53044: एकाद्धो ध्यमुञन्यतरस्याम् ================================ **Padacheda:** एकात् | S | 5 | 1 | धः | S | 6 | 1 | ध्यमुञ् | S | 1 | 1 | अन्यतरस्याम् | S | 7 | 1 | Sutrartha --------- **'एक' शब्दात् 'धा' प्रत्ययस्य विकल्पेन 'ध्यमुञ्' आदेशः भवति ।** **संख्याया विधार्थे धा** (5.3.42) तथा **अधिकरणविचाले च** (5.3.43) एतयोः सूत्रयोः सङ्ख्यावाचिभ्यः शब्देभ्यः 'धा' इति प्रत्ययः भवति । 'एक' शब्दात् विहितस्य अस्यैव 'धा' प्रत्ययस्य वर्तमानसूत्रेण विकल्पेन 'ध्यमुञ्' इति आदेशः विधीयते । अस्मिन् आदेशे ञकारस्य इत्संज्ञा भवति, तथा च मकारोत्तरः अकारः उच्चारणार्थः अस्ति । द्वयोः अपि लोपः भवति । प्रक्रिया एतादृशी - एक + धा → एक + ध्यमुञ् ['धा' इत्यस्य 'ध्यमुञ्' आदेशः ] → ऐक + ध्यम् [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → ऐकध्यम् । यथा - ऐकध्यम् भुङ्क्ते (= एकेन प्रकारेण भुङ्क्ते) । अष्ट राश्यः ऐकध्यम् कुरु (= अष्टानाम् राशीनाम् मिलित्वा एका राशिः कुरु) । ज्ञातव्यम् - 1. अनेन सूत्रेण निर्मितस्य 'ऐकध्यम्' शब्दस्य **तद्धितश्चासर्वविभक्तिः** (1.1.38) इत्यनेन अव्ययसंज्ञा भवति । 2. 'ऐकध्यम्' इत्यत्र अन्ते विद्यमानः मकारः शब्दस्य एव अवयवः अस्ति । अयं मकारः नपुंसकलिङ्गस्य एकवचनस्य न - इति स्मर्तव्यम् । 'ऐकध्यम्' इति शब्दः अव्ययसंज्ञकः अस्ति, अतः अस्मात् विहितानाम् 'सुँप्' प्रत्ययानाम् **अव्ययादाप्सुपः** (2.4.82) इत्यनेन लोपः भवति । Vasu English Summary -------------------- After the word एक the substitute comes optionally instead of धा। Vasu English Translation ------------------------ After the word एक the substitute comes optionally instead of धा। Thus एकधा राशिं कुरु or ऐकध्यं कुरु, एकधा भुङ्क्ते or ऐकध्यं भुङ्क्ते ॥ The repetition of धा in the *sutra* shows that the substitution takes place when the sense is that of विधा, as well as when it is that of अधिकरण विचाल ॥ Had धा not been repeated, the substitution would have come in the sense of अधिकरण विचाल only, as immediately preceding this *sutra*. Bhashya ------- एकाद्धो ध्यमुञ्ञन्यतरस्याम् (2202) (ध्यमुञ्ञोऽधिकरणम्) (5827 पूर्वपक्षिवार्तिकम्॥ 1 ॥) - सहभावे ध्यमुञ्ञ् - (भाष्यम्) सहभावे ध्यमुञ्ञ् वक्तव्यः। ऐकध्यं राशिं कुरु। स तर्हि वक्तव्यः? (समाधानभाष्यम्) न वक्तव्यः। अधिकरणविचाले इत्युच्यते, न चावश्यं स एवाधिकरणविचालः - यदेकमनेकं क्रियते, यदप्यनेकमेकं क्रियते सोऽप्यधिकरणविचालः॥ Kashika ------- एकशब्दात् परस्य धाप्रत्ययस्य ध्यमुञादेशो भवत्यन्यतरस्याम्। एकधा राशिं कुरु, ऐकध्यं कुरु। एकधा भुङ्क्ते, ऐकध्यं भुङ्क्ते। प्रकरणादेव लब्धे पुनर्धाग्रहणं विधार्थे विहितस्यापि यथा स्यात्। अनन्तरस्यैव ह्येतत् प्राप्नोति॥ Siddhanta Kaumudi ----------------- ऐकध्यम् । एकधा ॥ Balamanorama ------------ **एकाद्धो ध्यमुञन्यारयाम्** - एकाद्धो । एकात्-ध इति च्छेदः । धाशब्दस्य 'ध' इति षष्ठएकवचनम् । एकशब्दात्परस्य धाप्रत्ययस्य ध्यमुञादेशः स्यादित्यर्थः । ऐकध्यमिति । नच एकशब्दात् ध्यमुञ्प्रत्ययः स्वतन्त्रो विधीयतां नतु धाप्रत्ययस्यादेश इति वाच्यं, तथा सति अधिकरणविचाल एव सन्निहितत्वादापत्तेः । Tattvabodhini ------------- **एकाद्धो ध्यमुञन्यारयाम्** - एकाद्धो । शब्दप्रधानत्वात्सर्वनामकार्याऽभावः । इह प्रकरणादेव सिद्धे पुनर्धाग्रहणं विधार्थे विहितस्यापि यथा स्यात् ।अनन्तरस्ये॑ति न्यायेनाधिकरणविचाले विहितस्यैव हि प्राप्नोतीति वृत्तिपदमञ्जार्योः स्पष्टम् । एतेन ध्युमञ् स्वतन्त्र एव प्रत्ययोऽस्त्वित्याशङ्का परास्ता । ऐकध्यमिति । विधार्थे -॒एकेध्यं भुङ्क्ते॑ । अधिकरणविचाले तु — ऐकध्यं राशिं कुर्वि ॑त्यादि ज्ञ्यम् । एवमग्रेऽपि द्वैधमिच्यादौ योज्यम् । Padamanjari ----------- ठेकाद्ऽ इति शब्दप्रधानत्वात्सर्वनामकार्याभावः एकधा राशि कुर्विति। अधिकरणविचाले उदाहरणं। ऐकध्यं भुङ्क्त इति। विधार्थे। प्रकरणादेव लब्ध इति। कस्मिन् लब्धे? धाप्रत्ययस्य स्थानित्वे। इह हि पूर्वसूत्राद्धाग्रहणमनुवर्तते, स च पूर्वमेव विहित इति विधानासम्भवात् स्थानित्वमेव विज्ञास्यते। विधार्थे विहितस्यापि यथा स्यादिति। स्थान्यादेशाभावोऽप्येतदर्थमेवाश्रितः; प्रत्ययान्तरेऽप्यस्मिन्दोषाभावात्। किं पुनः कारणं विधार्थे विहितस्य तस्य न स्याद्? अत आह - अनन्तरस्यैव हीति। ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति भावः ॥ Nyaas ----- `ऐकध्यं कुरु` इति। अधिकरणविचाल उदाहरणम्। ऐकध्यं भुङ्क्ते` इति। विधार्थे। अत्र धाग्रहणमनुवर्तते, न च तत्र विध्यर्था वृत्तियुक्ता; पूर्वमेव विहितत्वात्। तस्मादनुवृत्तिसामर्थ्यात्? स्थानित्वं धाप्रत्ययस्य विज्ञायत इत्याह - `प्रकरणादेव लब्धे` इति। धाप्रत्ययस्य स्थानित्व इति शेषः। किं पुनः कारणमसति धाग्रहणे विधार्थे विहितस्य न भवति? इत्याह - `अनन्तरस्यैव हि` इत्यादि। असति हि पुनर्धाग्रहणे `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` (व्या। प। 19) इत्यधिकरणविचालार्थे यो विहितस्तस्यैव स्यात्, न तु विधार्थे यो विहितस्तस्य। पुनर्धाग्रहणे तु सति धामात्रस्यादेशः सिद्धो भवति॥ Prakriyasarvasvam ----------------- एकात्परस्य धो वा ध्यमुञादेशः । ऐकध्यं भुङ्क्ते । एकधा ॥