53074: कुत्सिते¶
Padacheda: कुत्सिते | S | 7 | 1 |
Sutrartha¶
‘कुत्सितः’ इत्यस्य विशेषणरूपेण विहितात् प्रातिपदिकात् तिङन्तात् च स्वार्थे क-प्रत्ययः तस्य अपवादः वा विधीयते ।
‘कुत्सितः’ (निन्दितः / bad / spoiled / inappropriate ) इत्यनेन यस्य पदार्थस्य निर्देशः भवति, तस्मात् प्रातिपदिकात् स्वार्थे ‘क’ इति प्रत्ययः (उत तस्य अपवादः) विधीयते । यथा - 1. कुत्सितः अश्वः = अश्व + क → अश्वकः । कार्ये असमीचीनः यः अश्वः (a horse that is useless for work) तस्य निर्देशार्थम् ‘अश्वक’ शब्दः प्रयुज्यते । 2. कुत्सितः गर्दभः = गर्दभ + क → गर्दभक । 3. कुत्सितः उष्ट्रः = उष्ट्र + क → उष्ट्रक । अव्ययानाम्, सर्वनामशब्दानाम्, तथा च तिङन्तानाम् विषये अपि अस्य सूत्रस्य प्रसक्तिः विद्यते, परन्तु एतेभ्यः परस्य क-प्रत्ययस्य अपवादरूपेण अव्ययसर्वनाम्नामकच् प्राक् टेः (5.3.71) इति अकच्-प्रत्ययः विधीयते, सः च अङ्गस्य टि-संज्ञकात् पूर्वमागच्छति । उदाहरणानि एतानि - 1. कुत्सितः उच्चैः (inappropriate height) = उच्च् + अकच् + ऐस् → उच्चकैः । 2. कुत्सितः शनैः (inappropriate slow speed) = शन् + अकच् + ऐस् → शनकैः । 3. कुत्सिताः सर्वे (inappropriate all) = सर्व् + अकच् + जस् → सर्वके । 4. कुत्सितम् पचति (someone cooks something inappropriate) = पचतकि । अयम् शब्दः क्रियापदरूपेणैव प्रयुज्यते । यथा - ‘रामः पचतकि’ । ‘रामः कुत्सितम् पचति’ इत्याशयः । ज्ञातव्यम् - अज्ञाते (5.3.73) इत्यनेन सूत्रेण ‘अज्ञातः’ अस्मिन् अर्थेऽपि एते एव सर्वे शब्दाः सिद्ध्यन्ति । अतः सन्दर्भं दृष्ट्वैव अर्थस्य निर्णयः कर्तव्यः ।
Vasu English Summary¶
The affixes क – प्रागिवात्कः (5.3.70), and अकच् (अक्) – अव्ययसर्वनाम्नामकच् प्राक् टेः (5.3.71), come when the thing is spoken of as contemptible.
Vasu English Translation¶
The affixes क – प्रागिवात्कः (5.3.70), and अकच् (अक्) – अव्ययसर्वनाम्नामकच् प्राक् टेः (5.3.71), come when the thing is spoken of as contemptible. Thus अश्वकः ‘a sorry horse’. उष्ट्रकः, गर्दभकः, उच्चकैः, नीचकैः सर्वके, विश्वक ॥ पचतकि ‘he cooks comtemptibly’. जल्पतकि ‘he speaks insignificantly’.
Bhashya¶
कुत्सिते (2232) (प्रत्ययानुपपत्तिप्रतिपादकभाष्यम्) इह - कुत्सितकः, अनुकम्पितक इति स्वशब्देनोक्तत्वात्तस्यार्थस्य प्रत्ययो न प्राप्नोति॥ (प्रत्ययोपपादकं भाष्यम्) नैष दोषः। कुत्सितस्यानुकम्पायां भविष्यत्यनुकम्पितस्य कुत्सायाम्॥ (प्रकारान्तरेणापि प्रत्ययोपपादकं भाष्यम्) अथ वा - स्वार्थमभिधाय शब्दो निर- पेक्षो द्रव्यमाह समवेतम्। समवेतस्य च वचने लिङ्गं वचनं विभक्तिं च ॥ अभिधाय तान् विशेषान्- पेक्षमाणश्च कृत्स्नमात्मानम्। प्रियकुत्सनादिषु पुनः प्रवर्ततेऽसौ विभक्त्यन्तः॥ (कुत्सितस्य प्रकृतिप्रत्ययविशेषणत्वाक्षेपभाष्यम्) कथं पुनरिदं विज्ञायते - कुत्सितादीनामर्थ इति, आहोस्वित् कुत्सितादिसमानाधिकरणात्प्रातिपदिकादिति। कश्चात्र विशेषः? (5881 प्रत्ययाविशेषणत्वाक्षेपवार्तिकम्॥ 1 ॥) - कुत्सितादीनामर्थे चेल्लिङ्गवचनानुपपत्तिः - (भाष्यम्) कुत्सितादीनामर्थे चेल्लिङ्गवचनयोरनुपपत्तिः। पटुकम्, पटुका, पटुकः, पटुकौ, पटुकाः - इति। एकोऽयमर्थः कुत्सितं नाम तस्यैकत्वादेकवचनमेव प्राप्नोति। (वार्तिकावतरणभाष्यम्) अस्तु तर्हि कुत्सितादिसमानाधिकरणात् प्रातिपदिकादिति॥ (5882 प्रकृतिविशेषणत्वाक्षेपवार्तिकम्॥ 2 ॥) - कुत्सितादिसमानाधिकरणादिति चेदतिप्रसङ्गो यथा टाबादिषु - (भाष्यम्) कुत्सितादिसमानाधिकरणादिति चेदतिप्रसङ्गो भवति, यथा - टाबादिषु। कथं च टाबादिषु? उक्तं तत्र - स्त्रीसमानाधिकरणादिति चेद् भूतादिष्वतिप्रसङ्गः इति। एवमिहापि कुत्सितादिसमानाधिकरणादिति चेदतिप्रसङ्गो भवति - ःइदं घृतकम्, इदं तैलकम् - ःइदं शब्दादपि प्राप्नोति॥ (5883 सिद्धान्तवार्तिकम्॥ 3 ॥) - सिद्धं तु येन कुत्सितादिवचनं तद्युक्तात्स्वार्थे प्रत्ययविधानात् - (भाष्यम्) सिद्धमेतत्। कथम्? येन कुत्सितादयोऽर्था गम्यन्ते तद्युक्तात्स्वार्थे प्रत्ययो भवतीति वक्तव्यम्। सिद्ध्यति। सूत्रं तर्हि भिद्यते॥ यथान्यासमेवास्तु। ननु चोक्तं - कुत्सितादीनामर्थे चेल्लिङ्गवचनानुपपत्तिरिति। नैष दोषः। नायं प्रत्ययार्थः। किं तर्हि? प्रकृत्यर्थविशेषणमेतत्। कुत्सितादिषु यत्प्रातिपदिकं वर्तते तस्मात्कादयो भवन्ति। कस्मिन्नर्थे? स्वार्थ इति। स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते॥
Kashika¶
कुत्सितो गर्हितो निन्दितः। प्रकृत्यर्थविशेषणं चैतत्। कुत्सितत्वोपाधिकेऽर्थे वर्तमानात् प्रातिपदिकात् स्वार्थे यथाविहितं प्रत्ययो भवति। कुत्सितोऽश्वः अश्वकः। उष्ट्रकः। गर्दभकः। उच्चकैः। नीचकैः। सर्वके। विश्वके पचतकि। जल्पतकि॥
Siddhanta Kaumudi¶
कुत्सितोऽश्वोऽश्वकः ॥
Laghu Siddhanta Kaumudi¶
कुत्सितोऽश्वोऽश्वकः॥
Padamanjari¶
प्रकृत्यर्थविशेषणं चैतदिति। प्रकृत्यर्थस्यैतद्विशेषणम्, न तूपलक्षणमित्यर्थः। उपलक्षणत्वे हि यः कुत्सितस्तत्र वर्तमानादिति विज्ञायमाने इदं घृतकम्, इदं तैलकमित्यत्रेदंशब्दादपि प्राप्नोति। विशेषणत्वे त्वङ्गीकृतकुत्सात्प्रत्ययः, न त्वनुपातकुत्सात्; कुत्सिसमानाधिकरणात्। प्रत्ययार्थत्वे तु’प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतस्तयोः प्रत्ययार्थः प्रधानम्’ इति प्रकृत्यर्थस्य विशेषषणत्वं कुत्सितस्य विशेष्यत्वं प्राप्नोति, विपर्ययश्च लोके गम्यते। तस्मात्प्रकृत्यर्थविशेषणमिति सुष्ठूअक्तम्। अश्वक इति। योऽश्व एव सन् तत्साध्यां क्रियां सुष्ठुअ न करोति स एवमुच्यते। स्वार्थिकेपु हि यत्र प्रवृत्तिनिमितस्य विशेषणासम्भवः, तत्राभिधेयसहचरितधर्मान्तराश्रयः प्रत्ययो भवतीत्युक्तम्। एवं च देवदतकः, डित्थक इत्यपि भवति यस्तत्साध्यामर्थं सम्यङ् नानुतिष्टति। सम्भवे त्विहापि शब्दोपातमर्माश्रयैव कुत्सा, तद्यथा - पटुअकः पण्डितक इति स्वार्थे कुत्सा;’प्राप्य गाण्कडीवधन्वानं विद्धि कौरवकान् स्त्रियः’ इति लिङ्गकुत्सा, कौरवकानिति किमेतेऽर्जुनसंनिधौ पुमांस इत्यर्थः; क्वचित्सङ्खयाकुत्सा, यथा - इदमेकमेव शनकमिति, शनभरणे यद्दुःखं तदेकस्यैव भरण इति शतत्वरूपेण कुत्सा। सर्वथाङ्गीकृतकुत्सात्प्रत्यय। अथेह कथं प्रत्ययः - कुत्सितक इति ? कथञ्च न स्यात् ? स्वशब्देनोपातत्वात् कुत्सायाः ? अनुकम्पादावर्थान्तरे भविप्यति। अथ वा - कुत्सितस्य यत्कुत्सनं तत्र प्रत्ययः। कुत्सितत्वं यदा कुत्स्यते - नास्य सम्यक्कुत्सितत्वमिति, तदेत्यर्थः। यथा - प्रकर्पस्य प्रकर्पे प्रकृष्टतम इति तमप्प्रत्ययो भवति तद्वदत्रापि। एतेनानुकम्पितशब्दादनुकम्पायां प्रत्ययो व्याख्यातः ॥
Prakriyasarvasvam¶
अस्मिन्नर्थे काकचौ स्तः । विप्रकः । जल्पतकि । तूष्णीकामास्ते ॥