53062: वृद्धस्य च¶
Padacheda: वृद्धस्य | S | 6 | 1 |
च | S | 0 | 0 |
Sutrartha¶
‘अतिशय’ अस्मिन् सन्दर्भे ‘वृद्ध’ शब्दस्य अजाद्योः प्रत्यययोः परयोः ‘ज्य’ इति आदेशः भवति ।
‘वृद्ध’ (= old / grown up) इत्यस्मात् शब्दात् ‘अतिशय’ अस्मिन् सन्दर्भे अतिशायने तमबिष्ठनौ (5.3.55) इत्यनेन ‘इष्ठन्’ तथा द्विवचनविभज्योपपदे तरबीयसुनौ (5.3.57) इत्यनेन ‘ईयसुँन्’ एतौ द्वौ अजादिप्रत्ययौ विधीयेते । एतयोः प्रत्यययोः परयोः ‘वृद्ध’शब्दस्य ‘ज्य’ इति आदेशः भवति । यथा - 1. एते सर्वे वृद्धाः । अयम् एतेषामतिशयेन वृद्धः, अतः अयम् ‘ज्येष्ठः’ । प्रक्रिया इयम् - वृद्ध + इष्ठन् ज्य + इष्ठन् [वर्तमानसूत्रेण ‘वृद्ध’ शब्दस्य ‘ज्य’ आदेशः] → ज्येष्ठ [यस्येति च (6.4.148) इत्यनेन अकारलोपे प्राप्ते ; तं बाधित्वा टेः (6.4.155) इत्यनेन टिलोपे प्राप्ते ; प्रकृत्यैकाच् (6.4.163) इत्यनेन अङ्गस्य प्रकृतिभावः विधीयते । अग्रे आद्गुणः (6.1.87) इति गुण-एकादेशं कृत्वा रूपं सिद्ध्यति । 2. एतौ द्वौ वृद्धौ। अयम् एतयोः अतिशयेन वृद्धः , अतः अयम् ज्यायान् । प्रक्रिया इयम् - वृद्ध + ईयसुँन् → वृद्ध + ईयस् → ज्य + ईयस् [वर्तमानसूत्रेण ‘वृद्ध’ शब्दस्य ‘ज्य’ आदेशः] → ज्य + आयस् [ज्यादादीयसः (6.4.160) इति ईकारस्य आकारः] → ज्यायस् [यस्येति च (6.4.148) इत्यनेन अकारलोपे प्राप्ते ; तं बाधित्वा टेः (6.4.155) इत्यनेन टिलोपे प्राप्ते ; प्रकृत्यैकाच् (6.4.163) इत्यनेन अङ्गस्य प्रकृतिभावः विधीयते । अग्रे अकः सवर्णे दीर्घः (6.1.101) इति सवर्णदीर्घं कृत्वा रूपं सिद्ध्यति ।] अस्य प्रथमैकवचने उगिदचां सर्वनामस्थानेऽधातोः (7.1.70) इति नुमागमे कृते ‘ज्यायान्’ इति रूपम् सिद्ध्यति । विशेषः - प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः (6.4.157) अनेन सूत्रेण ‘वृद्ध’ शब्दस्य इष्ठन्/ईयसुन्-प्रत्यययोः परयोः ‘वर्ष्’ इति अपि आदेशः भवति । अतः पक्षे ‘वर्षिष्ठ’ तथा ‘वर्षीयस्’ एते प्रातिपदिके अपि सिद्ध्यतः । ज्ञातव्यम् - 1. ‘वृद्ध’ इति ‘वृध्’ धातोः क्त-प्रत्ययान्तरूपम् । अयम् शब्दः वस्तुतः गुणवाची नास्ति, अतः अस्मात् शब्दात् ‘अतिशय’ अस्मिन् सन्दर्भे अतिशायने तमबिष्ठनौ (5.3.55) तथा द्विवचनविभज्योपपदे तरबीयसुनौ (5.3.57) इत्यनयोः सूत्रयोः ‘इष्ठन्’, ‘तमप्’, ईयसुँन्’, ‘तरप्’ एतेषु चतुर्षु प्रत्ययेषु प्राप्तेषु अजादी गुणवचनादेव (5.3.58) इत्यनेन सूत्रेण ‘इष्ठन्’ तथा ‘ईयसुँन्’ एतौ अजादिप्रत्ययौ वस्तुतः नियम्येते (= न प्रयुज्येते) । परन्तु वर्तमानसूत्रेण अजादिप्रत्यययोः परयोः एव ‘वृद्ध’ शब्दस्य ‘ज्य आदेशः उक्तः अस्ति । अतः विधानसामर्थ्यात् ‘वृद्ध’शब्दात् अपि अजादी प्रत्ययौ भवतः एव । 2. अस्मिन् सूत्रे ‘वृद्ध’ इत्यनेन ‘वृद्ध’ इत्यस्य शब्दस्य ग्रहणम् क्रियते, न हि ‘वृद्ध’ इति व्याकरणविशिष्टस्य संज्ञावाचिशब्दस्य ।
Vasu English Summary¶
ज्य is also substituted for वृद्ध when the affixes इष्ठन् and इयसुन् follow.
Vasu English Translation¶
ज्य is also substituted for वृद्ध when the affixes इष्ठन् and इयसुन् follow. Thus ज्येष्ठः ‘the oldest’, ज्यायान् ‘the older’. By (6.4.157), वर्षि is also substituted for वृद्ध; and we have वर्षीष्ठः and वर्षीयान् also. The word वृद्ध though not a gunavachana, takes these affixes by the implication of this sutra.
