53092: किंयत्तदो निर्द्धारणे द्वयोरेकस्य डतरच्

Padacheda: किम्-यत्-तदः | S | 5 | 1 |

निर्द्धारणे | S | 7 | 1 |

द्वयोः | S | 7 | 2 |

एकस्य | S | 6 | 1 |

डतरच् | S | 1 | 1 |

Sutrartha

द्वयोः एकस्य निर्धारणम् कर्तव्यमस्ति चेत् ‘किम्’, ‘यत्’, ‘तद्’ एतेभ्यः शब्देभ्यः स्वार्थे ‘डतरच्’ प्रत्ययः भवति ।

निर्धारणम् इत्युक्ते निश्चयः / निर्वचनम् (determination / selection / ascertainment / specification) । यत्र द्वाभ्यां पदार्थाभ्याम् कस्यचन निर्धारणम् करणीयमस्ति, तत्र ‘किम्’, ‘यत्’, ‘तद्’ एतेभ्यः शब्देभ्यः स्वार्थे ‘डतरच्’ इति प्रत्ययः भवति । The डतरच् प्रत्यय is used to separate one entity from other, on the basis of certain quality । क्रमेण पश्यामः - 1) द्वयोः कः (who amongst the two) अस्मिन् सन्दर्भे ‘किम्’ शब्दात् स्वार्थे ‘डतरच्’ प्रत्ययः भवति । द्वयोः कः इत्येव = किम् + डतरच् → किम् + अतर [डकारचकारयोः इत्संज्ञा, लोपः] → क् + अतर [डित्-प्रत्यये परे टेः (6.4.143) इति अङ्गस्य टिलोपः] → कतर यथा - भवतोः कतरः देवदत्तः ? Who amongst you two is देवदत्त ? 3) ‘द्वयोः यः’ अस्मिन् सन्दर्भे ‘यद्’ शब्दात्, तथा ‘द्वयोः सः’ अस्मिन् सन्दर्भे ‘तद्’ शब्दात् स्वार्थे डतरच् प्रत्ययः भवति । द्वयोः यः इत्येव = यद् + डतरच् → यतर । Whosoever amongst two इत्यर्थः । द्वयोः सः इत्येव = तद् + डतरच् → ततर ।That amongst two इत्यर्थः । यथा - यतरः भवतो देवदत्तः, ततरः अत्र आगच्छतु । विशेषः - 1. अनेन सूत्रेण निर्मिताः ‘कतर’, ‘यतर’, ‘ततर’ एते शब्दाः सर्वनामसंज्ञकाः सन्ति । सर्वादीनि सर्वनामानि (1.1.27) इत्यस्मिन् सूत्रे निर्दिष्टे सर्वादिगणे ‘डतर’ तथा ‘डतम’ एतयोः प्रत्यययोः निर्देशः कृतः अस्ति । अयम् निर्देशः ‘डतरच्’ तथा ‘डतमच्’ एतयोः विषये एव अस्ति । एतयोः प्रत्यययोः योजनेन निर्मिताः शब्दाः सर्वनामसंज्ञकाः भवन्ति - इति अस्य अर्थः । अतएव ‘कतर’, ‘यतर’, ‘ततर’ एतेषाम् सर्वनामसंज्ञा भवति । एतेषाम् सर्वेषाम् रूपाणि ‘सर्व’ शब्दवदेव भवन्ति, परन्तु नपुंसकलिङ्गे प्रथमाद्वितीयैकवचनस्य रूपयोः अद्ड् डतरादिभ्यः पञ्चभ्यः (7.1.25) इत्यनेन सुँ/अम्-प्रत्यययोः अद्ड्-आदेशः भवति, अतः ‘कतरत् / यतरत् / ततरत्’ एतादृशम् रूपम् जायते । 