53060: प्रशस्यस्य श्रः ====================== **Padacheda:** प्रशस्यस्य | S | 6 | 1 | श्रः | S | 1 | 1 | Sutrartha --------- **'अतिशय' अस्मिन् सन्दर्भे 'प्रशस्य' शब्दस्य अजाद्योः प्रत्यययोः परयोः 'श्र' इति आदेशः भवति ।** 'प्रशस्य' एतत् 'प्र + शस्' इत्यस्य क्यप्-प्रत्ययान्तरूपम् । 'प्रशंसनमर्हति' / 'प्रशंसां अर्हति' इति सः प्रशस्यः । The one to be praised / congratulated इत्याशयः । अस्मात् शब्दात् 'अतिशय' अस्मिन् सन्दर्भे **अतिशायने तमबिष्ठनौ** (5.3.55) इत्यनेन 'इष्ठन्' तथा **द्विवचनविभज्योपपदे तरबीयसुनौ** (5.3.57) इत्यनेन 'ईयसुँन्' एतौ द्वौ अजादिप्रत्ययौ विधीयेते । एतयोः प्रत्यययोः परयोः प्रशस्य'शब्दस्य 'श्र' इति आदेशः भवति । यथा - 1. एते सर्वे प्रशस्याः । अयम् एतेषामतिशयेन प्रशस्यः, अतः अयम् 'श्रेष्ठः' । प्रक्रिया इयम् - प्रशस्य + इष्ठन् श्र + इष्ठ [वर्तमानसूत्रेण 'प्रशस्य' शब्दस्य 'श्र' आदेशः] → श्रेष्ठ [**टेः** (6.4.155) इत्यनेन टिलोेपे प्राप्ते **प्रकृत्यैकाच्** (6.4.163) इति निषेधः । अतः **आद्गुणः** (6.1.87) इति गुण-एकादेशः] 2. एतौ द्वौ प्रशस्यौ । अयम् एतयोः अतिशयेन प्रशस्यः, अतः अयम् श्रेयान् । प्रक्रिया इयम् - प्रशस्य + ईयसुँन् → श्र + ईयस् [वर्तमानसूत्रेण 'प्रशस्य' शब्दस्य 'श्र' आदेशः] → श्रेयस् [**टेः** (6.4.155) इत्यनेन टिलोेपे प्राप्ते **प्रकृत्यैकाच्** (6.4.163) इति निषेधः । अतः **आद्गुणः** (6.1.87) इति गुण-एकादेशः] अस्य प्रथमैकवचने **उगिदचां सर्वनामस्थानेऽधातोः** (7.1.70) इति नुमागमे कृते 'श्रेयान्' इति रूपम् सिद्ध्यति । विशेषः - **ज्य च** (5.3.61) इत्यनेन अग्रिमसूत्रेण 'प्रशस्य' शब्दस्य अजादिप्रत्यययोः परयोः 'ज्य' इत्यपि आदेशः भवति । ज्ञातव्यम् - 'प्रशस्य' शब्दः वस्तुतः गुणवाची नास्ति, अतः अस्मात् शब्दात् 'अतिशय' अस्मिन् सन्दर्भे **अतिशायने तमबिष्ठनौ** (5.3.55) तथा **द्विवचनविभज्योपपदे तरबीयसुनौ** (5.3.57) इत्यनयोः सूत्रयोः 'इष्ठन्', 'तमप्', ईयसुँन्', 'तरप्' एतेषु चतुर्षु प्रत्ययेषु प्राप्तेषु **अजादी गुणवचनादेव** (5.3.58) इत्यनेन सूत्रेण 'इष्ठन्' तथा 'ईयसुँन्' एतौ अजादिप्रत्ययौ वस्तुतः नियम्येते (= न प्रयुज्येते) । परन्तु वर्तमानसूत्रेण अजादिप्रत्यययोः परयोः एव 'प्रशस्य' शब्दस्य 'श्र' आदेशः उक्तः अस्ति । अतः विधानसामर्थ्यात् 'प्रशस्य'शब्दात् अपि अजादी प्रत्ययौ भवतः एव । Vasu English Summary -------------------- For प्रशस्य is substituted श्र when the affixes इष्ठन् and इयसुन् follow. Vasu English Translation ------------------------ For प्रशस्य is substituted श्र when the affixes इष्ठन् and इयसुन् follow. Though प्रशस्य is not an attribute, it takes these affixes by the application of this rule. The *anuvritti* of अजादी runs here, but the word must be changed into locative for the purposes of this aphorism, and which will read thus प्रशस्यस्य श्रोऽजाद्योः ॥ Thus सर्व इमे प्रशस्या अयमेषामतिशयेन प्रशस्यः = श्रेष्ठः, उभाविमौ प्रशस्यौ, अयमनयोरतिशयेन प्रशस्यः = श्रेयान् ॥ Rule (6.4.163) prevents the elision of the अ of श्र, which otherwise would have been elided by (6.4.148) and (5.4.155). These words are equal to प्रशस्यतरः and प्रशस्यतमः ॥ Bhashya ------- प्रशस्यस्य श्रः(2218) (श्रादेशाधिकरणम्) (सूत्रार्थोपपादकभाष्यम्) इदमयुक्तं वर्तते। किमत्रायुक्तम्? अजादी गुणवचनादेव 58 इत्युक्त्वा अगुणवचनानामपि अजाद्योरादेशा उच्यन्ते। नैष दोषः। एतदेव ज्ञापयति - भवत एतेभ्यो।?गुणवचनेभ्योऽपि अजादी इति, यदयमजाद्योः परत आदेशान् शास्ति। एवमपि तयोः इति वक्तव्यं स्यात्, तयोः परत इति॥ यदि पुनरयं विधिर्ज्ञायेत। नैवं शक्यम्, व्यञ्ञ्जनादी हि न स्याताम्, उपाधीनां च संकरः स्यात् पुनर्विधानादजाद्योः। ननु चैते विशेषा अनुवर्तेरन्। यद्यप्येते अनुवर्तेरन् व्यञ्ञ्जनादी तर्हि न स्याताम्। एवं तर्हि आचार्यप्रवृत्तिर्ज्ञापयति - भवत एतेभ्योऽगुणवचनेभ्योऽप्यजादी इति - यदयमजाद्योरादेशं शास्ति। ननु चोक्तं तयोरिति वक्तव्यमिति। न वक्तव्यम्। प्रकृतमजादिग्रहणमनुवर्तते। क्व प्रकृतम्? अजादी गुणवचनादेवेति। तद्वै प्रथमानिर्दिष्टम्, सप्तमीनिर्दिष्टेन चेहार्थः। अर्थाद्विभक्तिविपरिणामो भविष्यति। तद्यथा - उच्चानि देवदत्तस्य गृहाणि, आमन्त्रयस्वैनम्; देवदत्तमिति गम्यते। देवदत्तस्य गावोऽश्वा हिरण्यम्, आढ्यो वैधवेयः; देवदत्त इति गम्यते। पुरस्तात्षष्ठीनिर्दिष्टं सदर्थात्प्रथमानिर्दिष्टं द्वितीयानिर्दिष्टं च भवति। एवमिहापि - पुरस्तात्प्रथमानिर्दिष्टं सदर्थात्सप्तमीनिर्दिष्टं भविष्यति॥ Kashika ------- प्रशस्यशब्दस्य श्र इत्ययमादेशो भवत्यजाद्योः प्रत्यययोः परतः। अजादी इति प्रकृतस्य सप्तमी विभक्तिर्विपरिणम्यते। ननु च प्रशस्यशब्दस्यागुणवचनत्वादजादी न संभवतः? एवं तर्ह्यादेशविधानसामर्थ्यात् तद्विषयो नियमो न प्रवर्तते, अजादी गुणवचनादेवेति। एवमुत्तरेष्वपि योगेषु विज्ञेयम्। सर्व इमे प्रशस्याः, अयमेषामतिशयेन प्रशस्यः श्रेष्ठः। उभाविमौ प्रशस्यौ, अयमनयोरतिशयेन प्रशस्यः श्रेयान्। अयमस्मात् श्रेयान्। **प्रकृत्यैकाच्** (६.४.१६३) इति प्रकृतिभावात् श्रशब्दस्य टिलोपयस्येतिलोपौ न भवतः॥ Siddhanta Kaumudi ----------------- अस्य श्रादेशः स्यादजाद्योः ॥ Laghu Siddhanta Kaumudi ----------------------- अस्य श्रादेशः स्यादजाद्योः परतः॥ Balamanorama ------------ **प्रशस्यस्य श्रः** - प्रशस्यस्य श्रः । अजाद्योरिति । इष्ठन्नीयसुनोरित्यर्थः । 