53016: इदमो र्हिल्¶
Padacheda: इदमः | S | 5 | 1 |
र्हिल् | S | 1 | 1 |
Sutrartha¶
‘इदम्’ शब्दस्य सप्तमीविभक्त्यन्तात् काले अभिधेये ‘र्हिल्’ इति प्रत्ययः स्वार्थे विधीयते ।
अनेन सूत्रेण ‘र्हिल्’ ( = र् + ह् + इ + ल्) इति प्रत्ययः पाठ्यते । ‘काले’ इत्यस्य विशेषणरूपेण प्रयुज्यमात् इदम्-शब्दस्य सप्तम्यन्तात् अयम् प्रत्ययः स्वार्थे भवति । प्रक्रिया इयम् - अस्मिन् काले इत्येव = अस्मिन् + र्हिल् → अस्मिन् + र्हि [लकारस्य इत्संज्ञा, लोपः] → इदम् + र्हि [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → एत + र्हि [‘इदम्’ सर्वनाम्नः रेफादौ विभक्तिप्रत्यये परे एतेतौ रथोः (5.3.4) इत्यनेन ‘एत’ इति आदेशः ] → एतर्हि अनेन प्रकारेण निर्मितः ‘एतर्हि’ शब्दः ‘अस्मिन् काले’ इत्यस्मिन्नेव अर्थे प्रयुज्यते । तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यनेन अस्य अव्ययसंज्ञा भवति । ज्ञातव्यम् - दानीं च (5.3.18) इत्यनेन ‘इदम्’ इत्यस्य सप्तम्यन्तरूपात् ‘अस्मिन् काले’ इत्यमिन्नेव अर्थे ‘दानीम्’ प्रत्ययः अपि विधीयते, येन ‘इदानीम्’ इति अव्ययम् सिद्ध्यति । अस्यापि अर्थः ‘एतर्हि’ इत्येव ।
Vasu English Summary¶
After इदम् ‘this’ ending in the Locative -7th case comes the affix र्हिल् when time is denoted.
Vasu English Translation¶
After इदम् ‘this’ ending in the Locative -7th case comes the affix र्हिल् when time is denoted. The words सप्तम्याः and काले are understood. This rhil debars ha. The ल् of र्हिल् is for accent. Thus अस्मिन् काले = एतर्हि (5.3.4) ‘at this time’. Why ‘when time is denoted’? Observe, इह ‘in this place’, as इह देशे ॥ See (5.3.4).
Kashika¶
सप्तम्या इत्येव, काल इति च। इदमः सप्तम्यन्तात् काले वर्तमानाद् र्हिल् प्रत्ययो भवति। हस्यापवादः। लकारः स्वरार्थः। अस्मिन् काल एतर्हि। काल इत्येव — इह देशे॥
Siddhanta Kaumudi¶
सप्तम्यन्तात्काले इत्येव । हस्यापवादः । अस्मिन्काले एतर्हि । काले किम् । इह देशे ॥
Laghu Siddhanta Kaumudi¶
सप्तम्यन्तात् काल इत्येव॥
Balamanorama¶
इदमो र्हिल् - इदमो र्हिल् । इदमः — र्हिल् इति च्छेदः । एतर्हीति । इदम्शब्दात् र्हिल् ।एतेतौ रथो॑रित्येतादेशः ।
Tattvabodhini¶
इदमो र्हिल् - एतर्हीति ।एततौ रथोः॑एत्येतादेशः ।
Padamanjari¶
लकारः स्वरार्थ इति। यथा हीत इत्यत्र ठूडिदम्ऽ इत्यादिना स्वरो भवति, तथेह न भवति; लित्वस्याचरीतार्थत्वात्। तसिलस्तु लित्वलमिदमोऽन्यत्र चरितार्थम् ॥
Nyaas¶
हस्यापवादः इति। इदमो हः (5.3.11) इति प्राप्तस्य। लकारः स्वरार्थः इति। लिति (6.1.193) प्रत्ययात्? पूर्वस्योदात्तत्वं यथा स्यात्। ननु च यथा इत इत्यत्र - ऊडिदम् (6.1.165) इत्यादिना विभक्तिस्वरो भवति, तथेहापि तेनैव भवितव्यम्? नैतदस्ति; तथा हि युक्तमित इत्यत्र यद्विभक्तिस्वरो भवतीति; तसिलो लित्त्वस्य परितः, अभित इत्यतर चरितार्थत्वात्, अस्य तु हिलो लित्करणमकृतार्थम्। तद्यदि विभक्तिस्वरेम बाध्येत तस्यानर्थक्यं स्यात्। तस्माल्लित्स्वर एव भवति॥
Prakriyasarvasvam¶
सप्तम्यन्तादिदमः काले र्हिल् स्यात् ।