2. अस्मिन् सूत्रे ‘निर्धारणम्’ (= चयनम्) अस्मिन् सन्दर्भे प्रत्ययविधानं कृतमस्ति । एतत् चयनम् चतुर्भिः प्रकारैः सम्भवति - इति काशिकायाम् स्पष्टीक्रियते । अस्मिन् विषये काशिकाकारः वदति - जात्या, क्रियया, गुणेन, संज्ञया वा समुदायादेकदेशस्य पृथक्करणं निर्धारणम्। । इत्युक्ते, यत्र जात्याः आधारेण, क्रियायाः आधारेण, गुणस्य आधारेण उत संज्ञायाः आधारेण पृथक्करणम् क्रियते, तत्रैव तस्य नाम ‘निर्धारणम्’ इति दीयते । अस्यां स्थितौ वर्तमानसूत्रस्य प्रयोगः भवितुमर्हति । अस्य उदाहरणानि एतानि - अ) जात्याः आधारेण निर्धारणम् - कतरः एतयोः अश्वः ? कतरा एतयोः ब्राह्मणी ? कतरत् एतयोः आम्रफलम् ? आ) क्रियायाः आधारेण निर्धारणम् - कतरः एतयोः कारकः ? कतरा एतयोः अध्यापिका ? कतरत् एतयोः वाहकम् ? इ) गुणस्य आधारेण निर्धारणम् - कतरः एतयोः शूरः ? कतरा एतयोः पट्वी ? कतरत् एतयोः मधुरम् ? ई) संज्ञायाः आधारेण निर्धारणम् - कतरः एतयोः देवदत्तः ? कतरा एतयोः सीता ? कतरत् एतयोः श्रवणम् (नक्षत्रम्) ? अस्मिन् विषये यतश्च निर्धारणम् (2.3.41) इत्यस्मिन् सूत्रे विस्तारेण पाठितमस्ति । स्मर्तव्यम् - 1. अस्मिन् सूत्रे ‘निर्धारणे’ इति ‘विषयसप्तमी’ अस्ति । निर्धारणस्य विवक्षायाम् अस्य सूत्रस्य प्रयोगः भवति - इति अस्य अर्थः । 2. तद्धिताधिकारे द्विवचनविभज्योपपदे तरबीयसुनौ (5.3.57) इत्यनेन ‘तरप्’ इति अपि किञ्चन प्रत्ययः पाठ्यते । अयम् प्रत्ययः सर्वथा भिन्नः अस्ति, अस्य योजनेन रुपाणि अपि भिद्यन्ते (यथा - किम् + तरप् → किंतर) इति ज्ञातव्यम् । 3. समर्थानां प्रथमाद्वा (4.1.82) इतस्मात् प्रारब्धः ‘वा’ इत्यस्य अधिकारः अत्र प्रचलन् अस्ति, अतः एतौ प्रत्ययौ विकल्पेन भवतः । अतः ‘द्वयोः यः देवदत्तः सः आगच्छतु’ एतादृशम् वाक्यमपि साधु एव । 4. अव्ययसर्वनाम्नामकच्प्राक्टेः (5.3.71) इत्यनेन विहितस्य अकच्-प्रत्ययस्य अपवादरूपेण अत्र डतरच्-प्रत्ययः प्रोक्तः अस्ति । 5. वर्तमानसूत्रेण उक्तः डतरच्-प्रत्ययः ‘किम्’ ‘यद्’, तथा ‘तद्’ एतेभ्यः त्रिभ्यः शब्देभ्यः एव विधीयते । अन्येभ्यः शब्देभ्यः अस्य प्रसक्तिः नास्ति ।

Vasu English Summary

After the words किम् , यद् and तद् in determining of the one out of two, comes the affix डतरच् (अतर with the elision of the final इम् and अद्).

