53061: ज्य च

Padacheda: ज्य | S | | | 1

च | S | 0 | 0 |

Sutrartha

‘अतिशय’ अस्मिन् सन्दर्भे ‘प्रशस्य’ शब्दस्य अजाद्योः प्रत्यययोः परयोः ‘ज्य’ इति आदेशः भवति ।

‘प्रशस्य’ एतत् ‘प्र + शस्’ इत्यस्य क्यप्-प्रत्ययान्तरूपम् । ‘प्रशंसनमर्हति’ / ‘प्रशंसां अर्हति’ इति सः प्रशस्यः । The one to be praised / congratulated इत्याशयः । अस्मात् शब्दात् ‘अतिशय’ अस्मिन् सन्दर्भे अतिशायने तमबिष्ठनौ (5.3.55) इत्यनेन ‘इष्ठन्’ तथा द्विवचनविभज्योपपदे तरबीयसुनौ (5.3.57) इत्यनेन ‘ईयसुँन्’ एतौ द्वौ अजादिप्रत्ययौ स्वार्थे विधीयेते । एतयोः प्रत्यययोः परयोः प्रशस्य’शब्दस्य प्रशस्यस्य श्रः (5.3.60) इत्यनेन ‘श्र’ आदेशे प्राप्ते पक्षे वर्तमानसूत्रेण ‘ज्य’ आदेशः अपि भवति । यथा - 1. एते सर्वे प्रशस्याः । अयम् एतेषामतिशयेन प्रशस्यः, अतः अयम् ‘ज्येष्ठः’ । प्रक्रिया इयम् - प्रशस्य + इष्ठन् ज्य + इष्ठन् [वर्तमानसूत्रेण ‘प्रशस्य’ शब्दस्य ‘ज्य’ आदेशः] → ज्येष्ठ [यस्येति च (6.4.148) इत्यनेन अकारलोपे प्राप्ते ; तं बाधित्वा टेः (6.4.155) इत्यनेन टिलोपे प्राप्ते ; प्रकृत्यैकाच् (6.4.163) इत्यनेन अङ्गस्य प्रकृतिभावः विधीयते । अग्रे आद्गुणः (6.1.87) इति गुण-एकादेशं कृत्वा रूपं सिद्ध्यति ।] 2. एतौ द्वौ प्रशस्यौ । अयम् एतयोः अतिशयेन प्रशस्यः, अतः अयम् ज्यायान् । प्रक्रिया इयम् - प्रशस्य + ईयसुँन् → ज्य + ईयस् [वर्तमानसूत्रेण ‘प्रशस्य’ शब्दस्य ‘ज्य’ आदेशः] → ज्य + आयस् [ज्यादादीयसः (6.4.160) इति ईकारस्य आकारः] → ज्यायस् [यस्येति च (6.4.148) इत्यनेन अकारलोपे प्राप्ते ; तं बाधित्वा टेः (6.4.155) इत्यनेन टिलोपे प्राप्ते ; प्रकृत्यैकाच् (6.4.163) इत्यनेन अङ्गस्य प्रकृतिभावः विधीयते । अग्रे अकः सवर्णे दीर्घः (6.1.101) इति सवर्णदीर्घं कृत्वा रूपं सिद्ध्यति ।] अस्य प्रथमैकवचने उगिदचां सर्वनामस्थानेऽधातोः (7.1.70) इति नुमागमे कृते ‘ज्यायान्’ इति रूपम् सिद्ध्यति । पक्षे प्रशस्यस्य श्रः (5.3.60) इत्यनेन ‘श्र’ आदेशे कृते ‘श्रेष्ठ / श्रेयस्’ एते प्रातिपदिके अपि सिद्ध्यतः । ज्ञातव्यम् - 1. ‘प्रशस्य’ शब्दः वस्तुतः गुणवाची नास्ति, अतः अस्मात् शब्दात् ‘अतिशय’ अस्मिन् सन्दर्भे अतिशायने तमबिष्ठनौ (5.3.55) तथा द्विवचनविभज्योपपदे तरबीयसुनौ (5.3.57) इत्यनयोः सूत्रयोः ‘इष्ठन्’, ‘तमप्’, ईयसुँन्’, ‘तरप्’ एतेषु चतुर्षु प्रत्ययेषु प्राप्तेषु अजादी गुणवचनादेव (5.3.58) इत्यनेन सूत्रेण ‘इष्ठन्’ तथा ‘ईयसुँन्’ एतौ अजादिप्रत्ययौ वस्तुतः नियम्येते (= न प्रयुज्येते) । परन्तु वर्तमानसूत्रेण अजादिप्रत्यययोः परयोः एव ‘प्रशस्य’ शब्दस्य ‘ज्य आदेशः उक्तः अस्ति । अतः विधानसामर्थ्यात् ‘प्रशस्य’शब्दात् अपि अजादी प्रत्ययौ भवतः एव । 2. वस्तुतः ‘प्रशस्यस्य श्रः ज्यः च’ इति एकम् सूत्रमपि भवितुमर्हति । परन्तु तादृशं क्रियते चेत् ‘इष्ठन्’ प्रत्यये परे ‘श्रः’ तथा ‘ईयसुँन’ प्रत्यये परे ‘ज्य’ इति आदेशः भवेत् वा - इति संशयः उपपद्येत । तथा च, अग्रिमसूत्रे वृद्धस्य च (5.3.62) इत्यत्र केवलम् ‘ज्य’ इत्यस्यैव अनुवृत्तिः इष्यते, न हि ‘श्रः’ इत्यस्य । अतएव अत्र आचार्यः योगविभागं कृत्वा द्वे सूत्रे निर्माति ।

