53062: वृद्धस्य च ================= **Padacheda:** वृद्धस्य | S | 6 | 1 | च | S | 0 | 0 | Sutrartha --------- **'अतिशय' अस्मिन् सन्दर्भे 'वृद्ध' शब्दस्य अजाद्योः प्रत्यययोः परयोः 'ज्य' इति आदेशः भवति ।** 'वृद्ध' (= old / grown up) इत्यस्मात् शब्दात् 'अतिशय' अस्मिन् सन्दर्भे अतिशायने **तमबिष्ठनौ** (5.3.55) इत्यनेन 'इष्ठन्' तथा **द्विवचनविभज्योपपदे तरबीयसुनौ** (5.3.57) इत्यनेन 'ईयसुँन्' एतौ द्वौ अजादिप्रत्ययौ विधीयेते । एतयोः प्रत्यययोः परयोः 'वृद्ध'शब्दस्य 'ज्य' इति आदेशः भवति । यथा - 1. एते सर्वे वृद्धाः । अयम् एतेषामतिशयेन वृद्धः, अतः अयम् 'ज्येष्ठः' । प्रक्रिया इयम् - वृद्ध + इष्ठन् ज्य + इष्ठन् [वर्तमानसूत्रेण 'वृद्ध' शब्दस्य 'ज्य' आदेशः] → ज्येष्ठ [**यस्येति च** (6.4.148) इत्यनेन अकारलोपे प्राप्ते ; तं बाधित्वा **टेः** (6.4.155) इत्यनेन टिलोपे प्राप्ते ; **प्रकृत्यैकाच्** (6.4.163) इत्यनेन अङ्गस्य प्रकृतिभावः विधीयते । अग्रे **आद्गुणः** (6.1.87) इति गुण-एकादेशं कृत्वा रूपं सिद्ध्यति । 2. एतौ द्वौ वृद्धौ। अयम् एतयोः अतिशयेन वृद्धः , अतः अयम् ज्यायान् । प्रक्रिया इयम् - वृद्ध + ईयसुँन् → वृद्ध + ईयस् → ज्य + ईयस् [वर्तमानसूत्रेण 'वृद्ध' शब्दस्य 'ज्य' आदेशः] → ज्य + आयस् [**ज्यादादीयसः** (6.4.160) इति ईकारस्य आकारः] → ज्यायस् [**यस्येति च** (6.4.148) इत्यनेन अकारलोपे प्राप्ते ; तं बाधित्वा **टेः** (6.4.155) इत्यनेन टिलोपे प्राप्ते ; **प्रकृत्यैकाच्** (6.4.163) इत्यनेन अङ्गस्य प्रकृतिभावः विधीयते । अग्रे **अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घं कृत्वा रूपं सिद्ध्यति ।] अस्य प्रथमैकवचने **उगिदचां सर्वनामस्थानेऽधातोः** (7.1.70) इति नुमागमे कृते 'ज्यायान्' इति रूपम् सिद्ध्यति । विशेषः - **प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः** (6.4.157) अनेन सूत्रेण 'वृद्ध' शब्दस्य इष्ठन्/ईयसुन्-प्रत्यययोः परयोः 'वर्ष्' इति अपि आदेशः भवति । अतः पक्षे 'वर्षिष्ठ' तथा 'वर्षीयस्' एते प्रातिपदिके अपि सिद्ध्यतः । ज्ञातव्यम् - 1. 'वृद्ध' इति 'वृध्' धातोः क्त-प्रत्ययान्तरूपम् । अयम् शब्दः वस्तुतः गुणवाची नास्ति, अतः अस्मात् शब्दात् 'अतिशय' अस्मिन् सन्दर्भे **अतिशायने तमबिष्ठनौ** (5.3.55) तथा **द्विवचनविभज्योपपदे तरबीयसुनौ** (5.3.57) इत्यनयोः सूत्रयोः 'इष्ठन्', 'तमप्', ईयसुँन्', 'तरप्' एतेषु चतुर्षु प्रत्ययेषु प्राप्तेषु **अजादी गुणवचनादेव** (5.3.58) इत्यनेन सूत्रेण 'इष्ठन्' तथा 'ईयसुँन्' एतौ अजादिप्रत्ययौ वस्तुतः नियम्येते (= न प्रयुज्येते) । परन्तु वर्तमानसूत्रेण अजादिप्रत्यययोः परयोः एव 'वृद्ध' शब्दस्य 'ज्य आदेशः उक्तः अस्ति । अतः विधानसामर्थ्यात् 'वृद्ध'शब्दात् अपि अजादी प्रत्ययौ भवतः एव । 2. अस्मिन् सूत्रे 'वृद्ध' इत्यनेन 'वृद्ध' इत्यस्य शब्दस्य ग्रहणम् क्रियते, न हि 'वृद्ध' इति व्याकरणविशिष्टस्य संज्ञावाचिशब्दस्य । Vasu English Summary -------------------- ज्य is also substituted for वृद्ध when the affixes इष्ठन् and इयसुन् follow. Vasu English Translation ------------------------ ज्य is also substituted for वृद्ध when the affixes इष्ठन् and इयसुन् follow. Thus ज्येष्ठः 'the oldest', ज्यायान् 'the older'. By (6.4.157), वर्षि is also substituted for वृद्ध; and we have वर्षीष्ठः and वर्षीयान् also. The word वृद्ध though not a *gunavachana*, takes these affixes by the implication of this *sutra*. Kashika ------- वृद्धशब्दस्य च ज्य इत्ययमादेशो भवत्यजाद्योः प्रत्यययोः परतः। तयोश्च सत्त्वं नियमाभावेन पूर्ववद् ज्ञाप्यते। सर्व इमे वृद्धाः, अयमेषामतिशयेन वृद्धो ज्येष्ठः। उभाविमौ वृद्धौ, अयमनयोरतिशयेन वृद्धो ज्यायान्। अयमस्माद् ज्यायान्। **प्रियस्थिर०** (६.