Vasu English Translation

After the words किम् , यद् and तद् in determining of the one out of two, comes the affix डतरच् (अतर with the elision of the final इम् and अद्). This affix comes in the svartha sense. The differentiation of a portion from the whole by means of its peculiar caste, action, attribute or name is called निर्द्धारण or specification. Thus कतरो भवतोः कठः ‘amongst you two, who is Katha’. कतरो भवतोः कारकः ‘amongst you two, who is the agent’. कतरो भवतोः पटुः ‘amongst you two, who is clever’. कतरो भवतोः देवदत्तः ‘which of the two amongst you is Devadatta’. Similarly यतरः ‘of the two the one who’, ततरः ‘of the two–that one’. as यतरो भवतो देवदत्तः, ततर आगच्छतु ‘of the two, let that one who is Devadatta, come’. The taddhita affixes being optional (4.1.82), this idea may be expressed by a sentence also. As, को भवतो देवदत्तः, स आगच्छतु ‘who amongst you two is Devadatta, let him come’.

Bhashya

किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच् (2250)

Kashika

किं यत् तद् इत्येतेभ्यः प्रातिपदिकेभ्यो द्वयोरेकस्य निर्धारणे डतरच् प्रत्ययो भवति। निर्धार्यमाणवाचिभ्यः स्वार्थे प्रत्ययः। जात्या क्रियया गुणेन संज्ञया वा समुदायादेकदेशस्य पृथक्करणं निर्धारणम्। कतरो भवतोः कठः। कतरो भवतोः कारकः। कतरो भवतोः पटुः। कतरो भवतोर्देवदत्तः। यतरो भवतोः कारकः। यतरो भवतोः पटुः। यतरो भवतोर्देवदत्तः, ततर आगच्छतु। महाविभाषया चात्र प्रत्ययो विकल्प्यते। को भवतोर्देवदत्तः, स आगच्छतु। निर्धारण इति विषयसप्तमीनिर्देशः। द्वयोरिति समुदायाद् निर्धारणविभक्तिः। एकस्येति निर्धार्यमाणनिर्देशः॥

Siddhanta Kaumudi

अनयोः कतरो वैष्णवः । यतरः । ततरः । महाविभाषाया कः । यः । सः ॥

Laghu Siddhanta Kaumudi

अनयोः कतरो वैष्णवः। यतरः। ततरः॥

Balamanorama

किंयत्तदो निर्द्धारणे द्वयोरेकस्य डतरच् - किंयत्तदो निर्धारणे । किम्, यत्, तत् एषां समाहारद्वन्द्वात्पञ्चमी । द्वयोरेकस्य निर्धारणे गम्ये निर्धार्यमाणवाचिभ्यः किमादिभ्यो डतरच् स्यादित्यर्थः । अनयोः कतरो वैष्णव इति । को वैष्णव इत्यर्थः । अत्र वैष्णवत्वगुणेन कुंशब्दार्थ इदमर्थाभ्यां निर्धार्यते । अतः किंशब्दाड्डतरचि डित्त्वाट्टिलोपे ‘कतर’ इति भवति । एवं यच्छशब्दात्, तच्छशब्दाच्च डतरचि टिलोपे यतरः ततर इति भवति । निर्धार्यमाणवाचिभ्य इति किम् । कयोरन्यतरो देवदत्तः, ययोरन्यतरः, तयोरन्यतर इत्यत्र किमादिभ्यो न भवति ।

Tattvabodhini

किंयत्तदो निर्द्धारणे द्वयोरेकस्य डतरच् - किंयत्तदो । कतरो वैष्णव इति । गुणेन निर्धारणमिदम् । क्रियासंज्ञाभ्यां निर्धारणे तिकतरोऽध्यापकः॑कतरो देवदत्त॑इत्यादि ज्ञेयम् । ननु द्वयोरेकस्य निर्धरणे डतरच्चेद्भवति, तर्हिकयोरन्यतरो देवदत्तः॑ययोरन्यतरः॑तयोरन्यतरः॑इत्यत्रापि प्राप्नोति । अत्राहुः -निर्धार्यमाणवाचिभ्य एवायं प्रत्ययोऽभिधान स्वाभाव्यात्, तेनात्र नातिप्रसङ्ग इति । एकस्येति किम् ।द्वयो॑रिति कर्मणि षष्ठी माभूत् । तथाहि सतिअस्मिन् सङ्घे कौ देवदत्तयज्ञदत्तौ॑इत्यादावेव स्यात् ।

