययः भवितुमर्हति । अतः ‘भवताम् यतरः देवदत्तः ततरः आगच्छतु’ इति वाक्यमपि भाष्यकारस्य मतेन साधु एव । स्मर्तव्यम् - 1. अस्मिन् सूत्रे ‘निर्धारणे’ इति ‘विषयसप्तमी’ अस्ति । निर्धारणस्य विवक्षायाम् अस्य सूत्रस्य प्रयोगः भवति - इति अस्य अर्थः । 2. अत्र प्रयुक्तः ‘बहूनाम्’ इति निर्धारणषष्ठी अस्ति । ‘बहूनाम् मध्ये’ इति अस्य अर्थः । 3. तद्धिताधिकारे द्विवचनविभज्योपपदे तरबीयसुनौ (5.3.57) इत्यनेन ‘तमप्’ इति अपि किञ्चन प्रत्ययः पाठ्यते । अयम् प्रत्ययः सर्वथा भिन्नः अस्ति, अस्य योजनेन रुपाणि अपि भिद्यन्ते (यथा - किम् + तमप् → किंतम) इति ज्ञातव्यम् ।4. वर्तमानसूत्रेण उक्तः डतरच्-प्रत्ययः ‘किम्’ ‘यद्’, तथा ‘तद्’ एतेभ्यः त्रिभ्यः शब्देभ्यः एव विधीयते । अन्येभ्यः शब्देभ्यः अस्य प्रसक्तिः नास्ति ।

Vasu English Summary

The affix डतमच् (अतम with the elision of the last syllable) comes after किम् , यत् and तत् , optionally when the object is the determining of the one out of many, the question being that of caste.

Vasu English Translation

The affix डतमच् (अतम with the elision of the last syllable) comes after किम् , यत् and तत् , optionally when the object is the determining of the one out of many, the question being that of caste. The words किंयत्तदः and निरर्धारणे एकस्य are to be read into the sutra. Thus कतमो भवतां कठः ‘which of you, Sirs, is a Katha Brahmana?’ यतमो भवतां कठः, ततम आगच्छतु ‘that one of you, Sirs, who is a Katha, let him come’. The word वा ‘optionally’ indicates that the affix अकच् (5.3.71) also comes, as यको भवतां कठः, तकः, आगच्छतु ॥ This idea may be expressed by a sentence also, owing to the महाविभाषा (4.1.82): as, को भवतां कठः; यो भवतां कठः, स आगच्छतु ॥

Why do we say ‘when question is that of caste’? Observe, को भवतां देवदत्तः. Here the question is about a Name: and not jati. The word परिप्रश्न applies to किम् only, the pronouns यत् and तत् not being interrogative pronouns. But the word जाति applies to all these three pronouns.

According to some, the affix डतर has also this force, after the word किम्, as, कतरो भवतां कठः ‘which of you, Sirs, is a Katha Brahmana?’ कतरो भवतां कलापः. As may be inferred from the sutra कतरकतमौ जातिपरिप्रश्ने (4.1.63)

Bhashya

वा बहूनां जातिपरिप्रश्ने डतमच् (2251) (डतरच्डतमचोरधिकरणम्) (5895 सूत्रांशाक्षेपवार्तिकम्॥ 1 ॥) - किमादीनां द्विबह्वर्थे प्रत्ययविधानादुपाध्यानर्थक्यम् - (भाष्यम्) किमादीनां द्विबह्वर्थे प्रत्ययविधानादुपाधिग्रहणमनर्थकम्। किं कारणम्? बहिर्धारणं निर्धारणमिति। यावता द्वयोरेकस्यैव बहिर्धारणं भवति॥ (वा बहूनामिति सूत्रांशाक्षेपभाष्यम्) अपर आह - बहूनां जातिपरिप्रश्ने डतमच् इत्यत्र बहुग्रहणमनर्थकम्। किं कारणम्? किमित्येतत्परिप्रश्ने वर्तते, परिप्रश्नश्चानिर्ज्ञाते, अनिर्ज्ञातं च बहुषु। द्वयेकयोः पुनर्निर्ज्ञातम्। निर्ज्ञातत्वात् द्व्येकयोः परिप्रश्नो न, परिप्रश्नाभावात् किमेव नास्ति कुतः प्रत्ययः॥