४.१५७) इत्यादिना वृद्धशब्दस्य वर्षादेशो विधीयते। वचनसामर्थ्यात् पक्षे सोऽपि भवति — वर्षिष्ठः, वर्षीयानिति॥ Siddhanta Kaumudi ----------------- ज्यादेशः स्यादजाद्योः । ज्येष्ठः । ज्यायान् ॥ Balamanorama ------------ **वृद्धस्य च** - वृद्धस्य च । शेषपूरणेन सूत्रं व्याचष्टे — ज्यादेशः स्यादजाद्योरिति । इष्ठन्नीयसुनोरित्यर्थः । ज्येष्ठ इति । अयमनयोरति शयेन वृद्ध इत्यर्थः । Tattvabodhini ------------- **वृद्धस्य च** - वृद्धस्य च । स्वरूपस्येह ग्रहणं, न तुवृद्धिर्यस्याचामादि॑रिति पारिभाषिकस्य, व्याख्यानात् । अस्यप्रियस्थिरे॑त्यादिना वर्षादेसोऽपि पक्षे भवति । न च तस्येमनिचि सावकाशता शङ्क्या, वृद्धशब्दादिमनिचोऽभावात् । यदि तुवृद्धस्य वर्षिश्चे॑ति सूत्रमिहैव क्रियेत तदा द्विर्वृद्धग्रहणं न कर्तव्यमिति लाघवं भवतीत्याहुः । Padamanjari ----------- स्वरूपग्रहणम्, न तु'वृद्धिर्यस्याचामादिः' इति पारिभाषिकस्येत्याह - वृद्धशब्दस्येति। अत्र च व्याख्यानमेव शरणम्। तयोश्चेत्यादि। यत्पूर्वमुक्तम् - ठेवमुतरेष्वपि योगेषु विज्ञेयम्ऽ इति, तदेवानेन स्मारितम्। वचनात्पक्षे सोऽपि भवतीति। ननु च वर्षादेशस्येमनिजवकाशः स्यात्? न; वृद्धशब्दादिमनिचोऽभावात्। यद्येवम्, वर्षादेसोऽपीहैव वक्तव्यः - वृद्धस्य वर्षिश्चेति, एवं हि द्विर्वृद्धग्रहणं न कर्तव्यं भवति? सत्यम्; तथा तु न कृतमित्येव। अपर आह - इष्ठनीयसुनोरिमवेमनिचोऽपि सद्भावः कल्प्यते, तेन वर्षिमेत्यपि भवति। तस्य मते - वर्षादेशस्येमनिचि चरितार्थत्वादिष्ठन्नीयसुनोरनेन ज्यादेश एव प्राप्नोति। तस्माद्'युवाल्पयोः कनन्यतरस्याम्' इत्यत्रेदमनुवर्तते, तेन ज्यादेशेन मुक्ते पक्षे वर्षादेशः ॥ Nyaas ----- `वृद्धशब्दस्य` इति। `वृद्ध` इत्येतस्य शब्दस्येत्यर्थः। एतेन `वृद्धस्य` इति स्वरूपग्रहणं दर्शयति। ननु च वृद्धशब्दश्च संज्ञा कृता - **वृद्धिर्यस्याचामादिस्तद् वृद्धम्** (1.1.73) इति, अतस्तत्प्रत्यायितस्यैव संज्ञिनो ग्रहणं न स्वरूपस्य, **स्वं रूपं शब्दस्याशब्दसंज्ञा** (1.1.68) इति वचनात्? नैष दोषः, `प्रशस्यस्य` इत्येतदिहानुवर्तते, तेन वृद्धशब्दो विशेष्यते - प्रशस्यस्य वृद्धस्येति। स्वरूपग्रहणे वयोऽधिके च शब्दार्थे प्रशस्यता युज्यते, न पारिभाषिकग्रहणे। अथ वा - स्थानेऽन्तरतमपरिभाषया (1.1.49) ज्यशब्दस्य योऽन्तरतमः स एव स्थानो विज्ञायते, अन्तरतमश्च तस्य वृद्धशब्द एव, तेन तस्यैव ग्रहणं युक्तम्। `तयोश्च` इत्यादि। यथा **प्रशस्यस्य श्रः** (5.3.60) इत्यत्र नियमाभावेनाजाद्योः प्रत्यययोः सत्त्वं ज्ञापितम्, तथेहापि ज्ञाप्यते। नियमाभावस्त्वजाद्योः परतः पूर्ववदादेशविषानादेव वेदितव्यः॥ Prakriyasarvasvam ----------------- इष्ठेयसोर्वृद्धस्यापि ज्य स्यात् । वृद्धतमो ज्येष्ठः ज्यायान् । Sutra Prayogas -------------- * **ज्येष्ठस्य** (किरातार्जुनीयम्): `वृद्धस्य च` इति ज्यादेशः।