Kashika¶
वृद्धशब्दस्य च ज्य इत्ययमादेशो भवत्यजाद्योः प्रत्यययोः परतः। तयोश्च सत्त्वं नियमाभावेन पूर्ववद् ज्ञाप्यते। सर्व इमे वृद्धाः, अयमेषामतिशयेन वृद्धो ज्येष्ठः। उभाविमौ वृद्धौ, अयमनयोरतिशयेन वृद्धो ज्यायान्। अयमस्माद् ज्यायान्। प्रियस्थिर० (६.४.१५७) इत्यादिना वृद्धशब्दस्य वर्षादेशो विधीयते। वचनसामर्थ्यात् पक्षे सोऽपि भवति — वर्षिष्ठः, वर्षीयानिति॥
Siddhanta Kaumudi¶
ज्यादेशः स्यादजाद्योः । ज्येष्ठः । ज्यायान् ॥
Balamanorama¶
वृद्धस्य च - वृद्धस्य च । शेषपूरणेन सूत्रं व्याचष्टे — ज्यादेशः स्यादजाद्योरिति । इष्ठन्नीयसुनोरित्यर्थः । ज्येष्ठ इति । अयमनयोरति शयेन वृद्ध इत्यर्थः ।
Tattvabodhini¶
वृद्धस्य च - वृद्धस्य च । स्वरूपस्येह ग्रहणं, न तुवृद्धिर्यस्याचामादि॑रिति पारिभाषिकस्य, व्याख्यानात् । अस्यप्रियस्थिरे॑त्यादिना वर्षादेसोऽपि पक्षे भवति । न च तस्येमनिचि सावकाशता शङ्क्या, वृद्धशब्दादिमनिचोऽभावात् । यदि तुवृद्धस्य वर्षिश्चे॑ति सूत्रमिहैव क्रियेत तदा द्विर्वृद्धग्रहणं न कर्तव्यमिति लाघवं भवतीत्याहुः ।
Padamanjari¶
स्वरूपग्रहणम्, न तु’वृद्धिर्यस्याचामादिः’ इति पारिभाषिकस्येत्याह - वृद्धशब्दस्येति। अत्र च व्याख्यानमेव शरणम्। तयोश्चेत्यादि। यत्पूर्वमुक्तम् - ठेवमुतरेष्वपि योगेषु विज्ञेयम्ऽ इति, तदेवानेन स्मारितम्। वचनात्पक्षे सोऽपि भवतीति। ननु च वर्षादेशस्येमनिजवकाशः स्यात्? न; वृद्धशब्दादिमनिचोऽभावात्। यद्येवम्, वर्षादेसोऽपीहैव वक्तव्यः - वृद्धस्य वर्षिश्चेति, एवं हि द्विर्वृद्धग्रहणं न कर्तव्यं भवति? सत्यम्; तथा तु न कृतमित्येव। अपर आह - इष्ठनीयसुनोरिमवेमनिचोऽपि सद्भावः कल्प्यते, तेन वर्षिमेत्यपि भवति। तस्य मते - वर्षादेशस्येमनिचि चरितार्थत्वादिष्ठन्नीयसुनोरनेन ज्यादेश एव प्राप्नोति। तस्माद्’युवाल्पयोः कनन्यतरस्याम्’ इत्यत्रेदमनुवर्तते, तेन ज्यादेशेन मुक्ते पक्षे वर्षादेशः ॥
Nyaas¶
वृद्धशब्दस्य इति। वृद्ध इत्येतस्य शब्दस्येत्यर्थः। एतेन वृद्धस्य इति स्वरूपग्रहणं दर्शयति। ननु च वृद्धशब्दश्च संज्ञा कृता - वृद्धिर्यस्याचामादिस्तद् वृद्धम् (1.1.73) इति, अतस्तत्प्रत्यायितस्यैव संज्ञिनो ग्रहणं न स्वरूपस्य, स्वं रूपं शब्दस्याशब्दसंज्ञा (1.1.68) इति वचनात्? नैष दोषः, प्रशस्यस्य इत्येतदिहानुवर्तते, तेन वृद्धशब्दो विशेष्यते - प्रशस्यस्य वृद्धस्येति। स्वरूपग्रहणे वयोऽधिके च शब्दार्थे प्रशस्यता युज्यते, न पारिभाषिकग्रहणे। अथ वा - स्थानेऽन्तरतमपरिभाषया (1.1.49) ज्यशब्दस्य योऽन्तरतमः स एव स्थानो विज्ञायते, अन्तरतमश्च तस्य वृद्धशब्द एव, तेन तस्यैव ग्रहणं युक्तम्। तयोश्च इत्यादि। यथा प्रशस्यस्य श्रः (5.3.60) इत्यत्र नियमाभावेनाजाद्योः प्रत्यययोः सत्त्वं ज्ञापितम्, तथेहापि ज्ञाप्यते। नियमाभावस्त्वजाद्योः परतः पूर्ववदादेशविषानादेव वेदितव्यः॥
Prakriyasarvasvam¶
इष्ठेयसोर्वृद्धस्यापि ज्य स्यात् । वृद्धतमो ज्येष्ठः ज्यायान् ।
Sutra Prayogas¶
ज्येष्ठस्य (किरातार्जुनीयम्): वृद्धस्य च इति ज्यादेशः।