53034: उत्तराधरदक्षिणादातिः =========================== **Padacheda:** उत्तर-अधर-दक्षिणात् | S | 5 | 1 | आतिः | S | 1 | 1 | Sutrartha --------- **'उत्तर', 'अधर' तथा 'दक्षिण' एते शब्दाः यदा 'दिशा', 'स्थान' उत 'काल' एतेषु अर्थेषु प्रयुज्यन्ते, तदा तेषाम् सप्तम्यन्तेभ्यः, पञ्चम्यन्तेभ्यः तथा च प्रथमान्तेभ्यः रूपेभ्यः 'आति' इति प्रत्ययः स्वार्थे विधीयते ।** 'दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः **दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः** (5.3.27) इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्यये प्राप्ते तस्य अपवादस्वरूपेण 'उत्तर', 'अधर' तथा 'दक्षिण' एतेभ्यः शब्देभ्यः वर्तमानसूत्रेण 'आति' प्रत्ययः विधीयते । अस्मिन् प्रत्यये तकारोत्तरः इकारः उच्चारणार्थः अस्ति, अतः तस्य लोपः भवति । यथा - 1. उत्तरस्याम् दिशि / उत्तरस्मिन् देशे / उत्तरस्मिन् काले / उत्तरस्याः दिशः / उत्तरस्मात् देशात् / उत्तरस्मात् कालात् / उत्तरा दिक् / उत्तरः देशः / उत्तरः कालः = उत्तर + आति [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → उत्तर + आत् → उत्तर् + आत् [**यस्येति च** (6.4.148) इति अकारलोपः] → उत्तरात् 2. अधरस्याम् दिशि / अधरस्मिन् देशे / अधरस्मिन् काले / अधरस्याः दिशः / अधरस्मात् देशात् / अधरस्मात् कालात् / अधरा दिक् / अधरः देशः / अधरः कालः = अधर + आति [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → अधर + आत् → अधर् + आत् [**यस्येति च** (6.4.148) इति अकारलोपः] → अधरात् 3. दक्षिणस्याम् दिशि / दक्षिणे देशे / दक्षिणस्याः दिशः / दक्षिणात् देशात् / दक्षिणा दिक् / दक्षिणः देशः = दक्षिण + आति [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → दक्षिण + आत् → दक्षिण् + आत् [**यस्येति च** (6.4.148) इति अकारलोपः] → दक्षिणात् विशेषः - 'दक्षिण' शब्दः 'काल' अस्मिन् अर्थे न प्रयुज्यते, अतः तस्य उदाहरणानि न लभन्ते । अनेन प्रकारेण 'उत्तरात्', 'अधरात्', 'दक्षिणात्' एते शब्दाः सिद्ध्यन्ति । एतेषामव्ययसंज्ञा भवति । ज्ञातव्यम् - 1. अत्र प्राप्ताः 'उत्तरात्', 'अधरात्', 'दक्षिणात्' - एते शब्दाः **तद्धितश्चासर्वविभक्तिः** (1.1.38) इत्यनेन अव्ययसंज्ञकाः भवन्ति । यद्यपि एते 'पञ्चम्यन्त'रूपवत् दृश्यन्ते, तथापि एते भिन्नाः शब्दाः इति ज्ञेयम् । यथा - 'दक्षिणात् वसति', 'दक्षिणात् दिक्', 'दक्षिणात् आगतः' - एते त्रयः अपि प्रयोगाः साधवः एव । 2. **दक्षिणोत्तराभ्यामतसुच्** (5.3.28) इत्यनेन 'दक्षिण' तथा 'उत्तर' एताभ्याम् शब्दाभ्याम् 'अतसुच्' इति प्रत्ययः अपि अस्मिन्नेव सन्दर्भे उक्तः अस्ति । Vasu English Summary -------------------- The affix अति is added to the words 1. उत्तर and 2. दक्षिण in the sense of अस्ताति। Vasu English Translation ------------------------ The affix अति is added to the words 1. उत्तर and 2. दक्षिण in the sense of अस्ताति। Thus उत्तरस्यां दिशि वसति = उत्तराद्वसति; उत्तरादागतः, उत्तराद्रमणीयम् ॥ Similarly अधरात् and दक्षिणात् ॥ Kashika ------- उत्तराधरदक्षिणशब्देभ्य आतिः प्रत्ययो भवत्यस्तातेरर्थे। उत्तरस्यां दिशि वसति उत्तराद् वसति। उत्तरादागतः। उत्तराद् रमणीयम्। अधराद् वसति। अधरादागतः। अधराद् रमणीयम्। दक्षिणाद् वसति। दक्षिणादागतः। दक्षिणाद् रमणीयम्॥ Siddhanta Kaumudi ----------------- उत्तरात् । अधरात् । दक्षिणात् ॥ Balamanorama ------------ **उत्तराधरदक्षिणादातिः** - उत्तराधर । आतिप्रत्यये इकार उच्चारणार्थः । अस्तातेरपवादः । Padamanjari ----------- आतिप्रत्ययो भवतीति। दक्षिणोतराभ्यामतसुजपि भवति, अधरशब्दादस्तातिरपि; ठस्ताति चऽ इत्यधरशब्दस्याधादेशविधानाल्लिङ्गात्। अत्र चोतरादीनां सप्तम्यादीनां च साम्ये सत्यपि पूर्ववद्यथासंख्याभावः। अस्तादिस्तूतरादीनां न सम्भवति, दक्षिणशब्दस्य काले वृत्यसम्भवात् ॥ Nyaas ----- उत्तरदक्षिणाभ्यां **दक्षिणोत्तराभ्यामतसुच्** (5.3.28) **एनबन्यतरस्यामदूरेऽपञ्चम्याः** (5.3.35) , **दक्षिणादाच्** (5.3.36) , **आहि च दूरे** (5.3.37) , **उत्तराच्च** (5.3.38) इत्येभिर्योगैरतसुजादिषु प्राप्तेष्वधरादप्यस्तातावातिर्विधीयते, तस्यास्तातिर्बाध्यत एव। अतसुजादयस्तु वचनात्पक्षे भवन्त्येव। अत्र च यद्यप्युत्तरादीनां सप्तम्यादीनां च विभक्तीनां दिगादीनां चोपाधीनां त्रित्वम्, तथापि यथासंख्यं न भवति। कुतः? तदर्थस्य स्वरितत्वस्याप्रतिज्ञानात्। लध्वक्षरस्याधरशब्दस्यापूर्वनिपाताल्लक्षणव्यभिचारचिह्नाद्वाऽस्य लक्षणान्तरनिरपेक्षतां दर्शयन्? यथासंख्यलक्षणमिह नापेक्ष्यत इति सूचयति। तेन विभक्तिभिस्तावद्यथासंख्यं न भवति। उपाधिभिस्तु दक्षिणशब्दस्य काले वृत्त्यसम्भवाच्च॥ Prakriyasarvasvam ----------------- एभ्योऽस्तात्यर्थे आतिः स्यात् । उत्तराद् वसतीत्यादि ।।