Padamanjari

द्वयोरेकस्य निर्द्धारणे कडतरज्भवतीत्युच्यते, तत्रेहापि प्राप्नोति - कयोरन्यतरो देवदतः, ययोरन्यतरः, तयोरन्यतर इति; किमादीनां समुदायवचित्वेऽपि निर्द्धारणस्य गम्यमानत्वात्? अत आहनिर्द्धार्यमाणवाचिभ्य इति। एतच्चाभिधानस्वभावाल्लभ्येते। क्रियया गुणेन संज्ञया वेति। जात्या वेत्यापि द्रष्टव्यम्; कतरो भवतोः कट इत्यादेरपि सम्भवात्। समुदायान्निर्द्धारणविभक्तिरिति। सा पुनः षष्ठी, न सप्तमी; वा बहूनामिति दर्शनात्। एकस्येतीति। निर्द्धार्यमाणनिर्देश इति। ननु च द्वयोरेकस्यैव निर्द्धारणं सम्भवति, नार्थ एतेन? नैतदस्ति; ठेकस्यऽ इत्यनुच्यमाने द्वयोरिति कर्मणि षष्ठी विज्ञायेत, ततश्चास्मिन् ग्रामे कौ देवदतावित्यत्रापि प्राप्नोति। तस्मादेकग्रहणम् ॥

Nyaas

निर्धार्यमार्णेभ्यः प्रत्ययः इति। निर्धार्यमाणवाचिभ्यः इत्येतत्? कुतो लभ्यते? तत एवोत्पन्ने प्रत्यये निधरिणस्य गम्यमानत्वत्। `महाविभाषा इत्यादि। समर्थानां प्रथमात् (4.1.82) निषरिणे इचि। विषये प्रत्ययो यथा स्यात्। द्वयोरिति समुदायान्निर्धारणविभक्तिः#ः इति। षष्ठी, सप्तमी वा। सा पुनस्तस्य यतश्च निर्धारणम्? (2.3.41) इत्येनेन। `#एकस्येति निर्देशः निर्धार्यमाणनिर्देशः इति। एकस्मिन्निर्षार्यमाणे यथा स्यात्। ननु च समुदायादेकदेशस्य पृथक्? करणं निर्धारणम्, द्वयोरित्यवयवसमुदायो निर्दिष्टो यत एकदेशो निर्धारयितव्यः, स चैकदेशे निर्धारयितव्ये एक एव सम्भवति; अतोऽन्तरेणाप्येकग्रहणमेकस्यैव निर्धारणं भविष्यतीति निष्फलमेकग्रहणम्? नैतदेवम्; असति हि तस्मिन्? द्वयोरिति कर्मणि षष्ठी विज्ञायते, द्वौ चेन्निर्षार्येते कुतश्चिदिति, ततश्चेहापि प्रत्ययः स्यात् - अस्मिन्? ग्रामे कौ देवदत्तयज्ञदत्ताविति। तस्मादेकग्रहणं कर्तव्यम्॥

Prakriyasarvasvam

द्वयोरेकस्य पृथक्करणे सति कियत्तद्द्भ्यः स्वार्थे डतरच् स्यात् । अनयोः कतरो वैष्णवः, यतरस्तेजस्वी, ततरः । कः, यः, सः इत्येवार्थाः । ‘अन्याच्च भोजः’ । अन्यतरः । अस्याल्पाच्तरवत् स्वार्थे तरबिति स्वामी ॥