Kashika

किंयत्तद इति वर्तते, निर्धारणे, एकस्येति च। बहूनामिति निर्धारणे षष्ठी। बहूनां मध्य एकस्य निर्धारणे गम्यमाने जातिपरिप्रश्नविषयेभ्यः किमादिभ्यो वा डतमच् प्रत्ययो भवति। कतमो भवतां कठः। यतमो भवतां कठः, ततम आगच्छतु। वावचनमकजर्थम्। यको भवतां कठः, सक आगच्छतु। महाविभाषा च प्रत्ययविकल्पार्थानुवर्तत एव। को भवतां कठः। यो भवतां कठः, स आगच्छतु। जातिपरिप्रश्न इति किम् ? को भवतां देवदत्तः। परिप्रश्नग्रहणं च किम एव विशेषणम्, न यत्तदोरसंभवात्। जातिग्रहणं तु सर्वैरेव संबध्यते। किमोऽस्मिन् विषये डतरमपीच्छन्ति केचित्। कतरो भवतां कठः। कतरो भवतां कालाप इति। तत्र कतरकतमौ जातिपरिप्रश्ने (२.१.६३) इति वचनात् सिद्धम् ॥

Siddhanta Kaumudi

बहूनां मध्ये एकस्य निर्धारणे डतमच् वा स्यात् । जातिपरिप्रश्न इति प्रत्याख्यातमाकरे । कतमो भवतां कठः । यतमः । ततमः । वाग्रहणमकजर्थम् । यकः । सकः । महाविभाषया । यः । सः ।<!किमोऽस्मिन्विषये डतरजपि !> (वार्तिकम्) ॥ कतरः ॥

Laghu Siddhanta Kaumudi

जातिपरिप्रश्न इति प्रत्याख्यातमाकरे । बहूनां मध्ये एकस्य निर्धारणे इतमज्वा स्यात् । कतमो भवतां कठः । यतमः । ततमः । वाग्रहणमकजर्थम् । यकः । सकः ॥ इति प्रागिवीवीयाः ॥ १५ ॥

Balamanorama

वा बहूनां जातिपरिप्रश्ने डतमच् - वा बहूनाम् । किंयत्तद इति, निर्धारणे इति, एकस्येति चानुवर्तते । बहूनामिति निर्धारणे षष्ठी । तदाह — बहूनां मध्ये निर्धारणे डतमज्वा स्यादिति । ‘मध्ये’ इत्यनन्तरम् — एकस्येति शेषः । जातिपरिप्रश्ने गम्ये इत्यपि बोध्यम् । जातिश्च परिप्रश्नश्चेति समाहारद्वन्द्लः । जातौ परिप्रश्ने च गम्ये इत्यर्थः । तत्र जाताविति किंयत्तदां सर्वेषामेव विशेषणम् । परिप्रश्नग्रहणं तु किम एव विशेषणं, तच्च क्षेपार्थकस्य किमो निवृत्त्यर्थम् । यत्तदोस्तु परिप्रश्नग्रहणं न विशेषणम्, असंभवादिति वृत्तौ स्पष्टम् । अत्र वार्तिकम् — ॒किमादीनां द्विबह्वर्थे प्रत्ययविधानापरिप्रश्नग्रहणं न विशेषणम्, असंभवादिति वृत्तौ स्पष्टम् । अत्र वार्तिकम् — ॒किमादीनां द्विबह्वर्थे प्रत्ययविधानादुपाध्यानर्थक्य॑मिति ।पूर्वसूत्रे द्वयोरिति, अत्र सूत्रे जातिपरिप्रश्ने इति च न कर्तव्ये इति भाव॑ इति कैयटः । तदाह — प्रत्याख्यातमाकरे इति । क्षेपार्थस्य त्वनभिदानान्न ग्रहणमिति तदाशयः । पूर्वसूत्रे द्वयोरिति चेति बोध्यम् । तथाचकतम एषां पाचकः, शूरो, देवदत्तः, इत्यत्र क्रियागुणसंज्ञाभिरपि निर्धारणे डतमज् भवति ।एषां कतरो देवदत्तः॑ इत्यत्र बहूनाम#एकस्य निर्धारणे डतरच् भवति । अत एव प्रत्ययः॑ इति सूत्रभाष्येबहुष्वासीनेषु कस्छित् कंचित्पृच्छति कतरो देवदत्तः॑ इति प्रयोगः सङ्गच्छते । कतमो भवतां कठ इति ।गोत्रं च चरणैः सहे॑ति कठस्य जातित्वम् । वाग्रहणमकजर्थमिति । अन्यथा महाविभाषया.ञपवादेन मुक्ते उत्सर्गस्याऽप्रवृत्तेरुक्तत्वादकच् न स्वादिति भावः । नचअव्ययसर्वनाम्ना॑मित्यस्याधिकारत्वात्तदनुवृत्त्यैव सिद्धे वाग्रहणं व्यर्थमेवेति वाच्यम्, इहैव सूत्रे तदनुवृत्तिर्नतु पूर्वसूत्रे इति ज्ञापनार्थत्वात् । अतो डतरज्विषये नाऽकच् । महाविभाषयेति । अत एव ‘अवक्षेपणे’ इति सूत्रे भाष्येक एतयोरर्थयोर्विशेषः॑ इति प्रयोगः सङ्गच्छते ।तमबादयः प्रागवक्षेपणकनो नित्याः प्रत्ययाः॑ इति तु प्रायिकमिति भावः । किमोऽस्मिन्निति ।वा बहूना॑मिति प्रकृतसूत्रविषयेऽपीत्यर्थः, बहुष्वासीनषु इत्याद्युदाहृतभाष्यप्रयोगादिति भावः ।

