53074: कुत्सिते =============== **Padacheda:** कुत्सिते | S | 7 | 1 | Sutrartha --------- **'कुत्सितः' इत्यस्य विशेषणरूपेण विहितात् प्रातिपदिकात् तिङन्तात् च स्वार्थे क-प्रत्ययः तस्य अपवादः वा विधीयते ।** 'कुत्सितः' (निन्दितः / bad / spoiled / inappropriate ) इत्यनेन यस्य पदार्थस्य निर्देशः भवति, तस्मात् प्रातिपदिकात् स्वार्थे 'क' इति प्रत्ययः (उत तस्य अपवादः) विधीयते । यथा - 1. कुत्सितः अश्वः = अश्व + क → अश्वकः । कार्ये असमीचीनः यः अश्वः (a horse that is useless for work) तस्य निर्देशार्थम् 'अश्वक' शब्दः प्रयुज्यते । 2. कुत्सितः गर्दभः = गर्दभ + क → गर्दभक । 3. कुत्सितः उष्ट्रः = उष्ट्र + क → उष्ट्रक । अव्ययानाम्, सर्वनामशब्दानाम्, तथा च तिङन्तानाम् विषये अपि अस्य सूत्रस्य प्रसक्तिः विद्यते, परन्तु एतेभ्यः परस्य क-प्रत्ययस्य अपवादरूपेण **अव्ययसर्वनाम्नामकच् प्राक् टेः** (5.3.71) इति अकच्-प्रत्ययः विधीयते, सः च अङ्गस्य टि-संज्ञकात् पूर्वमागच्छति । उदाहरणानि एतानि - 1. कुत्सितः उच्चैः (inappropriate height) = उच्च् + अकच् + ऐस् → उच्चकैः । 2. कुत्सितः शनैः (inappropriate slow speed) = शन् + अकच् + ऐस् → शनकैः । 3. कुत्सिताः सर्वे (inappropriate all) = सर्व् + अकच् + जस् → सर्वके । 4. कुत्सितम् पचति (someone cooks something inappropriate) = पचतकि । अयम् शब्दः क्रियापदरूपेणैव प्रयुज्यते । यथा - 'रामः पचतकि' । 'रामः कुत्सितम् पचति' इत्याशयः । ज्ञातव्यम् - **अज्ञाते** (5.3.73) इत्यनेन सूत्रेण 'अज्ञातः' अस्मिन् अर्थेऽपि एते एव सर्वे शब्दाः सिद्ध्यन्ति । अतः सन्दर्भं दृष्ट्वैव अर्थस्य निर्णयः कर्तव्यः । Vasu English Summary -------------------- The affixes क -- प्रागिवात्कः (5.3.70), and अकच् (अक्) -- अव्ययसर्वनाम्नामकच् प्राक् टेः (5.3.71), come when the thing is spoken of as contemptible. Vasu English Translation ------------------------ The affixes क -- प्रागिवात्कः (5.3.70), and अकच् (अक्) -- अव्ययसर्वनाम्नामकच् प्राक् टेः (5.3.71), come when the thing is spoken of as contemptible. Thus अश्वकः 'a sorry horse'. उष्ट्रकः, गर्दभकः, उच्चकैः, नीचकैः सर्वके, विश्वक ॥ पचतकि 'he cooks comtemptibly'. जल्पतकि 'he speaks insignificantly'. Bhashya ------- कुत्सिते (2232) (प्रत्ययानुपपत्तिप्रतिपादकभाष्यम्) इह - कुत्सितकः, अनुकम्पितक इति स्वशब्देनोक्तत्वात्तस्यार्थस्य प्रत्ययो न प्राप्नोति॥ (प्रत्ययोपपादकं भाष्यम्) नैष दोषः। कुत्सितस्यानुकम्पायां भविष्यत्यनुकम्पितस्य कुत्सायाम्॥ (प्रकारान्तरेणापि प्रत्ययोपपादकं भाष्यम्) अथ वा - स्वार्थमभिधाय शब्दो निर- पेक्षो द्रव्यमाह समवेतम्। समवेतस्य च वचने लिङ्गं वचनं विभक्तिं च ॥ अभिधाय तान् विशेषान्- पेक्षमाणश्च कृत्स्नमात्मानम्। प्रियकुत्सनादिषु पुनः प्रवर्ततेऽसौ विभक्त्यन्तः॥ (कुत्सितस्य प्रकृतिप्रत्ययविशेषणत्वाक्षेपभाष्यम्) कथं पुनरिदं विज्ञायते - कुत्सितादीनामर्थ इति, आहोस्वित् कुत्सितादिसमानाधिकरणात्प्रातिपदिकादिति। कश्चात्र विशेषः? (5881 प्रत्ययाविशेषणत्वाक्षेपवार्तिकम्॥ 1 ॥) - कुत्सितादीनामर्थे चेल्लिङ्गवचनानुपपत्तिः - (भाष्यम्) कुत्सितादीनामर्थे चेल्लिङ्गवचनयोरनुपपत्तिः। पटुकम्, पटुका, पटुकः, पटुकौ, पटुकाः - इति। एकोऽयमर्थः कुत्सितं नाम तस्यैकत्वादेकवचनमेव प्राप्नोति। (वार्तिकावतरणभाष्यम्) अस्तु तर्हि कुत्सितादिसमानाधिकरणात् प्रातिपदिकादिति॥ (5882 प्रकृतिविशेषणत्वाक्षेपवार्तिकम्॥ 2 ॥) - कुत्सितादिसमानाधिकरणादिति चेदतिप्रसङ्गो यथा टाबादिषु - (भाष्यम्) कुत्सितादिसमानाधिकरणादिति चेदतिप्रसङ्गो भवति, यथा - टाबादिषु। कथं च टाबादिषु? उक्तं तत्र - स्त्रीसमानाधिकरणादिति चेद् भूतादिष्वतिप्रसङ्गः इति। एवमिहापि कुत्सितादिसमानाधिकरणादिति चेदतिप्रसङ्गो भवति - ःइदं घृतकम्, इदं तैलकम् - ःइदं शब्दादपि प्राप्नोति॥ (5883 सिद्धान्तवार्तिकम्॥ 3 ॥) - सिद्धं तु येन कुत्सितादिवचनं तद्युक्तात्स्वार्थे प्रत्ययविधानात् - (भाष्यम्) सिद्धमेतत्। कथम्? येन कुत्सितादयोऽर्था गम्यन्ते तद्युक्तात्स्वार्थे प्रत्ययो भवतीति वक्तव्यम्। सिद्ध्यति। सूत्रं तर्हि भिद्यते॥ यथान्यासमेवास्तु। ननु चोक्तं - कुत्सितादीनामर्थे चेल्लिङ्गवचनानुपपत्तिरिति। नैष दोषः। नायं प्रत्ययार्थः। किं तर्हि? प्रकृत्यर्थविशेषणमेतत्। कुत्सितादिषु यत्प्रातिपदिकं वर्तते तस्मात्कादयो भवन्ति। कस्मिन्नर्थे? स्वार्थ इति। स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते॥ Kashika ------- कुत्सितो गर्हितो निन्दितः। प्रकृत्यर्थविशेषणं चैतत्। कुत्सितत्वोपाधिकेऽर्थे वर्तमानात् प्रातिपदिकात् स्वार्थे यथाविहितं प्रत्ययो भवति। कुत्सितोऽश्वः अश्वकः। उष्ट्रकः। गर्दभकः। उच्चकैः। नीचकैः। सर्वके। विश्वके पचतकि। जल्पतकि॥ Siddhanta Kaumudi ----------------- कुत्सितोऽश्वोऽश्वकः ॥ Laghu Siddhanta Kaumudi ----------------------- कुत्सितोऽश्वोऽश्वकः॥ Padamanjari ----------- प्रकृत्यर्थविशेषणं चैतदिति। प्रकृत्यर्थस्यैतद्विशेषणम्, न तूपलक्षणमित्यर्थः। उपलक्षणत्वे हि यः कुत्सितस्तत्र वर्तमानादिति विज्ञायमाने इदं घृतकम्, इदं तैलकमित्यत्रेदंशब्दादपि प्राप्नोति। विशेषणत्वे त्वङ्गीकृतकुत्सात्प्रत्ययः, न त्वनुपातकुत्सात्; कुत्सिसमानाधिकरणात्। प्रत्ययार्थत्वे तु'प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतस्तयोः प्रत्ययार्थः प्रधानम्' इति प्रकृत्यर्थस्य विशेषषणत्वं कुत्सितस्य विशेष्यत्वं प्राप्नोति, विपर्ययश्च लोके गम्यते। तस्मात्प्रकृत्यर्थविशेषणमिति सुष्ठूअक्तम्। अश्वक इति। योऽश्व एव सन् तत्साध्यां क्रियां सुष्ठुअ न करोति स एवमुच्यते। स्वार्थिकेपु हि यत्र प्रवृत्तिनिमितस्य विशेषणासम्भवः, तत्राभिधेयसहचरितधर्मान्तराश्रयः प्रत्ययो भवतीत्युक्तम्। एवं च देवदतकः, डित्थक इत्यपि भवति यस्तत्साध्यामर्थं सम्यङ् नानुतिष्टति। सम्भवे त्विहापि शब्दोपातमर्माश्रयैव कुत्सा, तद्यथा - पटुअकः पण्डितक इति स्वार्थे कुत्सा;'प्राप्य गाण्कडीवधन्वानं विद्धि कौरवकान् स्त्रियः' इति लिङ्गकुत्सा, कौरवकानिति किमेतेऽर्जुनसंनिधौ पुमांस इत्यर्थः; क्वचित्सङ्खयाकुत्सा, यथा - इदमेकमेव शनकमिति, शनभरणे यद्दुःखं तदेकस्यैव भरण इति शतत्वरूपेण कुत्सा। सर्वथाङ्गीकृतकुत्सात्प्रत्यय। अथेह कथं प्रत्ययः - कुत्सितक इति ? कथञ्च न स्यात् ? स्वशब्देनोपातत्वात् कुत्सायाः ? अनुकम्पादावर्थान्तरे भविप्यति। अथ वा - कुत्सितस्य यत्कुत्सनं तत्र प्रत्ययः। कुत्सितत्वं यदा कुत्स्यते - नास्य सम्यक्कुत्सितत्वमिति, तदेत्यर्थः। यथा - प्रकर्पस्य प्रकर्पे प्रकृष्टतम इति तमप्प्रत्ययो भवति तद्वदत्रापि। एतेनानुकम्पितशब्दादनुकम्पायां प्रत्ययो व्याख्यातः ॥ Prakriyasarvasvam ----------------- अस्मिन्नर्थे काकचौ स्तः । विप्रकः । जल्पतकि । तूष्णीकामास्ते ॥