'अजादी' इत्यनुवृत्तं सप्तम्या विपरिणम्यत इति भावः । प्रशस्यशब्दस्य क्रियाशब्दतया गुमवचनत्वाऽभावेऽपि अत एव ज्ञापकादिष्ठन्नीयसुनौ । श्र-इष्ठ, श्र-ईयस् इति स्थिते इष्ठेमेयःसु विहितटिलोपे प्राप्ते — । Tattvabodhini ------------- **प्रशस्यस्य श्रः** - प्रशस्यस्य श्रः ।अजादी॑इत्यनुवृत्तं सप्तम्या विपरिणम्यत इत्याह -अजाद्योरिति । अजाद्योः किम् । प्रशस्यतरः । प्रशस्यतमः । Padamanjari ----------- अजाद्योः प्रत्यययोः परत इति। ननु चाजादी इति प्रथमान्तं प्रकृतम्। न सप्तम्यन्तम्, तत्कथमयमर्थो लभ्यते ? इत्यत आह - अजादी इति प्रकृतस्येत्यादि। प्रकृतस्य या विभक्तिः प्रथमा सा सप्तमीरूपेण विपरिणम्यते, ऊह्यत इत्यर्थः। एवं तर्हीत्यादि। अथ यावेव सम्भवतः - तरप्तमपौ, तयोरेव परतोऽयमादेशः कस्मान्न भवति? नैवं भवितुमर्हति; ठजादीऽ इत्यनुवृत्तिसामर्थ्यात्। अथात्रैवाजाद्योर्विधिः कस्मान्न विज्ञायते - प्रशस्यशब्दादजादी भवतः, श्रश्चास्यादेश इति, तत्रायमप्यर्थः - विभक्तिविपरिणामो न कर्तव्यो भवति? नैवं शक्यम्; तरप्तमपौ हि स्याताम्, विशेषविहितावजादी बाधेयाताम्, उपाधीनां च सङ्करः स्याद्-इष्ठन्विषये ईयसुन्, तद्विषये चेष्ठन्निति। तद्विषय इति। स प्रशस्यशब्दो विषयो यस्य स तद्विषयः। सप्तम्यन्तपाठे तु स एव विषयस्तत्रेत्यर्थः। नियमो न प्रवर्तत इति। नयमाप्रवृत्तिज्ञापनद्वारेणाजादिभावो ज्ञाप्यते, न तु साक्षादित्यर्थः; अन्यथा पुनरनजाद्योर्बाध उपाधिसङ्करश्च स्यात्, उक्तेन प्रकारेण स्वशास्त्रेणैवाजाद्योर्विदानान्नैतद्दोषद्वयमपि भवति। कथं पुनर्थाश्रुतसम्बन्धसम्भवेऽपि विपरिणामः शक्य आश्रयितुम् ? शृणु; अजाद्योर्विधिरिष्टश्चेत्पञ्चम्या निरदेक्ष्यत्। किञ्च एवं सन्नियोगार्थश्चकारोऽप्यकरिष्यत। टिलोप-यस्येतिलोपाविति।'यस्येति' इत्यनेन लोपो यस्येतिलोपः,'कर्तृकरणे कृता बहुलम्' इति समासः, तत्रानुकरणत्वादस्यवामीयमित्यादिवद्बिभक्तेरलोपः। ठाद्गुणःऽ इति त्वनङ्गत्वान्न प्रतिषिध्यते ॥ Nyaas ----- ननु चाजीदी इति प्रथमान्तम्, तत्कथमजाद्योः परत आदेशो लभ्यते? इत्याह - `अजादी` इतचि। `तद्विषयः` इति। स प्रशस्यशब्दो विषयो यस्य स तद्विषयः। **अजादी गुणवचनादेव** (5.3.58) इतत्यनेन यो नियमः स तद्विषये न प्रवर्तत इति दर्शयति। `एवमुत्तरेष्वपि` इति। **वृद्धस्य च** (5.3.62) इत्येवमादिषु। अयमनयोः अयमनयोः श्रेयानिति द्विवचनोपपद ईयसुन्? अयमस्मात्? श्रेयानिति विभज्योपपदे। पूर्वत्र निर्धारणे षष्ठी (2.3.41) , उत्तरत्र **पञ्चमी विभक्ते** (2.3.42) इति पञ्चमी॥ Prakriyasarvasvam ----------------- अस्याजाद्योः परयोः श्रादेशः स्यात् । अस्य 'प्रकृत्यैकाच्' (६-४-१६३) इति टिलोपाभावः । श्रेष्ठः, श्रेयान् ॥ Sutra Prayogas -------------- * **श्रेयान्** (शिशुपालवधम्): `प्रशस्यस्य श्रः` इति श्रादेशः।