Tattvabodhini

वा बहूनां जातिपरिप्रश्ने डतमच् - वा बहूनाम् ।किंयत्तदः॑इति वर्तते । जातिश्च परिप्रश्नश्चेति समाहारद्वन्द्वः । तत्र जाताविति सर्वेषां विशेषणम् । षष्ठीसमासे तु गुणभूतस्य जातिग्रहणस्य निष्कृष्यं संबन्धोऽनुपपन्नः स्यात् । परिप्रश्नग्रहणं तु किम एव विश्षणम् । तच्च क्षेपनिवृत्त्यर्थम् । तत्र जातिग्रहणं प्रायोऽभिप्रायम् । क्रियागुणसंज्ञाभिरपि निर्धारणे डतरच इष्टत्वात् । तता पूर्वसूत्रे द्वयोरिति प्रायोऽभिप्रायम् । बहूनां निर्धारणेऽपि ढतरच इष्टत्वात् । तथा च वार्तिकम् -॒किमादीनां द्विबह्वर्थे प्रत्ययविधानादुपाध्यानर्थक्य॑मिति । अत्र कैयटः -द्वयो॑रिति ,जातिपरिप्रश्ने॑इति च न कर्तव्यमिति भाव इति । तदेतदाह -प्रत्याख्यातमाकर इति । कठैति ।कतमो भवतामध्यापकः, शूरो, देवदत्तो वे॑त्यप्युदाहर्तव्यम् । यकः सक इति ।कक॑इति तु नोक्तम् । अकच्सहितस्यापिकिमः कः॑इत्ययमादेश इति व्याख्यातत्वात् । महाविभाषयेति ।प्रागिदिशः॑ इति सूत्रे समर्थप्रथमग्रहणयोर्निवृत्तत्वेऽपि वाग्रहणमनुवर्तते इत्युक्तत्वादिति भावः ।किंयत्तदः॑इति सूत्रे द्वयोरित्यस्य प्रत्याख्यानादाह -किमोऽस्मिन्निति ।