Vasu English Summary

For प्रशस्य is also substituted ज्य when the affixes इष्ठन् and इयसुन् follow.

Vasu English Translation

For प्रशस्य is also substituted ज्य when the affixes इष्ठन् and इयसुन् follow. As ज्येष्ठः, ज्यायान् (आ is substituted for the ई of ईयस् by (6.4.160)).

Kashika

प्रशस्यशब्दस्य ज्य इत्ययमादेशो भवत्यजाद्योः प्रत्यययोः परतः। सर्व इमे प्रशस्याः, अयमेषामतिशयेन प्रशस्यो ज्येष्ठः। उभाविमौ प्रशस्यौ, अयमनयोरतिशयेन प्रशस्यो ज्यायान्। अयमस्मात् ज्यायान्। ज्यादादीयसः (६.४.१६०) इत्याकारः॥

Siddhanta Kaumudi

प्रशस्यस्य ज्यादेशः स्यादिष्ठेयसोः । ज्येष्ठः ॥

Laghu Siddhanta Kaumudi

प्रशस्यस्य ज्यादेशः स्यादिष्ठेयसोः। ज्येष्ठः॥

Balamanorama

ज्य च - ज्य च ।ज्ये॑ति लुप्तप्रथमाकम् । प्रशस्यस्येति, अजादी इति चानुवर्तते । तदाह — प्रशस्यस्येति । ज्येष्ठ इति ।प्रकृत्यैका॑जिति प्रकृतिभावान्न टिलोपः । #ईयसु निज्यादेशेज्येया॑निति प्राप्ते — ।

Padamanjari

योगविभागा उतरत्र ज्यादेश एव यथा स्यात्, आदेशो मा भूदिति। अयमनयोरिति। अतिशयेन प्रशस्य इति विपरिणामेनापेक्ष्यते, न पुनरुतरेणैकग्रन्थता। एवं सर्वत्र ॥

Nyaas

योगविभागो यथासंख्यनिवृत्त्यर्थः, उत्तरार्थश्च। उत्तरत्र वृद्धशब्दस्य ज्यादेश एव यथा स्यात्, श्रादेशो मा भूविति॥

Prakriyasarvasvam

इष्ठेयसोः प्रशस्यस्य ज्य च स्यात् । ज्येष्ठः ॥