Padamanjari

जातिपरिप्रश्नविषयेभ्य इति। जातिपरिप्रश्नौ यथासम्भवं विषयौ येषां ते तथोक्ताः। सूत्रे पुनः समाहारद्वन्द्वः। सन्निधानाच्च परिप्रश्नोऽपि जातेरेव विज्ञायते, यथा -‘गुणो यङ्लुकोः’ इत्यत्र यङ् च यङ्लुक्चेति। एवं च कृत्वा जातिपरिप्रश्नग्रहणं किम एव विशेषणम्।’जातिग्रहणं तु सर्वैरपि सम्बध्यते’ इति वक्ष्यमाणमुपपद्यते। षष्ठीसमासे तु गुणभूतस्य जातिग्रहणस्य निष्कृष्य सम्बन्धोऽनुपपन्नः स्यात्। परिप्रश्नग्रहणं क्षेपनिवृत्यर्थम्। वावचनमकजर्थमिति। कथं तर्हि वाक्यस्य सिद्धिः? तत्राह - महाविभाषेत्यादि। किमोऽस्मिन्विषय इति। द्वयोरेकस्य निर्द्धारण उक्तौ बहूनामेकस्य निर्द्धारणे न स्यादिति वचनम्। कथं पुनरिष्यमाणोऽपि लभ्यते? तत्राऽऽह - तत्रत्यादि। ननु कतरो भवतोः कठ इति द्वयोरेकस्य निर्द्धारणेऽपि जातिपरिप्रश्नस्य सम्भवान्नानेन वचनेन बहूनामेकस्य निर्द्धारणे डतरच् शक्यो ज्ञापयितुम्? एवं तर्हि -‘समासविधौ कतरकतमौ जतिपरिप्रश्ने साधू भवतः’ इत्यपि व्याख्येयमिति मन्यते। अजातिपरिप्रश्नेऽपि किमो डतमज् भवति - कतमो भवतोर्देअवदत इति, कथम् ? कतरकतमावित्यत्र जातिपरिप्रश्नग्रहणात्। यदि हि कतमशब्दो जातिपरिप्रश्नादन्यत्र न स्यात्, ततस्तत्साहचर्यात्कतरशब्दोऽपि तदर्त एव ग्रहीष्यत इत्यनर्थकं तत्स्यात् ॥

Nyaas

जातिपरिप्रश्नविषयेभ्यः इति। जातिपरिप्रश्नो यथासम्भवं येषां ते तथोक्ताः। कतमो भवतां कटः इति। गोत्रञ्च चरणैः सह (म। भा। 2।225) इति तस्य जातित्वम्। सा च कठजातिः किं शब्देन परिपृच्छ्यते। किंशब्दोऽत्र जातिपरिप्रश्नविषयो भवति। यतमो भवतां कठस्ततम आगच्छतु इति। यत्तच्छब्दाविह जातिविषयावेव, न परिप्रश्नविषयो भवति। यतमो भवतां कठस्ततम आगच्छतु इति। यत्तच्छब्दाविह जातिविषयावेव, न परिप्रश्नविषयौ; असंभवात्, न हि ताभ्यां परिप्रश्नः क्रियते, किं तर्हि? किंशब्देन। अत एव वक्ष्यति - परिप्रश्नग्रहणं किम एव विशेषणम्, न यत्तदोः, असम्भवात् इति। वावचनमकजर्थम् इति। पक्षेऽकजपि यथा स्यात्। यद्येवम्? वाक्यं न सिध्यति, यदा हि डतमज्? न भवत्यकचैव भवितव्यम्? इत्यत आह - महाविभाषा इत्यादि। अत्र च महीविबाषा प्रत्ययविकल्पार्थाऽनुवर्तते, तया प्रत्यये विकल्पिते पक्षे वाक्यमपि भविष्यति। जातिग्रहणं तु सर्वैः सम्बध्यते इति। जातिः सवत्रैव भवति, तत्र जात्यादिना किं शब्दे विशेष्यमाणे सामध्र्यादेव तस्य परिप्रश्नविषयत्वं लभ्यते? नैतदस्ति; स हि क्षेपेऽपि वर्तते। तत्रासति परिप्रश्नग्रहणे यदा आतौ क्षेपे वर्तते, तदा प्रत्ययः स्यात्॥

Prakriyasarvasvam

बहूनामेकस्य निर्धारणे तु यथार्हं जातितत्प्रश्नार्थेभ्यः कियत्तद्द्व्यचो वा डतमच् स्यात् । एषां कतमो विप्रः, यतमः, ततमः । भोजोक्तेरन्यतमोऽपि । वेति व्यर्थमिति हराद्याः । अकजर्थमिति नाथाद्याः । ककः, यकः, सकः । ‘किमोऽस्मिन्नर्थे डतरजपीष्टः’ । कतर एषां विगः । ‘अजातेः प्रश्नेऽपीष्टः’ । कतम एषां हरिः ॥

Sutra Prayogas

  • कतमः (कुमारसम्भवम्): वा बहूनां जातिपरिप्रश्ने डतमच् इति डतमच्प्रत्ययः।

  • कतमत् (किरातार्जुनीयम्): वा बहूनां जातिपरिप्रश्ने डतमच् इति डतमच्।